लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५९
[[लेखकः :|]]
अध्यायः ०६० →

श्रीनारायण उवाच --
अथापि वासनालेशाद् बहुजन्मभ्रमेस्तथा ।
मनो यदि पुनश्चायात्स्थैर्यं नैव समाश्रयेत् ।। १ ।।
तदा तु मन एवेदं ब्रह्म इत्यपि धारयेत् ।
तस्मिन् यदुद्भवेच्छुक्लं मन्तव्यं कृष्णमेव वा ।। २ ।।
तदपि ब्रह्म एवेति नान्यो वै विषयो हि सः ।।
इत्येवं कल्पयेत् प्राज्ञो मुमुर्षुर्नाऽन्यमर्थयेत् ॥ ३ ॥
अथापि तत्र भासः स्याद्विविधानां तु देहिनाम् ।।
पशुकलत्रपुत्रादिद्रव्यभवनसम्पदाम् ।।४।।
सर्वं वै ब्रह्म इत्येवं कल्पयेन्नान्यमर्थयेत् ।
एवं तद्ब्रह्मभावेन ब्रह्मरूपाणि तानि वै ।।५।।
भवन्त्येव ततस्तानि नैव बन्धकराणि हि ।
अथापि तन्मनो ब्रह्मरूपं कृत्वा स्वयं जनः ।। ६ ।।
सर्वं ब्रह्ममयं पश्येन्नान्यत् किंचिद्विलोकयेत् ।
नेन्द्रियैर्नान्तरैर्नैव वासनाकिरणेन वा ।। ७ ।।
स्वात्मरिक्तं विपश्येद्धि किंचिदन्यदतन्मयम् ।।
तादृशं स्वं मनश्चैव मन्तव्यं ब्रह्मरूपकम् ।। ८ ।।
कृत्वा ततः परंब्रह्म ध्यायेच्छान्तरयेण वै ।।
तद् यथा स्वं ब्रह्म कृत्वा परं ब्रह्म सुमूर्तकम् ॥ ९ ॥
चिन्तयेत् सौम्यरूपं तं सूक्ष्मं प्रादेशमात्रकम् ।।
चतुर्भुजं शंखचक्रगदापद्मधरं प्रभुम् ।।1.59.१०।।
सुप्रसन्नमुखांभोजं पद्मपत्रायतेक्षणम् ।
केसरपिशंगधौत्रं रत्ननद्धसुभूषणम् ।।११।।
महारत्नाऽञ्चितप्रान्तकल्गिकिरीटकुण्डलम्
श्रीवत्सं वक्षसि दधद्वनमालासुकौस्तुभम् ।।१२।।
रशनाऽऽवृत्तकट्याढ्यं स्वर्णनूपुरपत्कजम् ।
कोमलस्वर्णपत्त्राणं वरप्रावारसंवृतम् ॥१३॥
सुवर्णशृंखलायुक्ताऽङ्गुलीयकंकणान्वितम् ।
स्निग्धाऽऽभुग्ननीलकेशं मन्दहासाऽमृताननम् ।।१४।।
प्रेमरसोद्गमन्नेत्रं भ्रूचांचल्यकृपापरम् ।।
इत्येवं दिव्यतेजस्कं सुरूपं चिन्तयेन्निजे ॥१५॥
तथा नखशिखापूर्णमेकैकमंगमीक्षयेत् ।
यावन्नस्थिरतां यायात् समभ्यस्येत्तु तावता ॥१६॥
सुखस्थिरासनसंस्थो जिहासुर्लोकमुल्बणम् ।
प्राणान्यच्छेन्मनो यच्छेद् बुद्धिं यच्छेन्निजात्मनि ।।१७।।
आत्मानं ब्रह्मणि यच्छेद् ब्रह्मात्मानं परात्मनि ।
एवं क्रमात्परं रुद्धः शान्तस्तद्रूपतां गतः ॥१८॥
विरमेत शनैः कृत्यान्न गुणा बन्धनप्रदाः ।
कुतोऽन्यत्कालमायादि यत्पदं वैष्णवं तु तत् ॥१९।।
नाभिं संकुच्य च गुदं क्रमाच्चक्राणि लंघयेत् ।
सुषुम्णया भ्रुवोर्मूले गुरुं ध्यात्वोर्ध्वमागतः ।।1.59.२०।।
मूर्ध्नश्छिद्रं ततो भित्त्वा मुक्तैः सह परिव्रजेत् ।
शुक्लं वैश्वानरं गत्वा सूर्यं चान्द्रं च तारकाः ।।२१।।
पैत्र्यं स्थानं समुल्लंघ्य ऋषीणां मण्डलानि च ।।
सत्यं लोकं समुलंघ्याऽष्टैश्वरावरणानि च ।।२२।।
समुल्लंघ्य ततो गच्छेद्विराट्नारायणं प्रभुम् ।।
हिरण्यगर्भमुल्लंघ्य महाविष्णुपदं ततः ।।२३।।
तच्चापि संपरित्यज्य प्राधाने प्राकृते पदे ।
समपोह्य ब्रह्मलोकं शाश्वतं धाम चाप्नुयात् ॥२४॥
न मृत्युर्न जरा तत्र न कालो न च शोचनम् ।
नार्तिर्नोद्वेग इत्येषः श्रीहरेर्लोक उच्यते ॥२५॥
तन्मूर्तेस्तु परानन्दमाप्नोत्यानन्दतन्मयः ।
एवं मुमुक्षुः क्रियया ध्यानेनोपासनेन वा ॥२६॥
उपासित्वा तथा ध्यात्वा परंब्रह्म समश्नुते ।
भगवता श्रीहरिणा लक्ष्म्यै सृती प्रदर्शिते ॥२७॥
क्रियायोगो भक्तियोगो येनात्मा मोक्षमाप्नुयात् ।।
हरिः सर्वत्र नियतः सर्वं चैव हरौ मतम् ॥२८॥
तेन सर्वात्मना ध्यायेद् द्रष्टारमन्तरात्मनि ।
अतः सर्वस्वभावेन सर्वत्र सर्वदा हरिम् ॥२९॥
शृणुयात्कीर्तयेद्ध्यायेद् येन तन्मयतां व्रजेत् ।
ये वै कथामृतं नित्यं पिबन्ति हरिमाश्रिताः ॥1.59.३०||
प्रज्वलन्त्याशयास्तेषां व्रजन्ति तत्पदाम्बुजम् ।।
एवं विज्ञानरसनामाश्रितो रसविज्जनः ॥३१॥
क्षितिं तु गेन्दुकं कृत्वोपबर्हणं भुजद्वयम् ।
अञ्जलिं भुजिसत्पात्रं दिशो वस्त्रं प्रकल्प्य च ॥३२॥
वृक्षाद्भिक्षां सरिद्य््श्च जलं गुहागृहं तथा ।
नारायणात्तु सन्तोषं प्राप्याऽऽत्मरमणो मुनिः ।।३३।।
किं कस्मात्तु समीहेत नारायणमृते पुनः ।
सकामो वाथ निष्कामो हरिं ध्यायेत्तदात्मना ॥३४॥
प्रतीकेष्वप्रतीके वा तत्तानस्तन्मयो भवेत् ।
तेनैवैकेन देवेन स्वस्मात् स्वस्य विभूतयः ॥३५।।
भिन्नोपासककामानां तृप्त्यर्थं प्रकटीकृताः ।
यतो नाऽयं जनः सर्वो मृतौ भवति निस्पृहः ।।३६||
सुबहून् मृतिकालेऽपि पदार्थानीहते पुनः ।
ततस्तेनापि तत्तस्मिन् ब्रह्मभावनया मुहुः ॥३७॥
सकामनया विचिन्त्यमिष्टदं ब्रह्मचैव तत् ।।
विप्रतेजस्विताकामो भजेत्पत्नीव्रतं हरिम् ॥३८॥
लक्ष्मीकामो भजेल्लक्ष्मीं त्वां सुवर्णप्रदां सदा ।
इन्द्रियसौष्ठवमिच्छन् भजेदिन्द्रं शचीपतिम् ॥३९॥
अपत्येच्छुर्भजेदत्र दक्षादिकप्रजापतीन् ।
अप्रधृष्यत्वकामोऽग्निं द्रव्यकामो वसून्भजेत् ।।1.59.४०।।
वीर्यकामो भजेद्रुद्रमन्नेच्छुरदितिं भजेत् ।
स्वर्गेच्छुस्तु भजेत् सूर्यं राज्येच्छुर्विश्वदेवताः ॥४१॥
प्रजावशित्वकामस्तु साध्यदेवान् यजेत वै ।।
चिरायुरिच्छुरश्विनौ पुष्टीच्छुः पृथिवीं यजेत् ॥४२॥
प्रतिष्ठेच्छुर्व्योमभूमी पत्नीच्छुरुर्वशीं यजेत् ।।
रूपकामस्तु गन्धर्वान् कीर्तिकामः क्रतुं यजेत् ।।४३।।
सर्वाधिपत्यकामस्तु यजेद् ब्रह्माणमेव च ।
धनसंग्रहकामस्तु वरुणं वै प्रपूजयेत् ।।४४।।
विद्याकामो यजेच्छंभुं धर्मेच्छुर्विष्णुमर्चयेत् ।।
दाम्पत्यप्रेमकामस्तु सतीमुमां सदा यजेत् ।।४५।।
सन्तानकुलवृद्ध्यर्थं यजेत् पितॄनतन्द्रितः ।।
सर्वथा दुःखनाशाय यज्ञान् कुर्यान्मुहुर्मुहुः ॥४६॥
बलेच्छुको मरुद्देवान् राज्येच्छुर्मनुदेवताः ।
भोगेच्छुः शशिनं शत्रुनाशेच्छू राक्षसान् यजेत् ॥४७॥
मुक्तिकामस्तु पुरुषं परमात्मानमीश्वरम् ।
भजेत सततं भक्तः कामाऽकाममयो धिया ॥४८॥
तमेव परमात्मानं सर्वस्वप्रदमर्थयेत् ।।
तत्तत्कामप्रसिद्धिः स्यात् सिद्धौ तृप्तिस्तृषाक्षयः ॥४९॥
ततोऽपि नित्यसच्चिदानन्दसन्दोहमर्थयेत् ।।
विहारे भोजने पाने श्रृंगारे मेहने रतौ ॥1.59.५०॥
परशूनामपि कालो वै पृथग्गच्छत्यतो नु किम् ।
तरवोऽपि हि जीवन्ति भस्त्राश्चापि श्वसन्ति वै ॥५१।।
कथा नैव श्रुता कर्णे तेऽपि तादृग्विधा जनाः ।
कथाश्रुतिं विना कर्णौ वाल्मीकौ तु बिलौ मतौ ॥५६।।
संकीर्तनमृते जिह्वा दार्दुरिक्येव भौतिकी ।।
मुकुटार्हं शिरो नतिमृते भारस्तु केवलः ॥५३॥
हरेः सेवामृते हस्तौ स्वर्णार्हावपि चेन्धनौ।
हर्यदर्शनकृन्नेत्रे मायूरबर्हचन्द्रके॥५४॥
हर्यमन्दिरगौ पादौ वृक्षस्तम्बौ हि केवलौ ।
हरेरंघ्रिरजो लाभं विना मर्त्यो जीवन्मृतः ॥५५॥
हरेर्वृन्दापुष्पगन्धं विना नासापि शाविकी ।
हरेर्भक्तौ द्रवाऽभावे हृदयं प्रस्तरोपमम् ॥५६॥
हरेः कथायां यन्नेत्रे जलं रोमेषु हर्षणम् ।
अंगेषु पुलको भावो द्रवो हृदि स सात्त्वतः ॥५७॥
सात्वतानां हृदि साक्षान्नारायणो वसाम्यहम् ।
नमस्तस्मै परेशाय तज्जलाय नमो नमः ।।५८॥
अनन्तशक्त्यधिष्ठानान्तरात्मँस्ते नमो नमः ।।
अदृश्यरूपिणेऽलक्ष्यवर्त्मने ब्रह्मणे नमः ।।५९॥
दुरीतनाशनेऽखिलप्राणिरूपाय ते नमः ।।
असन्निरसननाम्ने सात्त्वताम्पतये नमः ॥1.59.६०॥
दीनानां बन्धवे तुभ्यं स्वधाम्नि रंस्यते नमः ।
निरस्तातिशयसाम्यगुणैश्वर्यवते नमः ॥६१॥
अयोगिनां विदूराय स्वहृदिस्थाय ते नमः ।।
यत्कीर्तिश्रवदृश्यर्हास्मृतिस्तोत्राणि सर्वथा ॥६॥
कल्मषाणि विधुन्वन्ति तस्मै भद्रकृते नमः ।।
प्रपन्ना यत्पदोपास्त्या मात्रास्पृशिं विधूय च ॥६३॥
निराशया ब्रह्मगतिं यान्ति तस्मै च ते नमः ।।
शीलदानक्रियामन्त्रयज्ञत्यागतपोव्रताः।।६४।।
यदर्पणमृते क्षेमं विन्दन्ति नहि ते नमः।
श्वादमत्स्यादचर्मकृद्यवनाऽऽभीरसंकराः।।६५।।
कंकशबरझल्लादपारधिर्गणिकापिवाः।
किरातखसघाताश्च पापाश्चान्येऽपि जन्तवः ॥६६॥
यदाश्रिताश्रयाच्छीघ्रं शुद्ध्यन्ति ते नमो नमः ।
अवतारमयः सोऽयं साधुसाध्वीमयः प्रभुः ॥६७॥
ईशेशाऽजामयो देवो नारायणः प्रसीदताम् ।
ऋषिपितृदेवमयो मानवासुरनागधृक् ॥६८॥
पतिपत्नीमयो देवो नारायणः प्रसीदताम् ।
नरनारीस्वरूपोऽयं नृपराज्ञीमयः प्रभुः ॥६९॥
लोकधामधराधीह्रीश्रीपतिर्मे प्रसीदताम् ।
यत्पादध्यानधौतान्तर्हृदो विन्दन्ति यं प्रभुम् ।।1.59.७०।।
तदोतप्रोतसद्बुद्ध्या यादृग्रूपः स दृश्यते ।
तथा तं कवयो लोके वर्णयन्ति परात्परम् ।।७१॥
ब्रह्मवाण्यां ब्रह्मरूपो लोकवाण्यां रसात्मकः ।
उभवाण्यां मिष्टतिक्तो प्रसीदतां कथेष्टदः ।।७२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भगवद्धयान-ब्रह्मलोकगमन-तत्तद्विभूतिध्यानादिकथननामैकोनषष्टितमोऽध्यायः ॥५९॥