लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६२
← अध्यायः ०६१ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ६२ [[लेखकः :|]] |
अध्यायः ०६३ → |
श्रीनारायण उवाच
शृणु लक्ष्मि ! ततः पश्चात् संज्ञाया या कथा ह्यभूत् ।
नित्यं सूर्यप्रसंगेऽस्या ज्वलनं दुःसहं ह्यभूत् ।। १ ।।
एवं संज्ञा रवेस्तेजोमहदुःखेन भामिनी ।।
असहन्तीव सा चित्ते चिन्तयामास वै सदा ॥ २ ॥
किं करोमि क्व गच्छामि क्व यामि सुखदं स्थलम् ।।
यदि यामि विना ह्याज्ञां सूर्यो मे कोपवान्भवेत् ।। ३ ।।
तस्मादाज्ञां गृहीत्वैव स्वपितुर्गृहमेम्यहम् ।।
इति सञ्चिन्त्य बहुधा सूर्यं प्राह मुहुस्तदा ।। ४ ।।
देव मे जायते नित्यं विचारस्तु पितुर्ग्रहम् ।।
गन्तुं मीलयितुं सर्वान् स्वसॄर्भातॄन्सखीजनान् ॥ ५ ॥
आज्ञापयतु मां नाथ यामि देवाय रोचते । ।
सूर्यः प्राह न वै देवि कालोऽयं गमनाय न ।। ६ ।।
पुत्रपालनकालोऽयं गृहसंभालनाय च ।
पत्युः सेवातिलाभाय समयोऽयं तव प्रिये ॥ ७ ॥
तत्र गत्वा नु ते लाभः को वा भावी मम प्रिये ।।
मां विहाय वियोगस्थं कथं स्थास्यसि तत्र वै ॥ ८ ॥
अनाहूता पितुर्गे हे पुत्री गच्छति वेगतः ।।
सती शंकरपत्नीव दुर्दशामाप्नुयाद्धि सा ॥ ९ ॥
तस्मान्मा गच्छ रम्भोरु गन्तव्यं त्वन्यदा पुनः ।।
कन्या विवाहपूर्वं वै शोभन्ते तु पितुर्गृहे ।।1.62.१०।।
कृतोद्वाहास्तु ताः पश्चाच्छोभन्ते स्वपतिगृहे ।
खानपानविलेपाऽभ्यंजनप्राभूषणादिभिः । ११।।
वस्त्रवाहनयानोद्यानोपवनविहारकैः।
विविधैः स्मरणोत्तेजिसाधनैस्तु नवैर्नवैः ॥१२॥
रमयन्ति पतिं प्रेम्णा तृप्यन्ति पतिसौख्यतः ।।
निर्धनो वा पिता यासां व्ययाऽशक्तश्च सर्वथा ॥१३॥
पुत्र्यस्तद्गृहमागत्य दुःखे तं योजयन्ति हि ।।
वस्त्रैर्धनैराभरणैश्चान्यैर्भोग्यैस्तु वस्तुभिः ॥१४॥
अशक्तो रंजने पुत्र्या मा दुःखे पातयन्तु तम् ।
दिने देह प्रयासेन श्रम्यं कार्यं विधाय च ॥१५॥
धनं स्वोदरपूर्त्यात्म नीत्वा सायं गृहं गतः ।।
एवं तु प्रतिदिवसं स्वोद्योगाऽर्ज्याऽल्पनाणकम् ॥१६॥
नीत्वा क्रीणात्यन्नवस्त्रं मा तं दुःखे निपातय ।।
इत्येवं बहु सन्दिष्टा ह्यनुनीता मुहुर्मुहुः ॥१७॥
संज्ञा तेजोऽसहं दुःखं भर्त्रे नैव वदत्यपि ।।
पश्चात्तु मोहमापन्ना विचार्य च मुहुः स्वयम् ॥१८॥
पतिर्यथा न ज्ञायेत द्वितीयं रूपमादधे ।
सेयं तनुद्वितीया सा छाया स्वस्यैव दैहिकी ॥१९॥
ह्यभूत्तत्र तु संकल्प्य चेतनं समनोदयत् ।।
तेजस्विनी वह्निसमा सूर्यतेजःसहा तथा ॥1.62.२०॥
पार्थिवांशसमक्रान्ता छायाऽभूत् स्त्रीस्वरूपिणी ।
तथा सा चेतनवती नारीरूपा तु सुन्दरी ॥२१॥
संज्ञासदृशरूपा च सर्वं संज्ञामयं ह्यभूत् ।।
पितुर्गृहं ततो गन्तुं कृतबुद्धिर्यशस्विनी ॥२२॥
छायामाहूय सत्कृत्य दत्वा गृहधनादिकम् ।।
तां प्रोवाच त्वया स्थेयमत्र भानोर्यथा मया ।।२३।।
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ ।
न दुष्टमपि वाच्यं ते यथा बहुमतं मम ॥२४
संज्ञाऽहमस्मि सैवेति वाच्यमेवं त्वयाऽनघे ।
यदि पृच्छेत्पतिः क्रोधात्प्रेमतो वान्यकारणात् ॥२५॥
त्वं तु सूर्यस्य तापं वै सहिष्यसे यथा तथा ।
शीतलं ते शरीरं वै भविष्यति तथा तथा ॥२६॥
तापसहनयोग्ये वै शान्तिदे ज्वरनाशके ।
सुखदे ते शरीरे वै तापः शमिष्यति द्रुतम् ॥२७॥
उष्णस्य लयकरणात् सूर्योऽपि शान्तिमेष्यति ।
तस्मात्त्वया सदा सेव्यः सूर्यो मयेव भावतः ॥२८॥
भर्त्सने ताडने वाथ गालीदाने सुमर्दने ।
त्वया नोदासितव्यं न प्रकाश्यं मम गोपनम् ॥२९॥
छाया प्रोवाच संज्ञां तु सहिष्ये सर्वमादरात् ।
आकेशग्रहणाच्चाहमाशापाच्च वचस्तथा ॥1.62.३०॥
करिष्ये पालयिष्यामि यावत्केशापकर्षणात् ।।
यदा वा मरणं यावद् दुःखं पश्यामि तावता ॥३१॥
न तथापि कथयिष्ये तव वा मम वर्तनम् ।
गच्छ देवि ! भगिनि ! त्वं पितुर्गृहं सुखा भव ।।३।।
कदाचिच्चित्तवैक्लव्ये स्मर्तव्याऽहं त्वया स्वसः ।
इत्येवं समयं कृत्वा संज्ञा ययौ पितुर्गृहम् ।।३३।।
ददर्श तत्र त्वष्टारं तपसैधितविग्रहम् ।
नमस्कृत्य च पितरौ निषसाद तदन्तिके ॥३४॥
बहुमानाच्च तेनाऽपि पूजिता विश्वकर्मणा ।
पितुर्गृहे सुखं तस्थै बहुकालमनिन्दिता ।।३५।।
पत्युर्गृहं प्रति गन्तुं यदा नेच्छति पुत्रिका ।
ततः प्राह स धर्मज्ञः पिता पुत्रीं चिरोषिताम् ।।३६।।
त्वां तु मे पश्यतो वत्से दिनानि सु बहून्यपि ।।
मुहूर्तेन समानि स्युर्बालं कस्य न रोचते ।।३७
पुत्रो वा यदि वा पुत्र्यः सगुणा निर्गुणाश्च वा ।
सुचित्ता वा विचित्ता वा यथा तथा च वा पुनः ॥३८॥
तथापि पित्रोः स्निग्धाः स्युराह्लादकारकाः सदा ।।
त्वं पुत्रि यौवनवती रविणा च विवाहिता ।।३९।।
चिरं त्वत्र निवासेन तव धर्मो विलुप्यति ।
बान्धवेषु चिरं वासो नारीणां न यशस्करः ।।1.62.४०।।
इच्छन्ति बान्धवा धर्मॆ पत्न्याः पतिगृहे स्थितिम् ।
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण संगता ॥४१॥
पितुर्गेहे चिरं कालं वस्तुं नार्हसि पुत्रिके ।
पत्युर्गृहे निवासं वै कर्तुमर्हसि पुत्रिके ।।४२॥
अतो भर्तृगृहं गच्छ दृष्टोऽहं पूजिता च मे ।
पुनरागमनं कार्यं दर्शनाय शुभे क्षणे ।।४३
यदि ते मनसि किञ्चिद् दुःखं जामातृतः कृतम् ।।
भवेज्ज्ञापयितव्यं मे सत्वरं पुत्रिकेऽत्र वै ।।४४।।
नो चेद् दुःखं सुखं गच्छ सेवयांऽशुकरं प्रभुम् ।।
तेन त्वमत्र चामुत्र धर्म्यां सिद्धिं गमिष्यसि ।।४५।।
इत्युक्तापि स्वकं दुःखं लज्जमाना सती तदा ।
नोवाच पितरं किंचिद् विचार्यापि मुहुर्मुहुः ॥४६॥
तथेत्युक्त्वा च नत्वा च पूजयित्वा गुरूँस्तथा ।।
भ्रातॄन्स्वसॄश्च संश्लिष्य सा जगामोत्तरान् कुरून् ॥४७॥
सूर्यतापकृतोद्वेगा तेजसस्तस्य बिभ्यती ।।
न गता सा सूर्यगृहं गतारण्यं तपःप्रिया ॥४८॥
तत्राऽन्येषामविदिता वडवारूपधारिणी ।
तपश्चचार परमं घासग्रासादिजीवना ।।४९।।
संज्ञामित्येव मन्वानो छायायां तु दिवाकरः ।
जनयामास तनयौ कन्यां चैकां मनोरमाम् ॥1.62.५०॥
नाम्ना तु सावर्णिमनुं तापीं शनैश्चरं तथा ।।
सावर्णिस्तु मनुर्भावी शनैश्चरो ग्रहो भवेत् ॥५१॥
तपती तु नदी तापी गौर्जरे भाविनी प्रिये ।।
संज्ञामित्येव निश्चित्य छायायां च दिवाकरः ॥५२॥
रत्या संयुज्यमानो वै रेमे सुबहुवत्सरान् ।
नाऽविदत्सेयमन्येति तदा दैववशात्तु सा ॥५३॥
छाया दिवानिशं सम्यक् स्वस्याऽपत्यस्य वै मुहुः ।।
चकाराऽभ्यधिकं स्नेहं भोजनाच्छादनादिषु ॥५४॥
संज्ञाया न तथा पुत्रीपुत्रयोश्चाऽप्यवर्तत ।
मनुस्तत्क्षान्तवानस्या यमस्तस्या न चाऽक्षमत् ॥५५॥
प्रागभूद्बहुमानः स सपत्न्या दुःखितोऽद्य च ।।
सपत्न्याश्चावमानाय क्रोधं स तु चकार वै ॥५६॥
ततो रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।।
ताडनाय तु तां छायां पादस्तेन समुद्यतः ।।५७।।
तस्याः पुनः क्षान्तमना न तु देहे न्यपातयत् ।।
ततः शशाप तं क्रोधात् सपत्नी जननी यमम् ॥५८॥
किञ्चित्प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा ।।
पत्न्यां पितुर्यदि मयि पादमुद्यच्छसे बलात् ॥५९।।
भुवि तस्मादयं पादस्तवाद्यैव पतत्विति ।।
इत्याकर्ण्य यमः शापं मातर्यतिविशंकितः ॥1.62.६०।।
अभ्येत्य पितरं प्राह प्रणिपातपुरःसरम् ।
तातैतन्महदाश्चर्यमदृष्टमिति च क्वचित् ॥६१॥
क्रोधं करोति नित्यं मे सुबहु भर्त्सयत्यपि ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ।।६२।।
निर्गुणेष्वपि पुत्रेषु न माता निर्दयी भवेत् ।।
यथा माता तु मां चख्यौ नेयं माता तथा मम ।।६३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग सन्ताने संज्ञायाः स्वच्छायारूपनारीं सूर्याय समर्प्य स्वपितृगृहगमनं छायाया यमं प्रति स्नेहशून्यवर्तनं चेतिवर्णननामा द्विषष्टितमोऽध्यायः ॥६२।।