लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६४
[[लेखकः :|]]
अध्यायः ०६५ →

श्रीनारायण उवाच--
याम्यनैर्ऋतयोर्मध्ये पुरं वैवस्वतस्य तु ।
सर्वं वज्रमयं दिव्यमभेद्यं यत् सुराऽसुरैः ।। १ ।।
चतुरस्रं चतुर्द्वारं सप्तप्राकारतोरणम् ।
स्वयं तिष्ठति तस्याऽन्तर्यमो दूतैः समन्वितः ।। २ ।।
योजनानां सहस्रं हि प्रमाणेन तु दृश्यते ।
सर्वं रत्नमयं दिव्यं विद्युन्मालार्कवर्त्तुलम् ।। ३ ।।
पञ्चविंशप्रमाणेन योजनानि समुच्छ्रितम् ।
वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम् ।। ४ ।।
मुक्ताजालं गवाक्षन्तु पताकाशतभूषितम् ।
घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम् ।। ५ ।।
तत्रस्थो भगवान् धर्मः आसने नियते शुभे ।
दशयोजनविस्तीर्णे नीलजीमूतसन्निभे ।। ६ ।।
धर्मज्ञो धर्मशीलश्च धर्मन्यायहितो यमः ।
भयदः पापयुक्तानां धर्मिणां तु सुखप्रदः ।। ७ ।।
पुरमध्ये प्रवेशे तु चित्रगुप्तस्य वै गृहम् ।
पञ्चविंशतिसंख्यानां योजनानां प्रमाणतः ॥ ८ ॥
दशोच्छ्रितं महादिव्यं लोहप्राकारवेष्टितम् ।
प्रतोलीशतसञ्चारं पताकाशतशोभितम् ।। ९ ।।
दीपिकाशतसंकीर्णं गीतध्वनिसमाकुलम् ।
चित्रितं चित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥1.64.१०॥
मणिमुक्तामये दिव्ये आसने परमाद्भुते ।
सुस्थितो गणपत्यायुर्मानुषेष्वितरेषु च ॥११॥
न मुह्यति कथंचित्सः सुकृते दुष्कृतेऽपि च ।
जन्मनोपार्जितं यावत् सदसद्वेति तस्य तत् ।।१२।।
देहेन्द्रियमनोभिश्च कृतं कर्म लिखत्यसौ ।
चित्रगुप्तगृहात्प्राच्यां ज्वरस्याऽस्ति महागृहम् ।।१३।।
दक्षिणे चापि शूलस्य लूताविस्फोटकस्य च ।
पश्चिमे कालपाशस्य अजीर्णस्याऽरुचेस्तथा ॥१४॥
मध्यपीठोत्तरे ज्ञेया नानाविधा विसूचिका ।
ऐशान्यां तु शिरोरोगो वह्रिदिशि तु मूर्छना ॥१५॥
नैर्ऋत्यामतिसारश्च वायव्यां दाहपीडनम् ।
एभिः परिवृतो नित्यं चित्रगुप्तः स वर्तते ॥१६॥
यत्कर्म क्रियते यैश्च तत्सर्वं तु लिखत्यसौ ।
धर्मराजगृहद्वारि दूतास्तिष्ठन्ति कोटिशः ॥१७॥
यमलोकस्य चाऽध्वा वै अन्तरो मानुषस्य च ।
दुःखेन पापिनो यान्ति यममार्गं सुदुर्गमम् ॥१८॥
यमश्चतुर्भुजो भूत्वा शंखचक्रगदाब्जभृत् ।
आहूय पापिनः सर्वान् दूतैर्दण्डं ददाति वै ॥१९॥
प्रलयाम्बुदनिर्घोषो ह्यंजनाद्रिसमप्रभः ।
महिषस्थो दुराराध्यः सूर्यतेजःसमद्युतिः ॥1.64.२०॥
योजनत्रयविस्तृतदेहो । क्रूरोऽतिभीतिदः ।
दोष्णा दण्डधरो भीमः पाशपाणिर्दुराकृतिः ॥२१॥
रक्तनेत्रोऽतिभयदो दर्शनं याति पापिनाम् ।
अंगुष्ठमात्रःपुरुषो हाहाकुर्वन् कलेवरात् ॥२२॥
यदेव नीयते दूतैर्याम्यैर्यमपुरीं तदा ।
दर्शयन्ति भयं तीव्रं दूताः संतर्जयन्ति हि ।।२३।।
शीघ्रं प्रचल दुष्टात्मन् यास्यसि त्वं यमालयम् ।
कुम्भीपाकादिनरकान् त्वां नेष्यामो द्रुतं कुरु ।।२४।।
मार्गे प्रयाति वै प्रेतो . ह्यसिपत्रवनान्विते ।
कण्टकशर्करातप्तवालुकाविषकर्दमे ।।२५।।
अहन्यहनि स प्रेतो योजनानां शतद्वयम् ।
चत्वारिंशत्तथा सप्त अहोरात्रेण गच्छति ॥२६॥
त्रयोदशेऽह्नि स प्रेतो नीयते यमकिंकरैः ।
तस्मिन्मार्गे व्रजत्येको गृहीत इव मर्कटः ।।२७।।
सप्तदशदिनान्येको वायुमार्गेण गच्छति ।
अष्टादशेत्वहोरात्रे पूर्वं याम्यपुरं व्रजेत् ॥२८॥
याम्यं तु प्रथमं प्रोक्तं सौरिपुरं द्वितीयकम् ।
सुरेन्द्रपुरं तृतीयं गन्धर्वनगरं ततः ॥२९॥
शैलपुरं पञ्चमं च षष्ठं क्रूरपुरं तथा ।
सप्तमं क्रौंचनगरं चित्रपुरं तथाऽष्टमम् ॥1.64.३०।।
बह्वापन्नगरं पश्चाद् दशमं दुःखदं पुरम् ।
दशैकमाक्रन्दपुरं सुतप्तनगरं ततः ॥३१॥
त्रयोदशं रौद्रपुरं पयोवृष्टं चतुर्दशम् ।
पञ्चदशं शीतपुरं बहुभयं तु षोडशम् ॥३२॥
सप्तदशं धर्मपुरं याम्यं चाष्टादशं पुरम् ।
पुराण्येतानि सन्त्येव मार्गे विश्रान्तिलब्धये ॥३३॥
पापी मृतो भवेत्प्रेतः प्रेतदेहं तु विन्दति ।
प्रेतदेहस्तु नवभिरहोरात्रैः सुबद्ध्यते ।।३४।।
देहनिष्पत्तिलाभाय पिण्डा देयाः पृथक् पृथक ।
प्रथमेऽहनि यः पिण्डस्तेन मूर्द्धा प्रजायते ॥३५॥
ग्रीवास्कन्धौ द्वितीये तु तृतीये हृदयं भवेत् ।
चतुर्थेऽह्नि भवेत् पार्ष्णिर्नाभिर्वै पंचमे तथा ।।३६।।
षष्ठे कटिः सप्तमे तु गुह्यं पूर्णं प्रजायते ।
दिनेऽष्टमे सक्थिनी च जान्वंघ्री नवमे तथा ॥३७॥
नवभिर्देहमासाद्य दशमेऽह्नि भवेत् क्षुधा ।
देहरूपः क्षुधितश्च गृहाग्रोपरि तिष्ठति ॥३८॥
दशमेऽहनि तं पिण्डं दद्यात्क्षुधानिवर्तकः ।
एकादशद्वादशाहे प्रेतो भुंक्ते दिनद्वयम् ॥३९॥
त्रयोदशेऽह्नि वै प्रेतो नीयते तु महापथे ।
सप्तदशदिनं यावत् वायुमार्गेण गच्छति ।।1.64.४०।।
अष्टादशे त्वहोरात्रे पूर्वं याम्यपुरं व्रजेत् ।
तत्र महान्प्रेतगणः पुष्पभद्रानदीतटे ॥४१॥
महान्यग्रोधछायायां प्रेतो विश्राममृच्छति ।
क्रन्दति करुणैर्वाक्यैस्तृषार्तः श्रमपीडितः ॥४२॥
शम्बलस्तत्पुराध्यक्षः प्रेताय संप्रयच्छति ।
यदि दत्तं सुतैः पुत्रैः स्नेहाद्वा कृपयाऽथवा ॥४३॥
मासिकं पिण्डमत्त्वा च याति सौरिपुरं ततः ।
तत्र नाम्ना तु राजा वै जंगमः कालरूपधृक् ॥४४॥
त्रिपाक्षिकं तु पिण्डं वै ददात्यस्मै सुभुक्तये ।
जलं चान्नं तत्र भुक्त्वा तत्पुरं सोऽतिगच्छति ।।४५।।
मासद्वयाऽऽभ्यन्तरे वै सुरेन्द्रपुरमृच्छति ।
सुरेन्द्रो भीषणस्तन्ताऽधिष्ठाताऽस्मै ददाति हि ॥४६॥
मासद्वयान्तरे दत्तं पिण्डं वा यदि भोजनम् ।
व्यतिक्रम्य पुरं तच्च तृतीये मासि चापरम् ॥४७॥
गन्धर्वपुरमासाद्याऽश्नाति पिण्डं त्रिमासगम् ।
ततः शैलपुरं मासि चतुर्थे प्रेत एति च ।।४८॥
पतन्ति तत्र पाषाणाः प्रेतस्योपरि पृष्ठतः ।
चतुर्थमासिकं श्राद्धं भुक्त्वा क्रूरपुरं गतः ।।४९
पञ्चमे मासि तत्रस्थः पिण्डं पञ्चममासिकम् ।
भुक्त्वा याति क्रौंचपुरं षष्ठं क्रौंचाऽधिवासितम् ।।1.64.५०।।
सार्धपंचममासार्ज्यमूनषाण्मासिकं तथा ।
श्राद्धे दत्तं तु पिण्डादि भुक्त्वा विश्रम्य याति च ॥५१॥
चित्रपुरं सप्तमं तत्पुरराजस्तु चित्रकः ।
यमाऽनुजो ह्यधिष्ठाता पिण्डं षाण्मासिकं जलम् ॥५२॥
भोजयत्यथ भुक्त्वा स मार्गे गच्छति चाग्रतः ।
आयान्ति सम्मुखास्तत्र कैवर्तास्तु सहस्रशः ।।५३।।
वयं त्वां तारयिष्यामो महावैतरणीं नदीम् ।
शतयोजनविस्तीर्णां पूयशोणितपूरिताम् ॥५४॥
आमिषादपतत्र्यहिझषकृकचसंवृताम् ।
येन तत्र प्रदत्ता गौः प्रेतं तारयति द्रुतम् ॥५५॥
न प्रदत्ता यदि धेनुर्वैतरण्यां स मज्जति ।
स्वस्थाऽवस्थे शरीरे तु वैतरिण्या व्रतं चरेत् ॥५६॥
देया च विदुषे धेनुस्तां नदीं तर्तुमिच्छता ।
षाण्मासिकं कृतं श्राद्धं तत्र भुक्त्वा प्रसर्पति ॥५७॥
सप्तमे मासि संप्राप्ते याति बह्वापदं पुरम् ।
तत्र भुक्त्वा प्रदत्तं यत् साप्तमासिकसंभवम् ।५८॥
तत्पुरं स व्यतिक्रम्य पुरं दुःखदमृच्छति ।
महद्दुःखमनुभूय क्रोशत्यत्र प्रतापितः ॥५९॥
मास्यष्टमे प्रदत्तं यत् तत्र भुक्त्वा स गच्छति ।
नवमं मासिकं भुंक्ते नानाक्रन्दपुरे स्थितः ।।1.64.६०॥
तत्राऽयं शून्यहृदयः समाक्रन्दति दुःखितः ।
विहाय तत्पुरं प्रेतो याति तप्तपुर प्रति ।।६१॥
सुतप्तनगरं प्राप्य दशमे मासि सोऽश्नुते ।
भोजनैः पिण्डदानैस्तु दत्तैस्तत्र फलं भवेत् ॥६२॥
मासि चैकादशे पूर्णे रौद्रं पुरं स गच्छति ।
दशैमासिकं भुक्त्वा पयोवृष्टं प्रगच्छति ॥६३।।
मेघास्तत्र प्रवर्षन्ति प्रेतानां दुःखकारकाः ।
न्यूनाऽऽब्दिकं च यच्छ्राद्धं तत्र भुंक्ते परेतकः ॥६४॥
सम्पूर्णे च ततो वर्षे याति शीतपुरं ततः ।
महाशीतार्दितः प्रेत आक्रन्दति मुहुर्जडः ॥६५॥
शीतपुरं चातिक्रम्य बहुभीतिपुरं व्रजेत् ।
तत्र क्षुत्तृट्भयाद् दग्धो याति धर्मपुरं ततः ॥६६॥
यत्रोष्मणा प्रबाष्पेण भर्जितो भवते मृतः ।
खादन्ति यमदूतास्तं मार्गश्रमापनुत्तये ॥६७॥
बहुभीतिपुरं धर्मपुरं च धर्मखेटकौ ।
धर्मराजपुरस्यैतौ शाखाग्रामौ समीपगौ ॥६८॥
अथ प्रेतं नयन्तीमे याम्यं धर्मपुरं परम् ।
चतुरशीतिलक्षैश्च मूर्ताऽमूर्तैरधिष्ठितम् ॥६९॥
यमदूतैर्महाक्रूरैरागतानां प्रपीडकैः ।।
प्रेतमत्र न्यायसौधे दूताः कुर्वन्त्युपस्थितम् ॥1.64.७०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यमपुरपरिणाहचित्रगुप्तसौध-मार्गीयाऽष्टादशपुरगमनवत् प्रेतदशाप्रदर्शननामा चतुःषष्टितमोऽध्यायः ॥६४॥