लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४
[[लेखकः :|]]
अध्यायः ०४५ →

श्रीनारायण उवाच --
शृणु लक्ष्मि ! ततः पश्चाद् यद्भूतं तद् ब्रवीमि ते ।।
पिता दक्षस्तदाकर्ण्य पर खेदमवाप ह ।। १ ।।
शनैः श्वासं परामुच्य कन्याः प्राह दयावशः ।
समागच्छन्तु चन्द्रं तु शिक्षयामि पुनः स हि ॥ २ ॥
नैवं कुर्यात् प्रकुर्यात्तु सर्वासु समकामनाम् ।
इति कृत्वा गताः सर्वे चन्द्रभवनमादरात् ।। ३ ।।
दक्षः प्राह शशिन्देव ! त्वं मे शिष्योऽसि सुव्रत ! ।
सुज्ञोऽसि किन्नु बहुना वक्तव्यं ते प्रशिक्षणम् ।। ४ ।।
सर्वाः समाना मे कन्या युवत्यस्तेऽर्पिता मया ।
तव पत्न्यश्च ताः सर्वास्त्वयि रक्ता विलोक्य तु ।। ५ ।।
सर्वा भज समाना वै पक्षपातं जहीति च ।
सर्वा नारीर्भजस्व त्वं समकामसुखेप्सया ।। ६ ।।
नैकस्यामनुरक्तोऽभूः सर्वास्वेव रतो भव ।
सर्वाश्च कामय चन्द्र ! तास्तृप्ताः स्युर्यथा यथा ।। ७ ।।
नारीणां कामदाहस्य यः पतिः शान्ततां नयेत् ।
स्मृद्धिः स्वर्गं च तस्यैव विविधाश्च विभूतयः ॥ ८ ॥
भवन्त्यक्षतकुशला विवर्धन्ते दिने दिने ।
पत्नीनां प्राणदात्रीणां रंजनाद् रंजनं सदा ।। ९ ।।
तासां हृत्कल्पकाद् दुःखान्नरो नरकमाप्नुयात् ।
नरस्यैव तु सद्धर्मो नारीणां कामशान्तनम् ।।1.44.१०।।
तन्न कुर्यात्तदा लग्नं कृतं केवलमृत्यवे ।
वरं नार्या समं नार्या लग्नं कामधुरोज्झितम् ।।११।।
यदि लग्नफलं न स्यान्नार्याः पुंसः समागमे ।
तदा नार्याश्च वा पुंसो लग्नं भाराय केवलम् ।।१२।। |
यदि लग्ने कृतेऽनंगाऽऽनन्दं नाप्नोति मानवः ।
द्वन्द्वार्थं तत्कृतं लग्नं नाऽभूद् रत्यर्थमित्यथ ।।१३।।
नार्योः पुंसोश्च वा द्वन्द्वो लग्नतः स्यात् कथं नहि ।।
कथंकारं नरं नारीं रचयेद् भगवान् हरिः ॥१४॥
कथं वा चाऽर्प्यते नारी नराय न नरः पुनः ।
कथं वा तत्र गृह्णाति नरो नारीं नरं तु न ॥१५॥
इति चन्द्र विचार्य्यैव सर्वाः सौभाग्यसम्पदः ।।
तव पत्न्यः सदा सेव्यास्त्वया सौख्यप्रदापने ॥१६॥
चन्द्र ओमिति सम्मत्वा दक्षं संपूज्य भावतः ।
पत्नीः सर्वाः समागृह्य बहुधाऽरमयच्च सः।।१७।।
पुनः सर्वाः समागृह्य बहुधाऽरमयच्च सः ॥१७॥
काले बहुतिथे जाते रोहिण्यामेव सर्वथा ।
पूर्ववत् स्नेहबाहुल्यमन्यास्वल्पं पुनर्व्यधात् ॥१८॥
तदा पुनः पुनस्ताभिर्दक्षः सम्यङ्निवेदितः ।।
भूत्वा दक्षस्तदा क्रुद्धः प्राह चन्द्रमसं हितम् ॥१९॥
चन्द्र ! त्वं शिक्षितः सम्यङ् शिक्ष्यते च पुनर्मया ।
वर्तितव्यं त्वया सर्वदारेषु समभावतः ॥1.44.२०॥
तदा त्वं सर्वदा स्मृद्धो योगीव भव शक्तिमान् ।
अक्षय्यवीर्यतेजस्कः सर्वासां समतृप्तिकृत् ।।२१।।
इति तेऽनुग्रहं कुर्वे पुत्रीणां स्नेहतस्तव ।
यदि शापं सृजामि त्वां पुत्रीणां दुःखदो भवेत् ॥२२॥
तस्मात्त्वामनुशिक्ष्यामि सर्वासु समभाग्भव ।
सर्वाः सम्यक् संभजस्व यथेष्टं सुखदो भव ॥२३॥
यदि प्रवर्त्स्यसेनैवं तदा क्षयमवाप्स्यसि ।।
शक्तेश्च तेजसश्चैव क्षयं दुःखमवाप्स्यसि ॥२४॥
एकया कलया त्वं वै जीविष्यसि न संशयः ।
एवं मे वचने याहि कलापूर्णः सदा भव ॥२५॥
इति दक्षकथितं तदभिध्याय पुनः पुनः ।।
रमते सर्वपत्नीभिः सर्वदा स मुहुः समः ॥२६॥
रोहिणी तु हठात्तं वै निरोधयति कामिनी ।
स्वगृहे एव बहुधा कामनाऽतृप्तमानसा ॥२७॥
पत्न्यश्चान्याः प्रतीक्षन्ते मार्गं चन्द्रस्य चांगणे ।
न चायाति यदा नाथः शपन्त्यस्तास्तदाऽरुदन् ॥२८॥
नाथे सति वयं पत्न्यो नाप्नुमः कामदानताम् ।।
अन्यथा तु तदा कन्या नाथे सत्यप्यनाथवत् ॥२९॥
अस्माकं यदि नाथो न रोहिण्या अपि मा भवेत् ।।
इत्याक्रुश्य च ताः सर्वाः शेपुर्नाथं पुनः पुनः ॥1.44.३०॥
क्षयं याहि सदा चन्द्र ! तेजोवीर्यक्षयस्तव ।
सवीर्ये वा ह्यवीर्ये वा त्वयि सत्त्वेऽपि पक्षग ! ॥३१॥
नाऽस्माकं ऋतुलाभोऽपि तस्माद् वीर्यक्षयस्तव ।
रूपक्षयोऽपि भवतु पक्षपातिन् ! करोषि किम् ! ॥३२॥

अतिभोगकरी चेयं रोहिणी रोगिणी भवेत् ।
रक्तस्रावा प्रदरार्ता रोहिणि ! भव रोगिणी ॥३३॥
इतीदं तस्य पत्नीनामुल्बणं शापवाचनम् ।
दक्षस्यापि वचोभंगकृताप्तदोषमुल्बणम् ॥३४॥
चन्द्रस्य तु तदैव द्राक् क्षीणं तेजः सवीर्यकम् ।
षण्ढश्चैककलामात्रजीवनः समवर्तत ॥३५॥
सदा दुःखी सदा त्याज्यो नारीभिः समजायत ।
रोहिण्यपि रक्तस्रावा प्रदरार्ता बभूव ह ॥३६॥
चन्द्रो गृहं परित्यज्य पत्नीः सर्वाश्च तत्क्षणम् ।
प्राप्तस्तपः समाकर्तुं सौराष्ट्रे वारिधेस्तटे ॥३७॥
तत्र वर्षशतं तेपे तपः परमदारुणम् ।
स्वस्य रोगविनाशाय रोगो नैव न्यवर्तत ॥३८॥
शोकं जगाम बहुलं विमनाइव सोऽभवत् ।।
रोहिण्यपि सदा रक्तस्रावाऽद्यापि च वर्तते ॥३९।।
अथाऽत्र समये लोके शतवर्षेषु भूतले ।
चन्द्रामृतं विना सर्वा ओषधयः क्षयं गताः ॥1.44.४०॥
कणा नैव तु जायन्ते तुषेषु पुष्पकेषु च ।।
पृथ्व्या रसश्च कन्देषु मूलेषु न च रोहति ॥४१॥
पुष्टिस्तु सर्वदा नष्टा जीवास्तदा तु दुःखिताः ।।
देवाश्चाऽप्यलब्धरसाः ऋषयश्चाऽमृतक्षयाः ॥४॥
ब्रह्माणमुपसंगम्य प्रार्थयन् दुःखनाशनम् ।।
चन्द्रस्तत्र महादेवं शिवं संस्थाप्य यत्नतः ॥४३॥
पुनर्वर्षशतं तप्त्वा शंकरं चाऽप्रसादयत् ।
प्रसन्नः शंकरस्तस्मै प्राह किं ते ह्यपेक्षितम् ॥४४॥
वरं वरय भद्रं ते सुखो भव सदा शशिन् ।
चन्द्रस्तदाऽऽह नन्दीशं देव ! सोमेश्वरो भव ॥४५।।
मया प्रसादितश्चात्र तपस्तप्त्वा सुदारुणम् ।
सौराष्ट्रे पश्चिमे प्रान्ते वारिधेस्तटसन्निधौ ॥४६॥
मम पूज्यो महादेवः सदा सोमेश्वरो भव ।।
मम दक्षवचोजन्यं क्षयं रोगं विनाशय ।।४७||
तव देव महादेव ! प्रतिष्ठा प्रकरोम्यहम् ।
ब्रह्मादींश्चात्र चाऽऽहूय कुर्वे यज्ञमहोत्सवम् ॥४८॥
इति संकल्प्य चन्द्रेण ब्रह्माद्या देवतास्तथा ।
ऋषयो मुनयस्तत्र प्रजानां पतयस्तथा ॥४९॥
मनवो देवगन्धर्वाः सूतमागधनर्तकाः ।।
शंकरस्य प्रतिष्ठार्थमाकारिताः समागमन् ॥1.44.५०॥
भद्रावत्यास्तु नद्यास्तत्क्षेत्रं दक्षिणदिग्भवम् ।।
आभद्राया आसमुद्रं क्षेत्रं मोक्षकरं नृणाम् ॥५१॥
तत्र कुंकुमवाप्याख्यनगरे संवसन् द्विजः ।
पत्नीव्रताख्यविप्रर्षिर्वेदान् नीत्वाऽगमत्तथा ॥५२॥
परब्रहाऽवतारोऽयं श्रीकृष्णः स्वयमेव हि ।।
विधिना सोमनाथस्य प्रतिष्ठानमकारयत् ॥५३।।
प्रतिष्ठानोत्तरं ब्रह्मा तदा प्राह त्रिशूलिने ।
चन्द्रक्षयेण यावत्य ओषधयः क्षयं गताः ॥५४॥
तन्मूलाश्च प्रजाः सर्वाः क्षयं यान्ति मुहुर्मुहुः।
ततश्चन्द्रक्षयो नाश्यो भवता सुकृपालुना ॥५५॥
शंभुः प्राह तु तान्सर्वान् गच्छामो दक्षमातुरम् ।।
कथयामो हितं कर्तुं यथा स्यात् सुसुखं जगत् ॥५६॥
इत्यामन्त्र्य प्रजग्मुस्ते दक्षस्य भवनं प्रति ।।
स्वागतं कृतवान् दक्षो निषेदुश्च यथास्थलम् ॥५७।।
कुशलं पृष्ठवान्दक्षो जिज्ञासां कृतवानपि ।
मयि प्रयोजनं न स्यान्निस्पृहाणां महात्मनाम् ॥५८॥
तथापि मम लाभाय क्षेमाय च हिताय च ।
भवतामागमो भाव्यो दासः किं करवाणि वः ॥५९॥
इत्यावेद्य नमः कुर्वन्दक्षः प्राञ्जलिरास वै ।।
सोमार्थं च तदा शंभुः प्राह दक्षमिदं वचः ॥1.44.६०॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दक्षकृतचन्द्रशिक्षणशापरोगसोमनाथप्रतिष्ठापनादिनामा
चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥