लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३
[[लेखकः :|]]
अध्यायः ०५४ →

श्रीलक्ष्मीरुवाच--
प्राणप्रिय त्रिकालज्ञ सर्पसत्र कदाऽभवन् ।
कथं कस्माद् यतश्चेन्द्रस्तत्र हुतो महाद्विजैः ॥ १ ॥
यमो वैवस्वतश्चापि कदाऽऽसीत् किं करोति सः ।
कीदृशो यमलोकश्च ब्रूहि तेऽहं यदि प्रिया ।। २ ।।
श्रीनारायण उवाच--
शृणु कथां तां सुरसां सर्पसत्रमयीं प्रिये ।
आद्ये तु द्वापरे जातां कथयामि समासतः ॥ ३ ॥
जाते त्रेतायुगे क्षीणे द्वापरः प्रतिपद्यते ।
प्रणश्यन्ति प्रजानां वै त्रेतायाः सिद्धयस्तु याः ।। ४ ।।
उद्भवन्ति तदा दोषा अधैर्यं लोभ इत्यपि ।
वाणिज्यं च तथा युद्धं तत्त्वज्ञानाऽविनिर्णयः ॥ ५ ॥
वर्णानां स्वार्थसंभेदो कार्याणां चाऽप्यनिर्णयः ।
याञ्च वधः पणो दण्डो मदो दंभोऽक्षमाऽबलम् ।। ६ ।।
एषा रजस्तमःप्राया प्रवृत्तिर्द्वापरे तदा ।
धर्मभेदोऽभवत्तेन रागद्वेषौ क्षणे क्षणे ।। ७ ।।
करणानां तु वैकल्यात् कारणानामनिश्चयात् ।
दोषाणां दर्शनाच्चैव मतिभेदास्तदा नृणाम् ॥ ८ ॥
कर्मणा मनसा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति ।
कायक्लेशस्तु बहुलो धर्माणां संकरस्तथा ॥९॥
वर्णाश्रमपरिध्वंसाः कामद्वेषौ महाबलौ ।
स्वमानं चाऽपराऽमानं दोषी ह्यासन् महाबलाः ॥1.53.१०॥
असत्यवाचनं प्रायो व्यापारे व्यवहारके ।
स्वस्वोदरभरत्वं च प्रायशः परिवर्तते ॥११॥
एतादृशद्वापरस्य समयस्य प्रभावतः ।
गृहवन्तो जनाः स्वीयं स्वत्वं कर्तुं समुद्यताः ॥१२॥
क्षेत्रं गृहं समुद्यानं वाटिका पशवो द्रुमाः ।
वाप्यः खन्यो वनान्यार्द्रारण्यानि च सरांसि च ॥१३॥
येषां स्वत्वावृतास्तेषां भोग्या भवन्ति ते तदा ।
इत्येवं मानसीं वृत्ति संकोचप्रवणां सदा ।।१४॥
मनुजानां विलोक्यैव सत्यं विलीनतां गतम् ।
पृथ्व्या रसः क्षयं यातो द्रुमा नैव फलानि च ।।१५॥
कल्पवृक्षा न दृश्यन्ते कामना पूर्यते नहि ।
गावः कामदुधा नैव दृश्यन्ते द्वापरे तदा ॥१६॥
प्रलीनाश्चिन्तामणयः कामवृष्टिर्न वर्षति ।
न फलन्त्यार्तवा वृक्षाः सस्यान्यपि फलन्ति न ॥१७॥
तदा तत्र बलं यस्य भुंक्ते स बलवानमुम् ।
इत्येवं ह्रास आपन्नस्तदा वै द्वापरे बहुः ॥१८॥
राजापि द्वेषवान् मानी ब्रह्मावमाननाऽऽदरः ।
प्रजा स्वार्थसाधिका च किं वाच्यं कालपर्यये ।।१९।।
एवं काले प्रवृत्ते वै सर्पसत्रमयी कथा ।
प्रवृत्ताऽभूच्छृणु लक्ष्मि ! भवबन्धविमोचिनीम् ॥1.53.२०॥
हर्याराधनसंदात्रीं गाथां जगत्सुपावनीम् ।
श्रुत्वा तां तु कथां रम्यां पूयन्ते श्रवणादराः ॥२१॥
स्वायंभुवमनोः पुत्रः प्रियव्रत इतीरितः ।
तस्य रैवतनामाऽभूत्पुत्रः परमधार्मिकः ।।२२।।
आबाल्याच्च तपोयोगभक्तिसेवापरायणः ।
स्नानं त्रिषवणं कुर्वन् सन्ध्यावन्दनतत्परः ॥२३॥
प्रातस्तु पितरौ नत्वा वृद्धान्नत्वा च भूसुरान् ।
गवां च पूजनं कृत्वा पितॄन् जलांजलीन् ददौ ॥२४॥
अग्नावाज्यं च हव्यं च दत्वा ततो निजाश्रितान् ।
भोजयित्वाऽतिथीन् विप्रान् स्वं आद देवतार्पितम् ॥२५॥
शेषं तु समयं सर्वं मालया भजनेन च ।
सार्थकयन् स्वकं जन्म सर्वान् भजनमादिशत् ॥२६॥
नारायण हरे कृष्ण स्वामिन्माधव सत्पते ।
वासुदेव परब्रह्माऽन्तर्यामिन् पाहि सर्वदा ॥२७॥
इत्येवं भजतस्तस्य नारदोऽगाद् यदृच्छया ।
रैवतेनाऽऽदृतं तस्य स्वागतं चासनादिकम् ॥२८॥
पादावनेज्य च ऋषेः कृपाकांक्ष्यवदत् स तम् ।
दयालो लोकजीवानां समुद्धारक दिव्यदृक् ॥२९॥
स्वयं ब्रह्म त्वमेवोक्तो नारायणमनोजनिः ।
त्वादृग्ब्रह्मविदो योगो हरेर्योगसमो मतः ॥1.53.३०॥
निस्पृहाणां सतां नैव मादृशात्स्यान्नु वाञ्छितम् ।
तथापि करुणाः सन्तो ह्यायान्ति परभूतये ॥३१॥
अवश्यं मे करगतं श्रेयो भवति निश्चितम् ।
नान्यथा भगवद्दृशां दर्शनं संभवेद् द्रुतम् ॥३२॥
शाधि शिष्यं चानुकूलं सेवादासं प्रशाधि माम् ।
नारदो वादयन् वीणां कृष्णनारायणं गृणन् ॥३३॥
प्राह रैवत ! धन्योऽसि बाल्याद्भजसि केशवम् ।
कोऽन्यलाभो जनिमतः प्राकृतात्कर्दमाद्भवेत् ॥३४॥
सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ।
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रचक्षते ॥३५॥
तादृशा च सता भाव्यं नाऽसता तु कदाचन ।
सत्सु सतां विरामः स्यान्न त्वसत्सु कदाचन ॥३६॥
तव निष्कामसद्भक्त्या लक्ष्मीनारायणः स्वयम् ।
प्रसन्नः सन् प्रेरयन्मां किञ्चिदावेद्यमस्ति यत् ॥३७॥
ब्रह्मधामाधिपः श्रीमान् हरिर्नारायणः स्वयम् ।
प्रभुर्दामोदरो भूत्वा पृथ्व्यामागन्तुमिच्छति ॥३८॥
ब्रह्मधामप्रदेशं स्ववासायाऽऽनेतुमिच्छति ।
शृणु तत्कारणं राजन् पृथ्व्यां पश्चिमभूतले ॥३९॥
सुरत्रासपथं छिद्रं शतगव्यूतिरायतम् ।
वर्तते तद्विवरेणाऽतलाद् दैत्यप्रकोटयः ।।1.53.४०॥
स्वर्गं गत्वा सुरान्सर्वान् त्रासयन्ति निरागसः ।
सुरत्रासकरं छिद्रं शतगव्यूतिविस्तरम् ॥४१॥
पूरणीयं मया तत्र वस्तव्यं चापि सर्वदा ।।
रैवताय तदर्थं वै दास्येऽक्षरप्रदेशकम् ।।४२॥
शतगव्यूतिविस्तारं दिव्यं समृद्धं सुखप्रदम् ।
यत्र स्वर्णरसाः कूपाः स्वर्णरक्षा सरित्तथा ॥४३॥
संजीवनी शल्यहर्त्री छेदसन्धा ह्यमूर्छना ।
रक्तदा धारहन्त्री च क्षुतृण्निरोधिनी तथा ॥४४॥
विविधौषधयस्तत्र भविष्यन्ति मया सह ।
यत्र भद्रा सुभद्रा मे पत्नी भद्रावती नदी ॥४५॥
यत्र चोर्जा मम पत्नी तत्र ओजस्वती भवेत् ।
यत्राऽऽर्द्रकुंकुमं लक्ष्म्याः सिक्तं कुंकुमवापिका ॥४६॥
यत्र पत्नीव्रतो विप्रो मदंशः संभविष्यति ।
यत्रा वाडवमादाय सरस्वती समुद्रगा ॥४७॥
यत्र मे प्लक्षछायायां क्षणं वासो भविष्यति ।
यत्र स्वर्णपुरी रम्या द्वीपान्तर्मे भविष्यति ॥४८॥
यत्र खट्वांगदो राजा तव पुत्रो भविष्यति ।
यत्र सोमेश्वरो देवो महादेवो भविष्यति ॥४९॥
यत्र तलस्य नाशाद्वै तलश्यामो भविष्यति ।
यत्र गुप्ततया यागात् प्रयागोऽपि भविष्यति ॥1.53.५०॥
यत्र भक्तो महान्मे वै दामनामा भविष्यति ।
यत्रैकतद्वीतत्रीताः भविष्यन्त्यृषयस्त्रयः ॥५१॥
यत्र तपःप्रियो दत्तात्रेयः स्थास्याम्यहं नगे।
यत्रोन्मत्ता च गंगा सा मदर्थं प्रवहिष्यति ॥५२॥
यत्र भवेश्वरपत्न्याः सिंहाः स्थास्यन्ति वाहनम् ।
यत्र सर्वस्वदाता मे भक्तिमार्गो भविष्यति ॥५३॥
यत्र जया ललिता मे राधा लक्ष्मीर्भविष्यतः ।
यत्र सूर्योऽर्कवृक्षस्य रूपं जन्म ग्रहीष्यति ॥५४॥
यत्र शत्रूंजिता देवी नदीरूपा भविष्यति ।
यत्राऽऽनर्तः पुना राजा तपसे संगमिष्यति ॥५५॥
यत्र सर्पगररोधान्नगरं च निवत्स्यति ।
यत्र कृष्णो धनुश्चिह्नः साधुरूपो भविष्यति ॥५६॥
गोपालकम्भरे मे च पितरौ संभविष्यतः ।
यत्र ममाऽवताराश्च भविष्यन्ति महर्षयः ॥५७॥
यत्र मद्राज्यदेष्टारो भविष्यन्ति ममांशिनः ।
यत्र नृपाभिषेक्ता च देवानीको भविष्यति ॥५८।।
यत्र मे नियतस्थानं रजिकुट्टं भविष्यति ।
तत्र मे युगलं कृष्णः स्वयं संस्थापयिष्यति ॥५९।।
अनादिनिधनं तन्मे स्थानं दिव्यं भविष्यति ।
कृष्णमुक्तिप्रदः सोऽयं द्वीपो दिव्यो भविष्यति ॥1.53.६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वापरधर्मरेवतगृहनारदागमपश्चिमभूतलविवरपूरकब्रह्मप्रदेशानयनमतिभविष्यत्तत्त्वोद्देशादिप्रदर्शननामा त्रिपंचाशत्तमोऽध्यायः ॥५३॥