लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६६
[[लेखकः :|]]
अध्यायः ०६७ →

श्रीनारायण उवाच
येषां तु नरके घोरे गतान्यब्दशतानि वै ।
सन्ततिर्नैव विद्येत दूतत्वं ते प्रयान्ति हि ।। १ ।।
यमेन प्रेषितास्ते वै मानुषादेर्मृतस्य च ।
दिने दिने प्रगृह्णन्ति दीपमन्नं घटादिकम् ।। २ ।।
प्रेतस्यैव प्रयच्छन्ति ह्यन्नकामस्य सत्तृषः ।
तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् ।। ३ ।।
चित्रगुप्तपुरं पूर्वं योजनानां तु विंशतिः ।
कायस्थास्तत्र पश्यन्ति पापपुण्ये च सर्वथा ।। ४ ॥
योजनानां चतुर्विंशतिस्तु वैवस्वतं पुरम् ।
तत्र गत्वा प्रेष्यदूताः प्रतीहारं वदन्ति वै ॥ ५ ॥
धर्मध्वज प्रतीहारे ब्रूते तस्य शुभाऽशुभम् ।
यमराजस्य दूतास्तु भीषणा यमकिंकराः ॥ ६ ॥
पाशदण्डधरा घोराः सहस्राणि च षोडश ।
एकैकस्य पुरस्याऽग्रे सहस्रैकं च तिष्ठति ॥ ७ ॥
धर्मराजः स्वयं न्यायं ददात्यस्मै तु पापिने ।
तत्र तत्र च नरकान् प्रभुंक्ते तद्यथा शृणु ॥ ८ ॥
प्रसह्य परवित्तस्त्र्यपत्यपत्यादिहारकाः ।
पतन्ति तत्र तामिस्रे भृशं क्षुत्तृट्प्रबाधिताः ॥ ९ ॥
वंचयित्वा परवित्ताऽपत्यनार्यादिभोगिनः ।
पतन्ति त्वन्धतामित्रे नष्टदृङ्मतयस्तु ते ॥1.66.१०॥
पतन्ति हिंसका महारौरवे तत्र देहिनः ।
क्रव्यादा रुरवो भूत्वा घातयन्ति स्वघातकम् ॥११॥
भूतद्रोहैः कुटुम्बस्य पोषका यान्ति रौरवे ।
भूतानि रुरवः सर्पा भूत्वा हिंसन्ति हिंसकान् ॥१२॥
पश्वादिरन्धका दुष्टाः कुंभीपाके पतन्ति वै।
दूतास्ताँस्तप्ततैलेषु रन्धयन्ति मुहुर्मुहुः ॥१३॥
गुरुपितृब्रह्मसाधुसाध्व्यादिप्राणिनां द्रुहः ।
यान्ति वै कालसूत्राख्येऽयुतयोजनमण्डले ॥१४॥
वह्नितप्ते ताम्रखले लोठयन्ति दहन्ति ते ।
स्वधर्महन्ता पाखण्डी वने यात्यसिपत्रके ॥१५॥
उभतोधारखड्गैः संछिद्यते मृद्यते मुहुः ।
अन्यायदण्डदा यान्ति सूकरास्याख्ययन्त्रके ॥१६॥
निष्पीड्यमानाऽवयवाश्चूर्णीभवन्ति तत्र वै।
ईशकल्पितवृत्तीनां यूकामशकपक्षिणाम् ॥१७॥
जन्तूनां नाशकर्तारो ह्यन्धकूपे पतन्ति वै।
तत्र दूता जन्तुरूपा द्रुग्धा द्रुह्यन्ति तान्पुनः ॥१८॥
असंविभज्य भोक्तारः पतन्ति कृमिभोजने ।
भक्ष्यन्ते कृमिभिस्ते च शतसाहस्रयोजने ।।१९।।
स्तेयाद्बलात्परस्वर्णरत्नभ्वाद्यपहारकाः
संदंशे यान्त्ययोदंशैर्निष्कृन्तन्ति च तान् यमाः ॥1.66.२०॥
अगम्याँस्तु नरान्नारीर्बलात्कारेण कामुकान् ।
तप्तसूर्म्यां तप्तलोष्ठपुतल्याऽऽलिंगयन्ति ते ॥२१॥
पश्वादिनरमादासु प्रसह्य कामुकान् जनान् ।
वज्रकंटकशाल्मल्यामारोप्य कर्तयन्ति वै ॥२२॥
पश्वाचारा नष्टशौचाः श्लेष्मविण्मूत्रपूयके ।
पूयोदाख्ये पतन्त्येते ह्यश्नन्ति तन्मलं तथा ॥२३॥
रक्षका भक्षका भूत्वा रक्ष्यान् भिन्दन्ति भीतिदाः।
विण्मूत्रपूयरक्तात्मवैतरण्यां वहन्ति ते ॥२४॥
मृगयासक्तपश्वादिघातिनः प्राणरोधने ।
पातयित्वेषुभिस्तत्र विध्यन्ति यमपूरुषाः ।।२५।।
विशंसने पशु पक्षिमनुष्यादिविदारकान् ।
विदारयन्ति खादन्त्यसृक् पिबन्ति च ते पुनः ॥२६॥
असंख्यजन्तुनाशोत्थमदिरापानकृज्जनान् ।
तप्ताऽयोरसपानं वै कारयन्ति बलाद् यमाः ॥२७॥
कूटसाक्ष्यप्रकर्तॄंश्चावीचौ याम्याः पुनः पुनः ।
गव्यूतिद्विशतोच्छ्रायगिरेस्तु पातयन्ति वै ॥२८॥
विषदानग्निदान्दुष्टान् श्वादनेऽदन्ति कुक्कुराः ।
रेतःप्रपायकान् लाळाः पाययन्ति यमानुगाः ॥२९॥
पूज्यपूजाव्यतिचारकर्ता तु क्षारकर्दमे ।
पतत्यवाक्शिरास्तत्र तत्फलं च समश्नुते ॥1.66.३०॥
पशुपक्षिनरनारीखादकानां यमानुगाः ।
खादन्त्यसृक् प्रापिबन्ति रक्षोगणप्रभोजने ॥३१॥
प्राणिनां कण्टकसूचीशूलैस्तु वेधकान्मुहुः ।
शूलप्रोते प्रविध्यन्ति तीक्ष्णाग्रैर्यमसेवकाः ॥३२॥
प्राण्युद्वेगप्रकर्तॄंश्च दंदशूके शताननाः ।
दन्दशूकास्त्रोटयन्ति ग्रसन्ते च मुहुर्मुहुः ॥३३॥
गुहाविवरकुसूलबिलादौ प्राणिरुन्धकान् ।
याम्या रुन्धन्ति धूमाद्यैर्वह्निना सगरेण च ॥३४॥
मांसादिखादकान् दूताः खादन्ति क्षुधिताः पुनः ।
करस्पर्शेण जायन्ते पूर्णाः खादन्ति तान्पुनः ॥३५॥
आढ्याभिमानिनं तिर्यक्प्रेक्षकं पापकारिणम् ।
सूचीमुखे पातयित्वा सूत्रैः परिवयन्ति च ॥३६॥
दीनदुर्बलसत्पात्रमीक्षते क्रुद्धचक्षुषा ।
तन्नेत्रे वज्रतुण्डैरुत्पाटयन्ति पतत्त्रिणः ॥३७॥
अन्येषां तु वृक्षफलचौर्यकर्तारमेव तु ।
ताले उत्तोल्य भूभागे पातयन्ति यमानुगाः ॥३८॥
अरण्यक्षेत्रदग्धारं महाज्वाले निपात्य वै ।
वह्नौ तं भर्जयन्त्येव यमदूता मुहुर्मुहुः ॥३९॥
अशुद्धं भोजयितारं शमले पातयन्ति हि ।।
तत्राऽशुद्धं च दुर्गन्धं भोजयन्ति यमानुगाः ॥1.66.४०॥
कंचुकपुटकं ये चोत्कृत्य द्रव्यं हरन्ति तान् ।
विकर्तने क्षिपन्त्युग्राः कृन्तन्ति प्रपिबन्त्यसृक् ।।४१।।
भित्त्यादौ विवरं कृत्वा चोरयन्ति च ये धनम् ।
तानधःशिरसा व्योम्नि तोलयन्ति तलाग्निना ।।४२॥
दुग्धदानन्नतोयाभ्यां सेवन्ते न पशून्नराः ।
रुधिरान्धे पातयन्ति रुधिरं तत् पिबन्ति ते ॥४३॥
दृश्याऽनर्हे दुष्टचक्षुःप्रयोक्तारं यमानुगाः ।
शूलं नेत्रे प्रविश्यैव दण्डं ददति तत्र वै ।।४४।।
अग्निना रन्धिता जीवाः पाचयन्ति च तं तु ते ।
पाषाणैर्भूतहन्तॄन्वै पातयन्ति शिलोपरि ।।४५।।
निरागसो बन्धयिता बध्यते निगडैर्यमैः ।
ज्ञात्वा जन्तुचूर्णयिता चूर्ण्यते लोहयन्त्रकैः ॥४६॥
जीवान्दुःखप्रदाता तु काकोले परिपीड्यते ।
आजीवनं दुःखदाता मिथ्याभिशंसकश्च यः ॥४७॥
मारयित्वा खादयित्वा जीवयित्वा यमानुगाः ।
कृन्तन्ति संछेदयन्ति खादयन्ति ह्यमुं यमाः ॥४८॥
पत्न्यै दुःखप्रदाता यः स्वामिने दुःखदा च या ।
आश्रितानां दुःखदा ये ते पतन्ति तु रौरवे ॥४९॥
इत्येवं रक्षका यत्र भक्षका लुञ्चजीविनः ।।
सर्वे ते नारकाः पाट्या जायन्ते यमकिंकरैः ॥1.66.५०॥
इत्येवं निरयाः सन्ति प्राणिनां निष्कृतात्मकाः ।
यत्र शुद्ध्यन्ति पापिष्ठास्ततो गच्छन्ति जन्मने ॥५१।।
यस्य यादृक् जन्म कर्म विद्यते प्राक् तु संचितम् ।
तस्य तथैव मार्गेण यमः प्रापयते जनिम् ॥५२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चत्वारिंशन्नरकगामिनां पापफलवर्णननामा षट्षष्टितमोऽध्यायः ॥ ६६ ।।