लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५४

विकिस्रोतः तः
← अध्यायः ०५३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५४
[[लेखकः :|]]
अध्यायः ०५५ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! प्रदेशः स विवरात्मा क्व विद्यते ।
अब्रिक्ताख्यप्रदेशात्तु पूर्वं कच्छाच्च दक्षिणम् ।। १ ।।
नर्मदायाः पश्चिमं तत् सिंहारण्यत उत्तरम् ।
प्रदेशः स सुरत्राता सुराष्ट्रः संभविष्यति ॥ २ ॥
प्रतीच्यां मलयाद्रेश्च प्राच्यामब्रिक्तदेशतः ।
आयतो विस्तृतो विश्वक् पंचसाहस्रयोजनः ।। ३ ।।
सिंहारण्यमिति ख्यातो देशोऽविच्छिन्नभूमिकः ।
सिंहारण्यादुदग्देशो देवदमनसंज्ञकः ॥ ४ ॥
देवदमनभूदेशात् शतगव्यूतिरुत्तरम् ।
महाभूविवरं चास्ति तस्य वै पूरणाय च ।।५।।
श्रीहरिस्ते यथापेक्षं प्रदेशं स्वं प्रदास्यति ।
समागच्छ मया साकं वैकुण्ठं प्रति चाऽनघ ! ॥ ६ ॥
देयं देशं तु सौराष्ट्रं नीत्वा त्वायाहि भूतले।
विवरं तत्सम्प्रपूर्य दिव्यं तद्भूतलं कृथाः ॥ ७ ॥
सुरत्रातरि तद्देशे सौराष्ट्रे त्वं स्थिरो भव ।। ।
तत्र देशे मणिस्वर्णमयो ब्रह्मगिरिर्महान् ॥ ८ ॥
सोम-भद्रामध्यदेशे स्वनिवासाय कल्पय ।
रैवतस्य निवासात्ते पर्वतोऽपि च रैवतः ।। ९ ।।
रेवताचलसंज्ञः स्याद् दिव्यो ब्रह्मगिरिर्महान् ।।
रेवतस्य स्वकन्याया रेवतीतिसमाह्वया ॥1.54.१०॥
तत्र स्थास्यति तीर्थाख्या गोलोकस्थापि सर्वदा ।
रैवतो भगवद्भक्तश्चिरं तत्र निवत्स्यति ॥११॥
पञ्चमस्त्वं मनुर्भूत्वा पुनस्तत्र निवत्स्यसि ।
रैवताचलतीर्थं तन्महत्तीर्थं भविष्यति ॥१२॥
यत्र दामोदरः कृष्णः शंभुर्यत्र भवेश्वरः ।
ब्रह्मा यत्र स्वयंभूश्च तत्र किं नाम मायिकम् ॥१३॥
कृष्णयोगात्सदा दिव्या भूमिः कृष्णा रसान्विता ।
वासनायाः कर्षणाच्च वैकुण्ठं नयनात्तथा ॥१४॥
सौराष्ट्रः कृष्ण आख्यातो नाम्ना रूपेण चौजसा ।
कृतस्मरो गिरिश्चापि रैवताचलपश्चिमे ॥१५॥
तेन लग्नो महान् भावी कदाचिद्वडवानलम् ।
नीत्वा सरस्वती देवी तन्मार्गेण गमिष्यति ।।१६।।
महासमुद्रे क्षेपार्थं तदा स्मरगिरिः स्वयम् ।
उत्थाय तत्समीपे च निरोधं संकरिष्यति ।।१७।।
तदा क्रुद्धो वडवाग्निर्गिरिं भस्मीकरिष्यति ।
तद्भस्मस्तरपाषाणा मृदुश्वेता भवन्त्यपि ॥१८॥
शिल्पिभिस्तैः करिष्यन्ते प्रासादाः श्वेतभूमयः ।
चूर्णं श्वेतं सौधद्रव्यं वह्निपाकात् ततो भवेत् ॥१९॥
अथर्षयः पितृसिद्धा देवाः साध्व्यश्च साधवः ।
योगिनो यतयो भक्ताः स्थास्यन्ति रैवते गिरौ ॥1.54.२०॥
दशपर्वतप्राकारो लक्ष्म्यम्बासौधशोभितः ।
कोटियात्रालुभक्तौघैः कार्तिक्यां कृत्प्रदक्षिणः ॥२१॥
श्रोण्यां मेघसमाकीर्णः श्रृंगे देवर्षिसेवितः ।
मूले कृष्णजनाकीर्णः पार्श्वे विमानसत्पथः ॥२२॥
पूर्वे शत्रुंजिता वार्गा चतुर्योजनतः परम् ।
तीर्थं कुंकुमवाप्याख्यं योजनत्रयतः परम् ॥२३॥
यस्योत्तरे च भद्राख्या सरित् द्वियोजनात्परम् ।
यस्याऽवाच्यां सोमतीर्थं चतुर्योजनतः परम् ॥२४॥
यस्य प्रतीच्यां योगिनीपर्वतस्यैव छायया ।
रक्षितोच्चभुवो देशस्त्वायतः क्रोशविस्तरः ॥२५॥
तत्र त्वया स्वकं निर्मातव्यं वै रैवतं पुरम् ।
ततस्तव सुतो नाम्ना खट्वांगदो भविष्यति ॥२६॥
स द्वितीयः शशी भूत्वा नैशं तमो हरिष्यति ।
तन्नाम्ना तत्पुरं खट्वांगदसंज्ञं भविष्यति ॥२७॥
तद्वंशे हाटको राजा भविष्यति तु भक्तराट ।
हाटकेशमहादेवं पातालादानयिष्यति ॥२८॥
तन्नाम्ना तत्पुरं हाटकेशपुरं भविष्यति ।
तद्वंशे मणिमान् राजा शंभोर्गणो भविष्यति ॥२९॥
तन्नाम्ना तत्पुरं मणिपुरं ख्यातं भविष्यति ।
प्राचीनानां तु दुर्गाणां दर्शनान्मानवास्तदा ॥1.54.३०॥
जीर्णदुर्गपुरं नाम्ना ख्यापयिष्यन्ति कालतः ।
ततस्तत्र गते काले पार्षदो विजयः प्रभोः ॥३१॥
प्राविर्भविष्यति तत्र राज्यं सोऽपि करिष्यति ।
तन्नाम्ना विजयपुरमित्याख्यां संगमिष्यति ॥३२॥
साध्व्यश्च साधवस्तत्र मोक्षदा ब्रह्ममूर्तयः ।
सर्वदा तु निवत्स्यन्ति लोककल्याणहेतवः ॥३३।।
चमत्कारा भविष्यन्ति तत्र भूमौ युगे युगे ।
दैवास्तु पुरुषास्तत्र भविष्यन्ति युगे युगे ॥३४।।
भुवो रक्षणकर्तारो धर्मस्य स्थापकास्तथा ।
कृष्णदामोदराऽऽवासाद्गोप्यश्चापि मुहुर्मुहुः ॥३५॥
तत्र तत्र भविष्यन्ति मानव्यो वै महाव्रताः ।
साध्व्यो भूत्वा भजिष्यन्ति कृष्णं सन्तं प्रतापिनम् ॥३६॥
तदाश्रयं सुकुर्वाणा नरा नार्यो मृगाः खगाः ।
मोक्ष्यन्ते संसृतेः पाशात्तादृशी भूमिका भवेत् ॥३७॥
अथ भावी रैवतोऽयं म्लेच्छाश्रयः समन्ततः ।
तदा कल्पस्य सायं वै कल्केरन्तिमजन्मनः ॥३८॥
नेत्रक्रोधात् क्वथितो वै ज्वालामुखो भविष्यति ।
ज्वालाभी रससन्तप्तो देशोऽपि रसतां व्रजेत् ॥३९॥
रसो वैकुण्ठमासाद्य यथापूर्वो भविष्यति ।
सौराष्ट्रो वैकुण्ठजनिर्वैकुण्ठं पुनरेष्यति ॥1.54.४०॥
अथ कल्पान्तरे चापि यथापूर्वं भविष्यति ।
तस्मादागच्छ राजेन्द्र वैकुण्ठं तु मया सह ॥४१॥
दास्यति श्रीहरिस्तुभ्यं प्रदेशं वै सुराष्ट्रकम् ।
इत्यामन्त्र्य गतस्तत्र रैवतो नारदेन च ॥४२॥
सह वैकुण्ठमभ्येत्य प्रणिपत्य प्रभुं हरिम् ।
ननाम शिरसा दण्डवच्च तुष्टाव सांजलिः ॥४३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रपूरितभूविवरभावितीर्थादिनिर्देशनिरूपणनामा चतुःपंचाशत्तमोऽध्यायः ॥ ५४ ॥