लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५८
[[लेखकः :|]]
अध्यायः ०५९ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! ततस्तत्र किं किं जातं निबोध मे ।
श्वेतव्यासमुनिश्चाद्यः प्रोवाच हाटकांगदम् ।। १ ।।
राजंस्तवाश्रमस्तादृक् श्रेयोऽर्थः स्वल्प आप्यते ।
आत्मत्तत्त्वस्य लाभो न निद्राव्यवायकर्मभिः ॥ २ ॥
वयो व्यत्येति कामेन रात्र्यो निर्यान्ति निद्रया ।
दिनान्युदरपूर्त्यर्थं व्यवसायविडम्बनैः ॥ ३ ॥
द्रष्टा पश्यत्यविरतं लीयमानं क्षण जगत् ।
गृहाऽपत्यकलत्रादि मृतं पश्यन्न पश्यति ॥ ४ ॥
ह्यः समुपार्जितं चाऽऽद्य श्वो वा नाशं प्रयात्यपि ।
लोको नैव विजानाति स्वस्य नाशमुपस्थितम् ।।५।।
सर्पेणाऽर्धं मुखे ग्रस्तो मण्डुको निकटाऽऽगताम् ।
यतते मक्षिकामत्तुं जीविताशा दुरत्यया ।। ६ ।।
कश्चिदेव कृपालेशाद् विजानात्यात्ममोक्षणम् ।
कश्चिदेव कृपापात्रं यतते श्रेयसे पुनः ।। ७ ।।
कश्चित् तत्रापि सुकृती मोक्षार्थमेव तिष्ठति ।
राजन् सम्यग्व्यवसितं त्वया वै मोक्षकांक्षिणा ।। ८ ॥
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यः श्रीहरिः प्रभुः ।
योगसाधनसम्पत्तेः सांख्यविज्ञानसंधृते ॥ ९ ॥
शास्त्राणां च तथाऽभ्यस्तेर्लाभो मोक्षविनिश्चयः ।
लाभो मानवसंभूतेर्यदन्ते श्रीहरिस्मृतिः ॥1.58.१०॥
साधवः प्रायशो राजन् रमन्तेऽजगुणाऽर्णवे ।
निर्गुणा अपि कुर्वन्ति कथाकीर्त्यादिकं हरेः ॥११॥
कीर्तनं तु चरित्राणां मूर्तेश्च स्मरणं तथा ।
समागमस्तद्भक्तानां परं श्रेयो ददाति हि ॥१२॥
श्रवणं तत्कथानां तद्विभूतीनां च विज्ञता ।
उपासा हृत्स्थितेस्तस्य परं मोक्षं ददाति हि ॥१३॥
श्रीहरेस्तु कृपायोगाच्रीरंहरेः किरणोद्भवः ।
श्वेतव्यासमुनिश्चाद्यो निर्गुणोऽहं हरो हरिम् ॥१४॥
ध्यायामि च स्मरामि च कीर्तयामि कथा हरेः ।
कथास्तास्तु मया लक्ष्मीनारायणमुखाच्छ्रुताः ॥१५॥
ताभिश्चाऽहं स्थितिं प्राप्तो निर्गुणां मुक्तिरूपिणीम् ।
तथाप्येताः श्रावयामि जनान् परममुक्तये ।।१६।।
लक्ष्मीनारायणसंहितैषा तु ब्रह्मरूपिणी ।
महाभागवती वाणी ब्रह्मरूपान् करोति हि ॥१७॥
यत्र स्थले श्रवश्चास्या मासपारायणेन वै ।
सारस्यापि स्थलं तद्वै दिव्यं वैकुण्ठकं भवेत् ॥१८॥
येषां श्रवणगा ह्येषा संहिताऽऽत्मन्यधिष्ठिता ।
ते वै मुक्ताः सदा बोध्या देहधृगोऽपि मानवाः ॥१९॥
एषां तु संहितां राजन् षट्वांगदः पिता तव ।
श्रुतवान् कुंकुमवाप्यां गतवानभयं हरिम् ॥1.58.२०॥
ब्रह्मणा संश्रुतेयं तु संहिता ऋषिभिः समम् ।
त्रेतायां सत्यलोके च देवैश्च पितृभिः समम् ॥२१॥
वैकुण्ठे पाठमस्याश्च लक्ष्मीर्देवी करोति हि ।
एतत्पारायणं सर्ववेदेभ्योऽप्युत्तमं मतम् ॥२२॥
सर्वतः प्रागिदं शास्त्रं नारायणमुखोद्गमम् ।
परब्रह्माऽवतारास्तद्विभूतिकोटयस्तथा ॥२३॥
प्रवर्णिता यथार्था वै नारायणमुखाच्छ्रुताः ।
सर्वेषामादिमं शास्त्रं संहितेयं सुनिर्मिता ॥२४॥
आद्यव्यासेन वै श्वेतेनेयं संविशदीकृता ।
इमामाधारमादाय शास्त्रपुराणसंहिताः ।।२५।।
ग्रन्थिष्यन्त्यन्यव्यासाद्याः पुराणेतिकथानकान् ।
तदिदं परमं श्राव्यं नारायणपदार्जकम् ॥२६॥
एकाग्रेणैव मनसा चिन्त्यस्तस्यार्थ उत्तमः ।
येन मोक्षो भवेत्सद्यो ब्रह्मलोकगमात्मकः ।।२७।।
विषयेभ्य इन्द्रियाणां विगमं हि समाचरेत् ।
वृत्तीनां चान्तरे तत्त्वे लयमन्वहमाचरेत् ॥२८॥
आन्तराणां तु वृत्तीनां स्वस्मिन् स्थैर्यं समाचरेत् ।
स्वस्य योगं तु हरिणा समं सुदृढमभ्यसेत् ।।२९।।
इत्येवं ब्रह्मशीलस्य द्राग्विमुक्तिः करे स्थिता ।
स्वस्तिकासनमासीनः प्राणायामपरायणः ।।1.58.३०॥
इन्द्रियवृत्तीराहृत्य स्थूलं प्राग्वै प्रधारयेत् ।
मूर्तं वै श्रीहरेः रूपं लक्ष्मीनारायणात्मकम् ॥३१॥
इषद्धास्यामृतझरं प्रसन्नं प्रेमनिर्झरम् ।
रम्यमाकर्षकं सौम्यं सप्रभं धवलं मुखम् ॥३२॥
तयोः पृथक्पृथग्धार्यं भक्तेन तु मुमुक्षुणा ।
हरेर्नेत्रद्वयं चाब्जराजीवपत्रिकाऽऽयतम् ॥३३॥
प्रेमरसप्रवाहादाह्लयन्निव सुदर्शकम् ।
विशालं प्रान्त धवलं स्मरमूर्तिविडम्बनम् ॥३४॥
कमनीयं तयोर्ध्येयं पृथक्पृथङमुमुक्षुणा ।
भृकुटीयुगलं ध्येयं तिर्यकस्निग्धं क्रमात्कृशम् ॥३५।।
सूक्ष्मरोमावलीप्रान्तपिच्छमाकर्णमायतम् ।
मध्ये तु कामचन्द्राढ्यं सुमूर्तमिव सूज्ज्वलम् ।।३६।।
अथाऽलकाः कृशाः स्निग्धा वक्राश्चकचकायकाः ।
प्रोज्ज्वला मध्यसन्न्यस्तब्रह्ममार्गाऽवलम्बनाः ।।३७॥
तयोर्द्वयोः पृथग् ध्येयाः स्वर्णमुकुटमण्डिताः ।
गुम्फितं धम्मिलं यद्वा चूडामणिं शिखामणिम् ॥३८॥
तन्त्वीमुक्तादाममृष्टे कपोले धारयेद् द्वयोः ।
ऊर्ध्वं वा चन्द्रकं तत्र धारयेन्मन आत्मनः ॥३९॥
उद्गमाऽनुद्गमश्मश्रुपक्वबिम्बफलोष्ठकौ ।
आकिंचिन्मिलितौ भुग्नौ दर्शितचुम्बनक्षणौ ॥1.58.४०॥
हृद्यौ धनुष्कसद्रेखाव्यञ्जितावमृतंधरौ ।।
पृथक् तौ धारयेद्भक्त्या शनैस्तत्रैकतानयेत् ॥४१॥
चिबुकेऽञ्चितसद्रत्नस्वर्णबिन्दुचमत्कृते ।
तयोर्वै धारयेत्कर्णौ स्वर्णशष्कुलिकावृतौ ।।४२॥
कर्णपूराऽवतंसस्रक्सुबुट्टिमलसद्वरौ ।
एवं लक्ष्म्याननं काम्यं रम्यं नारायणाननम् ॥४३॥
प्रोल्लसन्मिष्टपाण्डुराऽमृततेजःसुवर्तुलम् ।
ध्याने चाऽऽकृष्याऽऽत्मवृत्तौ ध्येयं स्थाप्यं ततः पुनः ॥४४॥
तत्र चित्तस्यात्मनश्च लीनीभावः समाधिकृत् ।।
एवमात्मनि चात्मानं परब्रह्मणि योजयेत् ।।४५।।
कृतं तु योजनं येन तेन सर्वं कृतं निजम् ।।
इत्येव कण्ठहृदयभुजोदरकटींगनम् ।।४६।।
सक्थिजानुनलपिण्डीगुल्फप्रपदपार्ष्णिकान् ।
अवयवान्महालक्ष्म्या महानारायणस्य च ।।।
प्रत्येकं धारयेद् ध्यायेत्समादध्याच्च सर्वदा ॥४७॥
मोक्षस्तेन भवेत् सद्योऽपुनरावर्तनात्मकः ।
अथ बन्धकरं तत्राऽऽवरणं वस्तुमात्रकम् ॥४८॥
ब्रह्मांडस्थं विरोधि स्यात् तत्रापीक्षेत तं तदा ।।
पाताले तस्य चरणौ पार्ष्णिद्वयं रसातले ।।४९।।
महातले तु तद्गुल्फौ जंघे तस्य तलातले ।
सुतले जानुनी तस्योरुद्वयं वितले तथा ॥1.58.५०॥
अतले मेहनं तस्य सक्थिमूलं महीतले ।।
नभस्तले नाभिकूपं स्वर्गे तद्धृदयं तथा ॥५१॥
महरि तस्य कण्ठं वै जने तस्याऽऽस्यमीक्षयेत् ।।
ललाटं तस्य तपसि सत्ये शीर्षाणमीक्षयेत् ॥५२॥
इन्द्रादिषु च तद्बाहून् दिक्षु कर्णौ समीक्षयेत् ।
शब्दे तस्य श्रवणं चाऽऽश्विनेययोश्च नासिकाम् ॥५३॥
गन्धे तस्य प्राणमिद्धाऽनले तस्याऽऽननं तथा ।
दिवि तस्याऽक्षिणी पश्येत् सूर्ये तन्नेत्रमीक्षयेत् ॥५४॥
दिवारात्रौ पक्ष्मणी तद्भ्रुवं ब्रह्मासने तथा ।
अप्सु पश्येद्धरेस्तालूं रसे जिह्वां समीक्षयेत् ॥५५।।
छान्दस्सु तच्छिरो दंष्ट्रा यमे स्नेहे द्विजांस्तथा ।।
मायायां श्रीहरेर्हासं सर्गे कटाक्षमोक्षणम् ॥५६॥
तदुत्तरौष्ठं व्रीडायां लोभे चौष्ठमधःस्थितम् ।।
धर्मे स्तनमधर्मे तु पृष्ठं हरेः समीक्षयेत् ।।५७||
मेढ्रं वेधसि तस्यैव मित्रयोर्वृषणौ हरेः ।
समुद्रेषु हरेः कुक्षीन् गिरिष्वस्थिचयाँस्तथा ॥५८।।
नदीषु तस्य नाडींश्च वृक्षेषु तत्तनूद्भवान् ।
पवने श्वसनं तस्य वयसि श्रीहरेर्गतिम् ।।५९।।
क्रियां गुणप्रवाहे च केशान्मेघेषु तस्य वै ।
सन्ध्यासु तस्य वस्त्राणि प्रधाने तस्य सूक्ष्मताम् ॥1.58.६०॥
चन्द्रे हरेर्मनः पश्येद्विज्ञाने महनीयताम् ।
रुद्रे तदन्तःकरणम् अश्वादिषु नखानि वै ॥६१॥
कटिं पृष्ठं पशुष्वेव तच्चातुर्यं तु पक्षिषु !
स्वायंभुवे हरेर्बुद्धिं पर्णकुटिं नरेषु च ॥६२॥
गन्धर्वेषु स्मृतिं तस्याऽसुरसैन्येषु सद्बलम् ।
ब्राह्मणेषु मुखं तस्य क्षत्रियेषु भुजद्वयम् ।।६३।।
वैश्येषूरुद्वयं तद्वच्चरणे शूद्रमीक्षयेत् ।।
कामे तस्य तु संकल्पं स्त्रीषु दिव्यहरेस्तनुम् ॥६४।।
नरेषु दिव्यवीर्यं तस्याऽऽनन्दं ब्रह्मभावनम् ।
स्थूले सूक्ष्मं महत्यल्पं वैराजे कृष्णमीक्षयेत् ।।६५॥
एवं सर्वत्र च श्रीमन्नारायणमितीक्षयेत् ।।
श्रवणं मननं ध्यानं तेन तत्र समापयेत् ।।६६।।
तदानन्दं तस्य सौख्यं तस्य मिष्टरसं ध्रुवम् ।।
सर्वदैव भजतोऽन्यत् सर्वं तन्मयतां नयेत् ।।६७।।
इति मुक्तेः कृते राजन् विधेयं ते प्रदर्शितम् ।।
तेन मार्गेण साक्षाद्वै हरिः सन्निहितो भवेत् ॥६८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्वेतव्यासकृतोपदेश-संहितापारायणनिर्देशभगवन्मूर्तिधारणा विभूत्यादिहरितादात्म्यधारणादि
कथननामाऽष्टपंचाशत्तमोऽध्यायः ॥५८॥