लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५५

विकिस्रोतः तः
← अध्यायः ०५४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५
[[लेखकः :|]]
अध्यायः ०५६ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! रैवताख्यो मनुर्वैकुण्ठमाप्तवान् ।
तुष्टाव च महाप्रेम्णा दयालुं मां त्वयाऽन्वितम् ॥ १ ॥
नमः। सच्चित्स्वरूपायाऽऽनन्दसन्दोहवार्धये ।
नमस्त्वेकस्वरूपायोभयरूपाय ते नमः ॥ २ ॥
नमो हिरण्यकेशाय श्मश्र्वश्मश्रुमते नमः ।
नमः स्तन्याऽस्तन्यवते बीजाऽबीजधृते नमः ।। ३ ।।
नमो बहिः प्रचिह्नायांऽबहिश्चिह्नाय ते नमः ।
नमो विश्वक्प्रवालाय क्वचिद्वालाय ते नमः ॥ ४ ॥
नमो दक्षिणसत्त्वाय . वामसत्त्वाय ते नमः ।
नम ऊर्ध्वस्वरूपायाऽनूर्ध्वरूपाय ते नमः ॥ ५ ॥
नम आधेयरूपायाऽऽधाररूपाय ते नमः ।
नमो द्विदलरूपायाऽङ्कुरप्रसूतये नमः ॥ ६ ॥
नमो वैकुण्ठवासाय कुण्ठवासाय ते नमः ।
नमो मानसरूपाय भक्तरूपाय ते नमः ॥ ७ ॥
नमस्ते करुणासिन्धो नमः सौराष्ट्रवर्धिने ।
नमो रैवतवासाय दामोदराय ते नमः ॥ ८ ॥
नमः पत्नीव्रताख्याय नमः कृष्णाय विष्णवे ।
नमोऽनन्तस्वरूपाय ममाऽन्तर्यामिणे नमः ॥ ९ ॥
स्वतन्त्रस्त्वं महाविष्णो न जाने त्वं किमिच्छसि ।
भक्तो यदर्थमाहूतस्तद्वै विधातुमर्हसि ॥1.55.१०॥
दासोऽयं कृपया विष्णो नेयः पारं भवाध्वनः ।
यत्र ते चरणौ स्तस्तद्देशो मे ह्यरणं भवेत् ॥११॥
न वै त्याज्यः कृपानाथ दासोऽयं शरणागतः ।
करुणया गृहीतोऽयं न वै तं त्यक्तुमर्हसि ॥१२॥
यदिष्टं क्षेमकृल्लोके तदिष्टं संविधीयताम् ।
इति स्तुत्वा विरराम रैवतो भक्तसत्तमः ॥१३॥
प्राह तं भगवान् श्रीमान् वैकुण्ठाधिपतिः प्रभुः ।
गृहाणेमां चाणुरूपां मम वैकुण्ठभूमिकाम् ॥१४॥
स्वयंभ्वाख्यचतुर्वक्त्रब्रह्मणो गोलके तव ।
प्रियव्रतस्य भूराज्ये पश्चिमं विवरं महत् ॥१५॥
सुरत्रासपथं छिद्रं शतगव्यूतिरायतम् ।
पूरणीयं भूमिकया विकसन्त्या त्वयैव तत् ॥१६॥
सुरत्राणं भवेत्तेन सौराष्ट्रसंज्ञतां व्रजेत् ।
तत्राऽहं श्रीसमायुक्तो निवत्स्ये तव कारणात् ॥१७॥
अन्यद् यन्नारदेनोक्तं विधास्ये तत्र चोषितः ।
इत्यभिधाय देवेन वैकुण्ठाऽणुः समर्पितः ॥१८॥
तमादायाऽऽज्ञया विष्णोः रैवतः पुनरागतः।
यथोक्तं तमणुं यावद्विवरे न्यस्तुमिच्छति ॥१९॥
तावद्विपुलतां यातं शतगव्यूतिरायतम् ।
जाड्ये भूस्तरतुल्यं तद् दिव्यं पंचगुणात्मकम् ॥1.55.२०॥
यथापेक्षं यथास्थानं स्थितं छिद्रं प्रपूरितम् ।
अदिव्ये दिव्यसंमिश्रात् सन्धिः श्वेतरणात्मकः ।।२१।।
श्वेताऽखातश्च भूः श्वेता व्यावर्तयति मण्डलम् ।
शतगव्यूतिमात्रं तन्मण्डलं श्यामपाण्डुरम् ॥२२॥
दिव्यत्यखण्डभूमध्यं सुराष्ट्रं रैवताऽर्जितम् ।
रैवतस्तन्मध्यभागे विष्णुं ध्येयं विधाय च ॥२३॥
सर्वदाऽऽराधनपरो ह्यास्ते विसृज्य मायिकम् ।
नारायणः स्वयं तस्मै दत्ते सकरुणेक्षणम् ॥२४॥
ददौ चास्मै मणेः स्वस्य सहस्रांशं तदा हरिः ।
स वै स्थौल्यं समापन्नः शैलरूपं परं दधौ ॥२५॥
सोऽयं संस्थापितो मध्ये सुराष्ट्रस्याऽथ नामतः ।
नेतुर्नाम्ना ह्यभूत् ख्यातो रैवताचल इत्ययम् ॥२६॥
रैवतेन पुरं तत्र निर्मितं रैवताह्वयम् ।
रैवतः सर्वदा विष्णोः स्मरणे कीर्तने श्रवे ॥२७॥
सेवने ह्यर्चने स्तोत्रे दास्ये सर्वनिवेदने ।
ह्यवर्तत महाभक्तो जाग्रत्स्वप्नसुषुप्तिषु ॥२८॥
राज्यभारे व्यवहारे भोजने शयने तथा।
सर्वथा देवदेवेश नारायणं समाभजत् ॥२९॥
तत्रैकदा महामंचे शयानो योगनिद्रया।
आत्मनि श्रीहरिं ध्यायन् समाधिं त्वगमद्धि सः ॥1.55.३०॥
नारायणेच्छया तस्य दक्षिणस्य भुजस्य च ।
स्वर्णांगदो द्रवो भूत्वा पतितो मंचकेऽभवत् ॥३१॥
स्वर्णवर्णः किशोरोऽभूत् श्वेतकान्तिः शशीव ह ।
शीतश्वेतप्रकाशस्य परिधिः सर्वतोऽभवत् ॥३२॥
सर्वतः श्वेतकिरणैर्व्याप्तोऽभूदित्यखण्डितः ।
प्रासादं नगरं देशं दुग्धधवलतेजसा ॥३३॥
कुर्वन् वितिमिरं सर्वमास्ते स्म मंचके तु सः ।
यदृच्छया महाभक्तो रैवतो जाग्रतोऽभवत् ॥३४॥
खट्वायां स्वांगदोत्पन्नं कुमारं प्रत्यपद्यत ।
चन्द्रमसमिव शुक्लं सौम्यं तेजोमयं शुभम् ॥३५॥
दिक्षु विदिक्षु धवलीकुर्वन्तमखिलं जगत् ।
जातमात्रं सुसंस्कृतं षोडशाब्दं सदाप्रभम् ॥३६॥
चक्रवर्तिधनुश्चिह्नं कुशलं ज्ञप्तिसंभृतम् ।
ज्ञात्वा राज्यासनं दत्वा रैवतो रैवताचले ॥३७॥
विशालायां कन्दरायां जगामोपासनाकृते ।
तत्र समाधिमापन्नो रैवतः सर्वदा हरौ ॥३८॥
एकात्मना स्थितो यावत्पंचमो मनुराभवेत् ।
अथोत्तरे महाकाले कल्पे कल्पे तु स स्वयम् ॥३९॥
सत्ये महाविभूत्याख्ये वर्तिष्यत इति स्थितिः ।
तत्र तत्र तस्य वंशे खटवांगदनृपादयः ।।1.55.४०॥
भूमिचक्रप्रशास्तारो भविष्यन्त्यब्दकोटिषु ।।
खट्वायामंगदाज्जातो नाम्ना खट्वांगदः कृतः ॥४१॥
ऊर्ध्वपुण्ड्रं स्वर्णरेखं ललाटे तिलकं त्वचि ।
स्वाभाविकमभूत्तस्य मध्यरक्ताभबिन्दुकम् ॥४२॥
कण्ठे स्वर्णमयी माला त्वचि स्वाभाविकी ह्यभूत् ।
सर्वैश्वर्याश्रयो भूभृत् तेजसा तिमिरं हरन् ॥४३॥
विमानमधिरुह्याऽथाऽन्तरीक्षे व्यचरन्मुहुः ।
दूराद्दूरतरंज्ञातं अमादौ तिमिरं निशि ॥४४॥
यत्र चन्द्रशून्यदेशे तत्राऽगच्छद् विहायसा ।
तिमिरं नाशयन् सर्वं द्वितीयश्चन्द्रमा इव ।।४५।।
मासि मासि भ्रमन् व्योम्नि शून्यदिक्षु निशापतेः ।
लोकान् करोति साऽऽलोकान् शीतरश्मीन् प्रसारयन् ।।४६।।
अथैवं तु कृते तत्र समुद्राः पार्वणाः सदा ।
क्षुब्धा भूमिस्तरप्लावा वेलाभिरभवन्मुहुः ॥४७॥
वेला ऊर्ध्वं समायान्ति निवर्तन्ते न वै तथा ।
भूमयस्तु जलाक्रान्ता जायन्ते स्म तदा तदा ॥४८॥
एकद्वित्रिकलापोष्या औषध्यः प्रायशस्तदा ।
पोष्याऽतिशैत्यसंघातादजीर्णत्वात्क्षयं ययुः ।।४९॥
इत्येवं हानिमालोक्य विमानं स्वं न्यवारयत् ।
तादृशोऽभून्महादिव्यः शीततेजोमयः स्वराट् ॥1.55.५०॥
करोति श्रीहरेर्भक्तिं कारयत्यपरान् जनान् ।
उद्घोषयति प्रातः स विष्णुः पूज्यः सदा जनैः ॥५१॥
पुण्ड्रं सचन्द्रकं कार्यं भोज्यं प्रार्प्यं हरौ सदा ।
सायं विष्णोर्गृहे गत्वा स्तुत्यो देवो जनार्दनः ॥५२॥
साध्व्यः सन्तश्चातिमान्या भोज्यपानादिदापनैः ।
होतव्यमनले देयं देवेभ्यो भक्तिपूर्वकम् ॥५३॥
नारायणपरो यो वै भजेन्नारायणं सदा ।
न मया तु करस्तस्माद् ग्रहीतव्यः कदाचन ॥५४॥
एवं तेन कृता भूमिः सर्वा वैष्णवमण्डिता ।
नाऽभक्तो ह्यभवत् कश्चिच्चक्रे तस्मिन्प्रशासति ।।५५।।
एवं भक्तियुते चक्रे शान्तः खट्वांगदो नृपः ।
राज्यचिन्तां परित्यज्य भगवन्तं सदाऽस्मरत् ॥५६॥
विमानं कन्दरे स्थाप्य स्वयमाराधनेऽभवत् ।
काले बह्वर्बुदे क्रान्ते तपसे ह्यकरोन्मतः ॥५७॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने लक्ष्मीशस्तुतिमणिभूम्यणुग्रहणभूविवरपूरणसतेजस्काऽपरचन्द्रीभवनतेजःप्रसारणभक्तिविधापनादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥