लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७
[[लेखकः :|]]
अध्यायः ०५८ →

श्रीनारायण उवाच
खट्वांगदस्य पुत्रो वै बर्हिषांगद ईरितः ।
मयूरास्तपतस्तस्य तिष्ठन्त्यागत्य मस्तके ।। १ ।।
बर्हाणि मोचयन्त्यत्र न चायं तत्तु पश्यति ।
तत्र मयूरपिच्छानां समूहे समुपस्थिते ।। २ ।।
पत्नीव्रतेन तेषां वै मार्जनी महती कृता ।
मन्दिरमार्जनकार्ये रक्षिता मूर्तिसन्निधौ ।। ३ ।।
खट्वांगदेन सा दृष्टा गृहीता करयोर्यदा ।
मार्जनाय प्रवृत्तः स तावद्वृष्टिरभूच्च खात् ।। ४ ।।
मार्जनीं तां गृहीत्वा स कुट्यां प्रविश्य तिष्ठति ।
दिवारात्रौ महावृष्टिः समभूद् बहुवर्षणा ॥५॥
मार्जनीपूलकं चोष्णं स्निग्धं संकोमलं तथा ।
चित्रं तथैव सुस्पर्शं शीतसंहारकं तथा ॥ ६ ॥
पार्श्वे निधाय शय्यायां नीद्राऽधीनोऽभवत्तदा ।
तत्रेच्छया हरेः रूपं चाप्सरसं व्यलोकयत् ।। ७ ।।
स्वाप्नः स्रावोऽभवत्तस्य धातोर्बर्हिषु तेषु च ।
तस्य द्रागेव पुत्रोऽभूत् प्रातर्यावद्विपश्यति ॥ ८ ॥
तं तु पुत्रं महासिद्धं जातमात्रस्य यौवनम् ।
वीक्ष्य तदाऽभिधां चक्रे बहिषांगद इत्ययम् ।। ९ ॥
तद्राज्ये त्वभिषिक्तश्च मानी शूरो धनुर्धरः ।
खट्वांगदपुरे रम्ये राजधान्यां तु पूजितः ।।1.57.१०।।
भक्तः स एकदाऽरण्ये परिमेयाऽनुगः शुचिः ।
विचरन् स्वपितुर्दिव्ये व्याघ्रारण्ये परिभ्रमन् ॥११॥
कुंकुमवापीसत्तीर्थे पत्नीव्रतद्विजाश्रमे ।
समागच्छत्तदा तत्र दर्शनार्थं द्विजन्मनाम् ॥१२॥
गुरूणां च पितुर्लक्ष्मीनारायणस्वरूपयोः ।
देवयोर्दर्शनं कृत्वा यावदायाति सद्गुरोः ॥१३॥
समीपे तत्र समये समाधौ संस्थितो गुरुः ।
नाऽऽवैत् राज्ञ अकस्माच्चाऽऽगमनं चान्तरस्थितेः ।।१४।।
स्वागतं चापि सन्मानं चासनं चादरं तथा ।
नैव लेभे स राजर्षिराश्रमे जनवर्जिते ।।१५।।
राजा क्षणं च सन्मानं नाऽध्यगच्छद् यदा तदा ।
मानाधीनो नष्टबुद्धिः क्षुद्रं स्वार्थमकल्पयत् ।।१६॥
अहो ह्यस्मद्धान्यभोक्ता भिक्षुको नोऽवमन्यते ।
वाण्याऽपि नैव सत्कारं करोति ब्रह्ममान्ययम् ॥१७॥
नेत्रे निमील्य कपटात् कीदृशं ध्यानमास्थितः ।
यदि जागर्मि नृपतेः सम्मानं कर्तुमापतेत् ।।१८॥
तस्मात्समाधिमास्थाय स्थातव्यमिति वञ्चनाम् ।
पुरस्कृत्य द्विजोऽयं मेऽवमानं तु करोति वै ॥१९॥
तस्मान्नैवेदृशो विप्रो ह्युपेक्षितव्य इत्ययम् ।
बहिषांगदनृपतिर्महासर्पं मृतं गले ॥1.57.२०॥
पत्नीव्रतस्य निक्षिप्य गतवान् स्वपुरं प्रति ।
तावत्तस्य ऋषेः ब्रह्मव्रतः समागतः ॥२१॥
ऋषेः शिष्यैः स्वयंप्रकाशादिभिः सहितः स्थितः ।
ऋषेर्गले मृतं सर्पं दृष्ट्वा ज्ञात्वा समाधिना ॥२२॥
राज्ञा सर्पो मृतः क्षिप्तस्तं शापं प्रैरयत्खलम् ।
अहो श्वा वै गृहपतिं भषन् पदभ्यां विमानयन् ॥२३॥
धुलीं प्रक्षिपतीत्येतद् वैचित्र्यं विषमं महत् ।
ब्राह्मणैरभिषिक्तो वै मलकीटो भुजंगताम् ॥२४॥
नीतस्तानेव दशति कीदृशीयं कुपात्रता ।
मूषको भयमापन्नो सिंहत्वे येन योजितः ॥२५॥
समीहते तमोवाऽत्तुं का नाम क्षुद्रताऽपरा ।
श्वेव बलिभुक् पापात्मा पत्नीव्रतं निरागसम् ॥२६॥
अविगणय्य पितरं पूजनीयं सुदैवतम् ।
गलेऽक्षिपत् शवं सार्पमवश्यं दण्डमर्हति ॥२७॥
पुनरेवं कुकुरास्ते कुर्युर्नैव विमाननम् ।
इत्यामत्य जलं धृत्वा करे दक्षेऽवदत्सुतः ॥२८॥
येन सर्पो गले क्षिप्तः कुहकान्मृत्युमेतु सः ।
मासाभ्यन्तर एवेति सलिलं व्यसृजद्भुवि ॥२९॥
दत्वा ब्रह्मव्रतः शापं सतीर्थ्यैः परिवेष्टितः ।
यावद् रोदिति गुर्वग्रे समाधेरुत्थितो गुरुः ॥1.57.३०॥
पश्यति स्म गले स्वस्य मृतसर्पशवं यदा ।
रुदन्तं चाऽशृणोत्स्वीयं सुतशिष्यसुमण्डलम् ॥३१॥
सान्त्वयामास तान् सर्वान् पत्नीव्रतो गुरुस्तदा ।
यूयं सर्वे किमर्थं वै रुदथाऽत्र निबोधत ॥३२॥
शवे मानुषदेहे वै शवः सर्पो धृतो यतः ।
हारः स वै तु मन्तव्यः शवस्य शवपूजने ॥३३।।
नाऽत्र हानिर्न वा दोषो ह्येषः स्नानं करोम्यहम् ।
शुद्धिर्वै स्नानमात्रेण किमर्थं रुदथ भृशम् ॥३४॥
शान्तिस्तु सर्वदा रक्ष्या क्षमा रक्ष्या च सर्वथा ।
शान्त्या च क्षमया सर्वे ऋषयः पूज्यतां गताः ॥३५॥
सत्यं शीलं तपो ध्यानं स्वाध्यायः शं तितिक्षणम् ।
क्षमा चेति धनं दिव्यं मौर्धन्यं नो मतं सदा ॥३६॥
तन्न त्याज्यं कदाचिद्वै तदस्माकं तु दैवतम् ।
क्षमा तु परमं शस्त्रं क्रोधशस्त्रनिबर्हणम् ॥३७॥
क्षमया वाडवाः सर्वे देवैः पूजामवाप्नुयुः ।
पुत्राः ! पृच्छामि युष्माभिस्तस्याऽनिष्टं नु चिन्तितम् ॥३८॥
इति , प्रष्टास्तदा पुत्राः ऋषिं तत्र न्यवेदयन् ।
राजानं भिन्नमर्यादं मासान्तरे तु सर्पराट् ॥३९॥
कुहकोऽस्मन्नोदितो वै दंक्ष्यतीत्येव नोदितम् ।
ऋषिर्वज्रमयं श्रुत्वा राजनाशनमुल्बणम् ।।1.57.४०।।
तेपेऽतीव स्वहृदये क्षणं तु मौनमास्थितः ।
आह स्वयंप्रकाशं वै त्वनाहार्यं त्वया हृतम् ॥४१॥
स्वल्पे द्रोहे महान् दण्डो न वै न्याय्यं कृतं त्वया ।
राज्ञि शास्तरि चौराद्या न प्रजाः पीडयन्त्यपि ।।४।।
राजशून्ये प्रजाः स्वं स्वं घ्नन्ति लुण्टन्ति दस्यवः ।
अपक्वबुद्धिना तात ! त्वया शप्तं तु दारुणम् ॥४३॥
अज्ञातेन कृतं दोषं भगवान् क्षन्तुमर्हति ।
अपराधिसहस्रेषु सत्स्वपि नैव शोचति ।।४४।।
क्लिष्यति नो प्रतिकारं करोति भक्तिमान् जनः ।
तिरस्कृतास्ताडिताश्चाऽऽक्रुष्टाश्च कुत्सितीकृताः ॥४५॥
गालीदत्ताः प्रशप्ताश्च विप्रकृताश्च पातिताः ।
आपत्स्वपि न दुष्टानां प्रतिकुर्वन्ति साधवः ॥४६॥
तस्मात् स्वयंप्रकाश ! त्वं याहि शीघ्रं निवेदय ।
मासाऽऽभ्यन्तर एव त्वां कुहको दंक्ष्यतीति वै ॥४७॥
इति तु प्रेरितः शिष्यो जगाम बर्हिषांगदम् ।
राजर्षिः खेदमापन्नो दुष्टतां स्वां व्यचिन्तयत् ॥४८॥
अहोऽनार्योऽपि नो कुर्यात् कृतं तादृङ्मया ह्यघम् ।
ब्राह्मणे पूजनीये मे महत्पापं समर्जितम् ।।४९॥
सम्पत्तिर्यौवनं गर्वो सत्ता चैवाऽविवेकिता।। ।
विपत्तेः कारणान्याहुर्मय्येवाऽन्वर्थतामगुः ॥1.57.५०॥
अहो मे को भवेल्लोको ब्रह्मद्वेष्टुर्विजृम्भृतः ।।
अस्य पापस्य प्रत्यर्थोवश्यं मे भवतु क्षयः ॥५१॥
पुनरेवं न वै कुर्यां तथा शास्तु धरामरः ।
अथवा क्षेमकुशले राज्ञां विप्राभिसत्कृते ।।५२॥
तथापि मे महान् दण्डो भगवान् दातुमर्हति ।
एवं चिन्तयतस्तस्य ब्रह्मदण्डार्थसंभृता ।।५३।।
शिष्यवाणी कुहकाद्वै मृत्युशंसिन्युपस्थिता ।
श्रुत्वा विनयसम्पन्नोऽनशनव्रतमास्थितः ॥५४॥
ब्राह्मणं तु नमस्कृत्य स्वात्मानं ब्रह्मणि न्यधात् ।
खट्वांगदपुरात्प्राच्यां रैवताधित्यकाभुवि ॥५५॥
भवेशसरसो मध्ये द्वीपे जलमये तदा ।
व्रतं चानशनं कृत्वा निषसाद उदङ्मुखः ॥५६॥
ज्ञात्वा समाधियोगेन ऋषयो मनवस्तथा ।
पितरो देवगन्धर्वाः सुरा यक्षाश्च मानवाः ॥५७
ब्राह्मणाः साधवः साध्व्यो तीर्थानि पर्वतास्तथा।
ग्रहर्क्षतारका दिव्या औषध्यः कल्पपादपाः ।।५८।।
कामदुघाः सुरभ्यश्च मातरो लोकपालकाः ।
आययुस्तान्समभ्यर्च्य ववन्दे दण्डवन्मुहुः ।।५९॥
तेषु सुखोपविष्टेषु राजा मानसमर्थितम् ।
अन्ते कर्तव्यमालक्ष्य न्यवेदयच्चिकीर्षितम् ॥1.57.६०।।
अहो दयाभृतां मुक्तिदातॄणां पुण्यशालिनाम् ।
दर्शनं त्वघनाशाय परलोकप्रसत्तये ।।६१।।
द्विजशापोऽनुग्रहो मे यन्मिषं भवदागमः ।
निर्वेदमूलं संजातो मुक्तये प्रेरकोऽपि च ।।६२॥
मिष्टं वा कटु विप्रोक्तं सर्वथा श्रेयसे भवेत् ।
तद् यूयं मे दृष्टिपथं याताः सन्तो मृतिक्षणे ॥६३॥
स्थेयं कृपालुभिस्तावद् गेयं हरेर्दशस्तथा ।
कुहको दशतु स्वेष्टं न मे चिन्ताऽद्य वर्तते ।।६४॥
सतां मण्डलमध्ये मे प्राणो यातु सुखंजुषः ।
यत्र यामि तत्र ब्रह्मजुषां सेवां लसाम्यहम् ॥६५॥
इति कृत्वा च नत्वा च भवेश्वरसरोवरे ।
मध्यद्वीपे निराहारो निषसाद महीपतिः ॥६६॥
तदा देवैश्च मुनिभिरप्सरोभिर्मुहुर्मुहुः ।।
प्रशस्य वृष्टिः पुष्पाणां कृता जयध्वनिश्रिता ॥६७।।
तावत्तत्राऽऽगतो व्यासः श्वेतव्यासमुनिः स्वयम् ।
श्वेतरूपधरः कल्पे प्रथमे यो ह्यजायत ।।६८।।
तेजसा सूर्यसंकाशो विद्यया ज्ञानभासुरः ।
योगेन ब्रह्मसदृश ऐश्वर्येण हरिः स्वयम् ॥६९।।
आगताय नमश्चक्रुरुत्थाय तत्र येऽभवन् ।
तं चोपवेशयामासुः समर्हे तु महासने ॥1.57.७०।।
आसीनं तं स नृपतिः प्रणनाम कृतांजलिः ।
परिपप्रच्छ विनयात् श्रेयस्करमदः शुभम् ।।७१।।
वयं वै क्षत्रदायादाः कर्मणा ह्यधमाः पुनः ।
भवादृशैः समागत्य लोकानामुपरिकृताः ।।७२।।
तिर्थीभवन्ति सौधानि यस्याऽभिधानकीर्तनात् ।
दर्शनस्पृशिसान्निध्यसेवामर्दनप्रह्वणैः।।७३।।
सेविताः साधवः सम्यक् सेवकान्प्रपुनन्ति हि ।
येषां पादरजःप्राप्त्या शुद्ध्यन्ति गृहमेधिनः ॥७४।।
गृहाण्यपि विशुद्धयन्ति किं पुनस्तत्समागमात् ।
भवतो दर्शनं मह्यं दयामृते कथं भवेत् ।।७५॥
तस्मान्मोक्षो मम ध्रुवं भविता शाश्वतीसमाः ।
अथ मे किं विधेयं वै म्रियमाणस्य सर्वथा ।।७६।।
पृच्छामि श्रवणं जापो भजनं वा यथोचितम् ।
अन्यद्वा दोनहोमादि श्रेयस्करं प्रदर्श्यताम् ।।७७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बर्हिषांगदोत्पत्ति-पत्नीव्रताश्रमगमन-सन्मानाऽलाभप्रयोज्यमहर्षिगलमृतसर्पनिक्षेप-तदृषिपुत्रकृतमासाभ्यन्तरकुहकसर्पदंशजमृत्युशाप-तज्ज्ञानोत्तरप्रायोपवेशनव्रतर्षिसमागमश्वेतव्यासागमनस्वश्रेयस्करजिज्ञासादिप्रश्ननिरूपणनामा सप्तपंचाशत्तमोऽध्यायः ॥५७॥