लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६३
[[लेखकः :|]]
अध्यायः ०६४ →

श्रीनारायण उवाच—
यमस्यैतद्वचः श्रुत्वा भगवान् लोकभास्करः ।।
हार्दं गम्भीरमेवैतज्ज्ञात्वा प्रोवाच वै यमम् ॥ १ ॥
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो मातरं प्रति तत्तथा ।। २ ।।
पुत्रं प्रत्यपि मातुश्च क्रोधः समाविशन्ननु ।
पुत्र त्वमसि धर्मज्ञः सत्यवादी च मानदः ।। ३ ।।
न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ।।
कृमयो मांसमादाय यास्यन्ति तु महीं तव ।। ४ ।।
ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ।
कृतमेवं वचः सत्यं मातुस्तव भविष्यति ।।५।।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ।।
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।। ६ ।।
न्यूनाधिको नु तुल्येषु स्नेहो वै क्रियते त्वया ।।
कथमेवं द्वितीयां तु विना स्यात्पक्षपातिता ।। ७ ।।
का त्वं सैव द्वितीया वा वद याथार्थ्यमेव मे ।
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।। ८ ।।
पत्नी तव त्वयाऽपत्यान्येतानि जनितानि मे ।।
इत्थं विवस्वतस्तां तु बहुशः पृच्छतो यदा ।। ९ ।।
नाऽऽचक्षे तु तदा क्रुद्धो रविस्तां शप्तुमुद्यतः ।।
ततः सा कथयामास यथावृत्तं विवस्वते ॥1.63.१०॥
विदितार्थश्च भगवान् सूर्यः शशाप तां तदा ।
सर्वदा त्वं कृष्णवर्णा छाया वृक्षादिजा भव ।।११।।
अन्धकारस्वरूपा त्वं मद्वियोगवती सदा ।।
रोधकवस्त्वावरणा जडरूपा सदा भव ॥१२॥
गच्छ गेहात्सदा दूरं मा मां दर्शय ते मुखम् ।।
मद्रश्मिरोधकवस्त्वधस्तात्त्वं तु सदा वस ॥१३॥
निर्विवास्येति वै छायां जगाम त्वष्टुरालयम् ।।
तत्र संपूजयामास त्वष्टा सूर्यमुपागतम् ।।१४।।
भास्वन् ! किं रहितः शक्त्या मम गेहमुपागतः ।।
पप्रच्छाऽथ च तस्मै स कथयामास तत्त्वतः ।।१५।।
प्राह त्वष्टाऽऽगता साऽत्र भवतः प्रेषिता रवे ! ।।
मम गृहात्पुनर्याता तव गेहं दिवाकर ।।१६।।
दिवाकरः समाधौ ताम् वडवारूपधारिणीम् ।
तपश्चरन्तीमाचष्टे चोत्तरेषु कुरुष्वथ ॥१७॥
तां शप्तुकामो भगवान्नाशाय कुपितो रविः ।।
त्वष्टा तु तं यथान्यायं सान्त्वयामास वै शनैः ॥१८॥
देव ते साऽसहमाना तेजसा ह्यतिपीडिता ।
वह्न्याभनिजरूपस्य छायारूपं विमुच्य च ॥१९॥
घोरारण्ये तु सा गत्वा तपश्चरति दुश्चरम् ।।
घृष्ण्यौष्ण्याद् दग्धदेहा सा तपश्चरति दुःसहम् ॥1.63.२०॥
येन त्वां तेजसाऽसह्यं शरीरेणाऽप्यसंस्कृतम् ।।
बहुशृंगोच्चधारं च खररूक्षोचनीचिनम् ॥२१॥
वज्रादपि सुकठिनं द्रष्टुं सोढुं शशाक न ।
तवेदमतिवैरूप्यं नैव भाति न शोभते ॥२२॥
असहा तस्य सा संज्ञा वने चरति शाद्वले।
तस्माद्रूपं व्रज मन्दं तादृङ्निर्वर्तये त्वहम् ॥२३॥
रूपं विवस्वतस्त्वासीदव्यवस्थं खराऽघटम् ।
एकतः प्रज्वालयति चाऽन्यतोऽनुष्णशीतलम् ॥२४॥
विवस्वानथ तच्छ्रुत्वा व्रीडितोऽभून्मुहुस्तदा ।।
अनुज्ञातस्ततस्त्वष्टा रूपसमीकराय वै ॥२५॥
भ्रमिमारोप्य सूर्यं तु शातयामास शाणतः ।
शृंगदेशास्तदा तस्य द्वादश शातिताः पृथक् ॥२६॥
समीकृतस्तदा सौम्यः सुरूपोभूच्च भास्करः ।।
सह्यतेजाः स्पर्शयोग्यः सहवास्योऽभवद्रविः ॥२७॥
द्वादशेभ्यस्तु खण्डेभ्यस्त्वष्टाऽऽयुधानि निर्ममे ।।
चक्रं सुदर्शनं कृत्वा विष्णवे तत्समार्पयत् ॥२८॥
त्रिशूलं सुमहत् कृत्वा शंभवे तत्समार्पयत् ।।
शक्तिं कृत्वा महालम्बां कार्तिकाय समार्पयत् ॥२९॥
वज्रं कृत्वाऽष्टधारं तत्सुरेन्द्राय समार्पयत् ।।
दण्डं कृत्वा महाघोरं यमाय स समार्पयत् ॥1.63.३०॥
मणिं कृत्वा महामूल्यं कुबेराय समार्पयत् ।
पाशं कृत्वा तु वैद्युतं वरुणाय समार्पयत् ॥३१॥
खड्गं कृत्वा महद्धोरं देव्यै काल्यै समार्पयत् ।
कृपाणं तु महाघोरं कृत्वाऽग्नये समार्पयत् ॥३२॥
फलं कृत्वा महाबाणे नराय तत्समार्पयत् ।
उल्कां कृत्वा महादिव्यां वायवे तां समार्पयत् ॥३३॥
कृकशां दन्त्रिकां कृत्वा निर्ऋताय समार्पयत् ।
तदन्ये स्वल्पखण्डास्तु हीरका मणयोऽभवन् ॥३४॥
अथ सुसंस्कृतः सूर्यो देवरूपं दधार च ।
ददर्श योगमास्थाय स्वां भार्यां वडवां रविः ॥३५॥
गतस्तत्र स्थले रूपं प्रच्छाद्य चाऽस्पृशत्ततः ।।
अश्वरूपेण मार्तण्डः तां चुचुम्ब मुहुर्मुहुः ॥३६॥
पृष्ठे गच्छन्नथोर्ध्वं तां समारोहति कामतः ।
मैथुनाय विचेष्टन्तं परपुंसं विशंक्य सा ॥३७॥
विवृत्य तत्समीपे तु मुखं कृत्वा स्थिताऽभवत् ।।
अश्वरूपोऽपि सूर्यस्तु कामवेगेन चाकुलः ॥३८॥
कंधरायां समुत्प्लुत्य घ्राणे लिंगं निवेश्य च ।
वीर्यं सर्वमसिञ्चद्वै नासिकायां द्विधा तदा ॥३९॥
सा तं निरधमच्छुक्रं नासिकाश्वासवायुना ।।
देवौ तस्मात्समुत्पन्नावश्विनौ भिषजांवरौ ।।1.63.४०॥
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ।।
अत्यद्भुतशरीरौ तौ देववेद्यौ बभूवतुः ॥४१॥
अवशेषेण वीर्येण नासिकातस्तदैव हि ।।
तृतीयोऽभूद् रेवताख्यः पुत्रो नीलसुरूपकः ॥४२॥
स वै तस्मात् तपः कर्तुं पश्चिमायां गतो दिशि ।।
रैवताचलमासाद्य तत्र वासं चकार ह ॥४३॥
रैवतस्य गिरेः सोऽयमातिवाहिकदैवतः ।।
भूत्वा वसति तत्रैव कल्पान्तं तप आदधन् ।।४४।।
अथ सूर्यः स्वकं रूपं भास्करं समदर्शयत् ।।
तदा संज्ञापि विश्वस्ता पतिपादौ प्रपूज्य च ।।४५।।
क्षमाप्य स्वापराधं वै जगाम रविमण्डले ।
सर्वदा सा महादिव्या देवी सूर्यसरूपिणी ॥४६॥
समास्ते रमते सार्धं सूर्येण दिवि मोदते ।।
इत्येवं सूर्यबालानां नवानां दिव्यजन्मता ॥४७॥
श्राद्धदेवो यमो यमी सावर्णिश्च शनैश्चरः ।।
तपती चाश्विनीबालौ रेवतश्च नव स्मृताः ॥४८॥
तत्र यमाय सूर्येण ब्रह्मणा च समर्पितम् ।।
लोकपालत्वमेवैत्य दक्षिणां दिशमास्थितः ॥४९॥
यमपूरीति सा प्रोक्ता कृतानां तु विकर्मणाम् ।।
फलभोगाय दुःखात्मनिष्कृतिस्तत्र कार्यते ॥1.63.५०॥
प्रायश्चित्तेनाऽत्र लोके पांक्तो भवति मात्रतः ।
यमपूर्यां फलभोगाच्छुद्धो भवति चाऽऽत्मतः ॥५१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने संज्ञाया वडवारूपेण तपश्चर्या, सूर्योऽश्वो भूत्वा तया संश्लिष्टोऽश्विनीकुमारौ रेवतं चोत्पादयामास विश्वकर्मणा शाणोल्लीढसूर्यस्य खण्डैर्दिव्यचक्रशूलादिशस्त्रोत्पादनमित्यादिवर्णननामा त्रिषष्टितमोऽध्यायः ॥६३॥