लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५
[[लेखकः :|]]
अध्यायः ०४६ →

श्रीनारायण उवाच---
शंभुः प्राह तदा दक्षं चन्द्ररोगं - विनाशय ।
दक्षः प्राह च मे शापं हरिष्यामि तु शंकर ! ॥ १ ॥
पुत्रीणां सोमतो नैराश्यजं दुःखं पुनः पुनः ।
को हरिष्यति तद्दुःखं नित्यजं शशिनं विना ॥ २ ॥
साध्वीनां तस्य पत्नीनां दुःखदाहकृतं पुनः ।।
शापं को वारयेद् देवो यथेष्टं कुरु शंकरः ॥ ३ ॥
इत्याश्रुत्य गुरोर्वाक्यं दक्षस्य प्रयतात्मनः ।।
शंभुः प्राह तदा चन्द्रं दक्षशापो विनश्यतु ।। ४ ।।
सवीर्यो भव शीतांशो मैवं पक्षगमो भव ।।
अथ पत्नीकृतशापविनाशायाऽपि शंकरः ।।५।।
रेवतीप्रभृतिभ्यस्तत्क्षमां याचितवान्प्रभुः ।।
पत्नीभिश्च तदा रोगो नाशं याहीति कीर्तितम् ॥ ६ ॥
रोगो वीर्यक्षयो नष्टो न नष्टस्तु कलाक्षयः ।
पक्षपातित्वदोषस्य विनाशाय क्षमापितम् ।। ७ ।।
रोहिण्यामेव पातित्वं परित्यक्तं हिमांशुना ।
वीर्यक्षयप्रपातित्वं शंभुना सम्विनाशितम् ।।८।।
सर्वासु समगामित्वमंगीकृतं हिमांशुना ।
कलानां क्षयगामित्वं न नाशितं तु शंभुना ॥ ९ ॥
तदा चन्द्रः पुनर्देवं ब्रह्माणं प्रत्यभाषत ।।
पितस्तेजःक्षयो दुःखं सर्वदुःखाद्विशिष्यते ।।1.45.१०।।
तेजस्तेजस्विनामात्मा तेजः सम्मानमुच्यते ।
तेजः कीर्तियशो द्रव्यं महत्ता तेजसि स्थिता ।।११॥
निस्तेजा यो भवेल्लोके गणनातो बहिष्कृतः ।।
तेजस्विनां तु गणने तेजस्वी परिगण्यते ।।१२।।
अन्यगुणैविहीनोऽपि तेजोरूपसमन्वितः ।
चक्षुषां तु प्रियः स्याद्वै पुष्पं किंशुकजं तथा ॥१३॥
नैकगुणैर्युतं चापि रूपतेजोविहीनकम् ।
चक्षुःप्रियतरं न स्यात्कृष्णं व्याप्तं तमो यथा ।।१४।।
शुक्लं नीलं तथा पीतं रक्त च हरितं तथा ।
कपीशं कर्बुरं चेति सप्तरूपाणि तन्वते ॥१५॥
सर्वेभ्यस्तत्र शुक्लं वै श्रेष्ठं रूपं हि कथ्यते ।
ततः पीतं ततो रक्तं कपीशं तदनन्तरम् ॥१६॥
हरितं च ततः प्रोक्तं ततो नीलं तु गण्यते ।
कर्बुरं चित्रसंज्ञं तु ततः प्रियं त्विहोच्यते ।।१७।।
शुक्लं तेजो ब्रह्मणस्तु परब्रह्मण इत्यपि ।
मुक्तानां ब्रह्मसंज्ञानां गोलोकादिस्थलीजुषाम् ।।१८।।
रूपं श्वेतं सदा चक्षुःप्रियताकरमिष्यते ।
मम रूपं सदा शुक्लं तेजआधारकं मतम् ॥१९॥
विनातेजोऽप्यहं कृष्णो लोहमृत्तिकया समः ।।
तस्मात्तेजो मदीयं मे शाश्वतं देहि पद्मज ! ॥1.45.२०॥
नाऽहं तेजोविहीनो वै स्थातुमिच्छामि पूर्वज !।
तेजोहीनं च मां सर्वे तिरस्कुर्वन्ति सर्वथा ॥२१॥
नार्यश्चापि मदीया न मानयिष्यन्ति पूर्ववत् ।।
पूर्वं तेजःसमुद्रेकाद् व्यराजं देवसंसदि ।।२२।।
इदानीं तेजसा हीनः कथं यामि सुरगृहे ।।
तेजोहीनो न जीवेयं म्रियेय वच्मि चान्तिकम् ॥२३॥
सोम इत्यभ्यर्थयति यावत्तावत् तु तत्र वै ।।
ओषधयः समायाता विविधा भिन्नलोकजाः ॥२४॥
काश्चिदोषधयस्तत्र कलैकाऽमृतजीवनाः ।।
काश्चिदोषधयस्तत्र द्विकलाऽमृतजीवनाः ॥२५॥
त्रिकलाऽमृतपा कश्चित्काश्चिच्चतुःकलाऽमृताः ।
काश्चित्पञ्चकलाभोक्त्र्यः काश्चिच्छट्कलनाऽमृताः ॥२६॥
काश्चित् सप्तकलाभोक्त्र्यः काश्चिदष्टकलाऽमृताः ।।
काश्चिन्नवकलाभोक्त्र्यः काश्चिद्दशकलाऽमृताः ॥२७॥
काश्चिदेकादशकलाः काश्चिद्द्वादशसत्कलाः ।
काश्चित् त्रयोदशकलाः काश्चिच्चतुर्दशाऽमृताः ॥२८॥
काश्चित्पञ्चदशकलाऽमृतभोगाऽऽप्ततृप्तयः ।
प्राप्ते तत्तद्दिने तास्ता भक्षयन्त्यमृतं स्वकम् ॥२९॥
एवं विभिन्नसामर्थ्या विभिन्नाऽमृतजीवनाः ।।
विभिन्नकलया पुष्टा ह्यासँस्तत्र समागताः ॥1.45.३०॥
ओषधिभिर्विभिन्नाभिः प्रार्थितं स्वार्थजीवनम् ।।
ह्रासवृद्धिकलायुक्तश्चन्द्रमा यदि पाक्षिकः ॥३१॥
वर्तेत तु तदाऽस्माकं जीवनं चापि पौष्टिकम् ।।
सफलं सरसं स्मृद्धं यथाभक्ष्यसुपोषणम् ॥३२॥
यथावृद्धि यथापोषं यथार्तवं सबीजकम् ।।
यदि पूर्णकलश्चन्द्रः सर्वदा स्यात्तथा तु ताः ॥३३॥
कला असहमानाश्च नश्यामो वयमंजसा ।।
सर्वकलाऽमृतस्याऽस्य शैत्याग्निदहनाऽक्षमाः ॥३४॥
कुमार्यः पेशलाः सर्वा नाशमाप्स्यन्त्यहर्निशम् ।।
तस्माच्चन्द्रमसो नित्यशीततासहनाऽक्षमा ॥३५॥
कोमला ह्यंकुरादेव मा नाशं यान्तु वल्लयः ।
इति तासां प्रार्थनां तु श्रुत्वा ब्रह्मा च शंकरः ॥३६॥
चन्द्रमोषधिनाथं तौ प्राहतुः सुखकृद्वचः ।
चन्द्र त्वयाऽवधार्यं वै वल्लीनां प्रार्थितं खलु ।।३७||
स्वीकुर्वे तत्प्रसह्याऽत्र नाऽन्यो मार्गोऽत्र दृश्यते ।
ओषध्यधीनमेवैषां लोकानां जीवनं कृतम् ॥३८॥
ओषधीनां जीवनन्तु कलाः षोडश ते मताः ।
भिन्ना भिन्नाः कलास्तां तां जीवयत्यन्वहं यतः ॥३९॥
कलाधारो भवान्प्रोक्तः स चेत् कृपां न चाचरेत् ।।
सर्वानि नष्टा भवेयुर्वै परस्परतया मुहुः ॥1.45.४०॥
तस्मात्तेजःकलालाभे कथयावस्तथा कुरु ।।
भव पक्षे वर्धमानः पक्षे क्षयमवाप्नुहि ॥४१॥
पक्षपातित्वदोषस्ते कलास्वेव निवेशितः ।।
कलायास्ते क्षयः स्याद्वै वीर्यं ते चाऽक्षयं भवेत् ॥४२॥
पत्नीप्रदत्तशापो वै वज्रः केन हि वार्यते।।
पोष्यवर्गाऽर्थ्यमिष्टं तु पोष्यार्थं त्यज्यते न किम् ॥४३॥
परोपकारशीलास्तु परेषां सुखहेतवे ।।
निजार्थं स्वानुकूलं च त्यजन्ति परमार्थतः ॥४४॥
चन्द्र ! सर्वासु पत्नीषु समानं रमणं कुरु ।।
मा निःश्वासं तु तासां वै गृहाण सुखवान् भव ॥४५॥
ओषधीनां जीवनस्य पुण्यं गृहाण पक्षधृक् ।
एवं चन्द्रमसं कृत्वा ब्रह्मा च शंकरस्तथा ॥४६॥
देवाः कलाह्रासवृद्धी तथैवाऽस्थापयँस्तदा ।
तदारभ्य सदा चन्द्रः पूर्णवीर्यसुसंभृतः ॥४७॥
रेमे नक्षत्ररूपाभिः पत्नीभिः समभावतः ।।
कलानाशविवृद्धी तु हयोषधिप्रार्थिते स्थिते ॥४८॥
ब्रह्माद्याश्च तथा देवा ह्यगच्छन्स्वनिकेतनम् ।।
अथ शंभुर्ययाचे तं चन्द्रं ललाटभूषणम् ॥४९॥
ब्रह्मा प्रादादब्धिजं तत्कलाचन्द्रं द्वितीयकम् ।
अत्रेर्जातश्च यश्चन्द्रः स तु राजा तृतीयकः ॥1.45.५०॥
ते ते चन्द्राः प्रभिन्ना वै बोध्या विभिन्नकार्यजाः ।
यावन्तः शंभवः सन्ति यावन्त्यण्डानि सन्ति च ॥५१॥
तावन्तश्चन्द्रमसः स्युः कल्पभेदात् त्वनन्तकाः ।।
इति ते कथितं लक्ष्मि ! चन्द्रेऽपि क्षयकारणम् ॥५२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चंद्रस्य तेजःकलाह्रासवृद्धिस्थितिकारणप्रदर्शननामा
पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥