लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६
[[लेखकः :|]]
अध्यायः ०५७ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! ततो राजा वैराग्यावेगजृंभितः ।
रैवताचलतः पूर्वं योजनत्रयतः परम् ।। १ ।।
अश्वपट्टं सरोरम्यं व्याघ्रारण्ये महत्तरम् ।
अखण्डसलिलं मूलफलवृक्षादिपार्श्वकम् ।। २ ।।
निर्जनं चापि निरुपद्रवं ज्ञात्वा स भूपतिः ।
जगामाऽश्वपट्टतीरे नाऽतिदूरेऽथ निर्जने ॥ ३ ।।
शीतछायामयं देशं दृष्ट्वा खट्वांगदो नृपः।
बद्रीदाडिमजम्बूद्रुचिंचागुंद्रादिसुद्रुमैः ॥ ४ ॥
व्याप्ते देशे च पातालजलवापीसमन्विते ।
वाप्या जलं तु सततं निर्झरणस्वरूपतः ।। ५ ।।
स्रवद्ध्युपरितो याति ह्यश्वपट्टसरोवरम् ।
तत्र वाप्युपकण्ठस्थबद्रीमूले भुवस्तले ।। ६ ।।
शालग्रामं पुरस्कृत्य तपः खट्वांगदोऽतपत् ।
वर्षाणां तु सहस्रं सोऽकरोज्जाम्बूप्रभक्षणम् ।। ७ ।।
द्वितीयं तु सहस्रं सोऽकरोद् गुंद्रप्रभक्षणम् ।
तृतीयं तु सहस्रं सोऽकरोद् दाडिम भक्षणम् ॥ ८ ॥
चतुर्थं तु सहस्रं सोऽकरोद् बदरभक्षणम् ।
पंचमं तु सहस्रं सोऽकरोत् चिंचाम्ब्लभक्षणम् ।। ९ ।।
षष्ठं चाऽथ सहस्रं सोऽकरोत् कन्दप्रभक्षणम् ।
सप्तमं तु सहस्रं सोऽकरोत् पत्रप्रभक्षणम् ।।1.56.१०।।
अष्टमं तु सहस्रं सोऽकरोत् सलिलभक्षणम् ।
नवमं तु सहस्रं सोऽकरोद् वायुप्रभक्षणम् ।।११।।
दशमं तु सहस्रं सोऽनाहारोऽङ्गुष्ठसंस्थितः ।
तिष्ठन्ध्यायन् शालग्रामे कृष्णनारायणं गुरुम् ।।१२।।
चिन्तयन् सततं देवं विष्णुं श्रीमन्तमेव च ।
जपन् लक्ष्मीपते श्रीमन्नारायणाय ते नमः ।।१३।।
तावत्तदस्य मूर्ध्नो वै प्रादुर्भूतोऽनलो महान् ।
धूमस्तस्य महाज्वालः संव्याप्नोद् भुवनत्रये ।।१४।।
देवान्दैत्यान् मानवादीन् प्राज्वालयन्नभःस्थितान् ।
चकम्पे पृथिवी देवी चुक्षुभुः सागरास्तथा ॥१५॥
दावानलो महाँस्तत्र तपोऽग्निप्रसमुद्गतः ।
तत्र दावानले व्याप्ते लक्ष्मीनारायणः प्रभुः ॥१६॥
दयालुस्तपतो देहभानहीनस्य तस्य वै ।
रक्षणायाऽगमत्तत्र मूर्ध्न्यसिञ्चत्तदमृतम् ॥१७॥
तेन शान्तस्तु मूर्ध्नोऽग्निर्दावाग्निश्च न्यवर्तत ।
प्राह नारायणस्तस्मै भक्त ! भक्त्या वशीकृत ॥१८॥
खट्वांगद महाभक्त भक्ति कुर्वन्प्रशोभसे ।
तपो भक्तिमयंकुर्वन्प्रजाश्रेयो विधास्यसि ॥१९॥
विरमेदृशतपसो दर्शनं कुरु मेऽनघ ! ।
निःस्पृहस्य तु भक्तस्य किञ्चिन्नाऽदेयमस्ति मे ॥1.56.२०॥
किं तेऽपेक्ष्यं वृणु राजन् ददामि यदभीप्सितम् ।
इत्यादिश्य हरिः श्रीमान् मौनमास्ते तदा तु सः ॥२१॥
नेत्रे उद्धाट्य चष्टे तं नारायणमुपस्थितम् ।
अहो भाग्यमहोभाग्यमिति स्नेहप्रपूरितः ॥२२॥
नर्तनं दर्शनाच्चक्रे पद्रजो शिरसा वहन् ।
विलुण्ठितो मुहुर्लक्ष्मीनारायणपदेषु सः ॥२३॥
पादसेवां सदा वव्रे दासो भूत्वा स चक्रराट् ।
यत्र तपः कृतं तत्र स्वस्य मूर्तेश्च सन्निधौ ॥२४॥
लक्ष्मीं नारायणं वव्रे सदा दर्शनकांक्षया ।
नारायणाऽऽज्ञया तत्र तदा लक्ष्म्या तथास्त्विति ॥२५॥
उक्त्वा कुंकुमार्द्रचन्द्रस्तस्य भाले कृतः शुभः ।
लक्याः् करगतार्द्रस्य कुंकुमस्य च बिन्दवः ॥२६॥
बहवः पतिता वाप्यां तथा प्रक्षालितौ करौ ।
पीत्वा जलं तथा स्नात्वा पाययित्वा नृपं तथा ॥२७॥
शालग्रामे शाश्वतं स्वं निवासमकरोत्प्रभुः ।
श्रीसार्थश्च सदा नारायणश्चास्ते महाप्रभुः ॥२८॥
तत आरभ्य सा वापी कुंकुमवापिकाऽभिधा ।
तत्र तेन नृपतिना श्रीनारायणमन्दिरम् ॥२९॥
साप्तभौमं कारितं च सेवां तस्याऽकरोत् स्वयम् ।
सा च लक्ष्मीः सुखं कं वै बिभ्रतीति तु कम्भरा ॥1.56.३०॥
गोः पृथिव्याः पालकं तु नृपं खट्वांगदं सदा ।
शरणे लाति गृह्णाति गोपालः श्रीहरिर्हि सः ॥३१॥
उच्येते कम्भरागोपालाख्यौ लक्ष्मीनरायणौ ।
तयोः पत्नीव्रतः पुत्रः स्वयं नारायणांशजः ॥३२॥
तत्रैव तप आतिष्ठन्नास्ते कल्पे प्रकल्पके ।।
ध्यायन् स्वपितरौ देवौ सुतस्तु कृष्णवल्लभः ॥३३॥
तीर्थे कुंकुमवाप्याख्ये श्रितमोक्षप्रदे शुभे ।
आस्ते दिव्यशरीरेण सर्वत्र व्यापकोऽपि सन् ॥३४॥
एतदश्वसरो दिव्यं व्याघ्रारण्यं च विस्तृतम् ।
दिव्या कुंकुमवापी कम्भरागोपालमन्दिरम् ॥३५॥
पत्नीव्रतद्विजतीर्थं खट्वांगदकृतं पुरम् ।
रम्यं कुंकुमवाप्याख्यं ह्यासन् देशे सुराष्ट्रके ॥३६॥
सर्ववैकुण्ठसामग्री दासदासीगणं तथा ।
ऋद्धिमैश्वर्यमादाय कृष्णस्तत्र विराजते ॥३७॥
तस्य यावद्रजःकणाः पवित्रा मोक्षदायकाः ।
दिव्या भूमिर्दिव्यजला दिव्य वैकुण्ठसन्निभा ॥३८॥
यागश्राद्धव्रतदानपुण्यस्थलीप्रमुक्तिदा ।
तत्र नारी नरो वापि यां कांचिद्योनिमास्थितः ॥३९॥
त्यजन्देहं परां याति मुक्तिं ब्रह्माऽक्षराऽभिधाम् ।
तत्र भूमौ नरा ये वै ते सर्वे हरिपार्षदाः ॥1.56.४०॥
नार्यश्चापि वसन्ति यास्ताः सर्वाः कृष्णचारिकाः ।
पशुपक्ष्यादयः सर्वे वृक्षवल्ल्यादयस्तथा ॥४१॥
मुक्ता वैकुण्ठधामस्था नान्ये बोध्या नृचक्षुषा ।
दिव्यदृष्ट्या भालनीया न तु वै चार्मचक्षुषा ।।४२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अश्वपट्टसरोवरे खट्वांगदतपश्चरणेन लक्ष्मीनारायणप्रत्यक्षदर्शनं कुंकुमचन्द्रककरणे बिन्दुक्षरणात् कुंकुमवापीतितीर्थपुरं कंभरागोपालरूपेण लक्ष्मीनारायणनिवासश्चेतिनिरूपणनामा षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥