लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ०४४ →

श्रीनारायण उवाच
यदा तु ब्रह्मणा दृष्टं तेजः केवलमुल्बणम् ।
सर्वं दह्येद्विनश्येच्च पुष्येच्छिश्येत नैव च ।। १ ॥
ततस्तच्छान्तिकाराय पुष्ट्यै च प्रार्थयत् प्रभुम् ।
देवं नारायणं तावन्नारायणस्य मानसात् ॥ २ ॥
संकल्पाद्वामचक्षुष्ट उद्भूतं तेज अल्पकम् ।
शीतलं पोषकं तृप्तिकरं चामृतवर्षि यत् ॥ ३ ॥
तस्मादेकात्कणान्नानाकोट्यर्बुदकणाः कृताः ।
गोलकास्ते महान्तो वै जाता वेधस इच्छया ॥ ४ ॥
वेधोभी रक्षितास्ते वै ब्रह्माण्डेषु स्वकेषु च ।।
तत्र जाताश्च ते चन्द्राश्च शैत्यं द्रावयन्त्यतः ॥ ५ ॥
तस्य तेजः प्रपूर्त्यर्थं याचितो भगवान् यदा ।
प्राह सूर्यनिवासेन किरणेन मया सदा ।। ६ ।।
पोषणं दास्यते तत्र पूर्तिस्ते तेजसो भवेत् ।
इत्यतः स्वर्णपुरुषस्तेजोऽर्पयत्यहर्निशम् ॥ ७ ॥
शान्तिपुष्टिकरं पेयममृतं सुखसंभृतम् ।
स्निग्धमानन्दभ्रत्सर्वं तापनिवृत्तिकारणम् ।। ८ ॥
उष्णदुःखात्तारकत्वात्तारकं तेज एव तत् ।
चस्य शैत्यस्य संदानात् चान्द्रं तेजोऽपि चैव तत् ।। ९ ।।
तादृशं तु परं तेजोमयं चन्द्रं विधाय च ।।
ब्रह्मा रक्षितवान् स्वर्गे मिष्टाऽऽनन्दाय देहिनाम् ।।1.43.१०।।
चन्द्रोऽपि सर्वदा पूर्णः सदैकस्थितिको ह्यभूत् ।
पश्चात्कालान्तरे स्त्रीषु पक्षपातात्क्षयं गतः ।।११।।
पुनश्च शंकरेणापि तद्रोगादर्धतारितः ।
तथैव तस्य योग्यत्वादर्धरक्षा कृता तदा ॥१२॥
श्रीलक्ष्मीरुवाच—
कथा चन्द्रमसः स्त्रीषु पक्षपातितया च या।।
क्षयंकराऽभवत्तां मे श्रावयस्व कृपानिधे ! ॥१३॥
काश्च तस्य स्त्रियः कति कथं तत्पक्षपातिता ।।
कथं शापः कथं मुक्तिः कथं चार्धक्षयिष्णुता ॥१४॥
एतत्सर्वं समाक्षस्व परमाश्चर्यमत्र मे ।।
देवस्याऽपीदृशी पीडा तव रूपस्य हे विभो ! ॥१५॥
श्रीनारायण उवाच --
शृणु सांगां कथां तस्य विचित्रां कामवेगजाम् ।
श्रुत्वा सापत्न्यदुःखाऽपि त्वं मां मैवं करिष्यसि ॥१६॥
ब्रह्मणो मानसः पुत्रो दक्षः प्रजापतिः पुरा ।
मनसा कल्पयामास कन्यकाः सृष्टि हेतवे ।।१७।।
सप्तविंशतिकन्यास्तु रोहिणीप्रमुखा इति ।
ददौ चन्द्रमसे यास्तु नक्षत्राणि भवन्ति ताः ।।१८।।
नाम्नाऽश्विनी च भरणी कृत्तिका रोहिणी तथा ।।
मृगशीर्षा तथाऽऽर्द्रा पुनर्वसुश्च पुष्यकम् ।।१९।।
आश्लेषा च मघा पूर्वाफाल्गुन्युत्तरफाल्गुनी ।।
हस्तिश्चित्रा तथा स्वातिर्विशाखा चानुराधिका ॥1.43.२०॥
ज्येष्ठा मूलं तथा पूर्वाषाढा चोत्तरषाढिका ।।
श्रवणं च धनिष्ठा च शततारा तथा च वै ।।२१।।
पूर्वभाद्रपदा चैवोत्तरभाद्रपदा तथा ।।
रेवती चेति चन्द्रस्य पत्न्यस्तु सप्तविंशतिः ॥२२॥
सर्वा दिव्याः कांचनाभा रक्ता द्वादशहायनाः ।।
तास्वपि रूपलावण्यसौभाग्यसद्गुणोर्जिता ॥२३॥
रोहिणी सर्वदा कामकुशला प्राणहारिणी ।।
चन्द्रो यथा यथा हीच्छेद् रोहिणी वर्तते तथा ॥२४॥
नेत्रं प्रेमभरं तस्मै दर्शयत्येव चित्तहृत् ।।
मुखं हास्यभरं सौम्यं सर्वश्रृंगारतैजसम् ॥२५॥
वक्रनेत्रभ्रुवोर्भंगं दर्शयत्यपि चित्तहृत् ।।
रक्तावोष्ठौ फुल्लगण्डौ दर्शयत्येव शान्तिदौ ॥२६॥
पुष्पमालां करे धृत्वा मनोज्ञामर्पयत्यपि ।।
स्तनौ स्वल्पौ सुघटौ च कंचुकीदृढतां गतौ ॥२७॥
रम्यौ केसररंगाढ्यौ युवती दर्शयत्यपि ।
उदरं सुवर्णवर्णं कटिं तन्वीं सुकोमलाम् ।।२८॥
नितम्बौ मध्यकुंभाभौ वासस्तारल्यदर्शनौ ।
अलोमकं सूक्ष्ममध्यं स्वर्णाभं दर्शयत्यपि ॥२९॥
सक्थ्नोः सुवर्णयोर्मूलं मन्थरं दर्शयत्यपि ।
आगत्य गण्डके तालीं दत्वा गच्छति सत्वरम् ॥1.43.३०॥
परावृत्य पुनः कण्ठे हस्तं कृत्वा च चुम्बनम् ।
स्पृष्ट्वा गुप्तं मुखं दत्वा विलासं भावयत्यपि ॥३१॥
क्वचिद्वासो विना भूत्वा स्वात्मानं दर्शयत्यपि ।
मनो जहार चन्द्रस्य लज्जां सन्त्यज्य सर्वथा ॥३२॥
चन्द्रः षोडशवर्षोऽपि वीर्यस्याऽक्षयशेवधिः ।
रेमे रेमे पुना रेमे तृप्त्या रेमे पुनः पुनः ॥३३॥
सर्वदैव तु रोहिण्यां रेमे रेमे पुनः पुनः ।
रोहिण्यपि नवं सौम्यं रूपं चक्रे पुनः पुनः ॥३४॥
रमित्वाऽपि पुना रेमे नाऽन्याः सस्मार चन्द्रमाः ।
क्वचित्कदाचिदन्याभिः संरेमेऽपि तथापि ताः ॥३५॥
क्वाचित्काद्रमणात्तृप्तिं न यान्ति रोहिणीव हि ।
सर्वासां यौवने पुष्टे सदृशेऽपि तु चन्द्रमाः ॥३६।।
रोहिणीरोधतः सर्वा भेजे समतया नहि ।
ततस्ताभिः प्रार्थितः स्वपतिः सौख्याय भागतः ॥३७॥
तथापि रोहिणी तासां सौख्यार्थं नाऽन्वमन्यत ।।
स्वार्थमात्र पराक्रान्ता पक्षपातमकारयत् ॥३८॥
तदा त्वन्या उदासीना ह्यकुर्वन् शोकमात्मसु ।।
किं नाम कृतलग्नेन यासां पतिसुखं नहि ॥३९॥
वेगारूढयुवत्वाऽऽढ्यकामव्याप्तद्वयोरपि ।
यदि कामसुखो योगो न स्यात् किं तेन लग्निना ।।1.43.४०।।
पूरुषस्य स्त्रियाश्चापि यथेष्टं कामतर्पणम् ।।
न स्याद् यदि कृतं तेन लग्नेन विफलार्थिना ॥४१॥
कामपूर्णशरीरा या नवयौवनशालिनी ।।
पत्युः सुखं लभेच्चेन्न किं लग्नेन कृतेन वै ।।४।।
वैधव्यं वा कुमारीत्वं तस्मात्तु वरमुच्यते ।।
सति पत्यौ न कामस्य सुखं प्राप्नोत्यभागिनी ।।४३॥
वरं तु कूपपतनं वरं दहनमग्निना ।।
वरं तु गरलं भक्ष्यं कामदाहनदुःखतः ॥४४॥
वरं पितृगृहे वासो वरं साध्वीत्वमित्यपि ।
न तु पत्यौ सति कामाग्निना ह्यात्मप्रदाहनम् ॥४५॥
मा वै भवतु कासांचित् पतिर्नपुंसकः क्वचित् ।।
वा मा भवतु दुष्प्रेमा विप्रेमा क्षणिकोऽपि वा ॥४६॥
मा वा भवतु सापत्न्यं शात्रवं दुःखमण्वपि ।।
एवं विलप्य बहुधा सर्वास्ताः स्वपितुगृहे ॥४७॥
गत्वा निवेदयामासुः पत्युर्दुःखं पुनः पुनः ।।
पितः कन्या न दातव्या प्रेमहीनाय शुष्मिणे ॥४८॥
पक्षपातप्रगन्त्रे च रोगिणेऽन्यासु शायिने ।।
अस्माभिर्नैव गन्तव्यं चन्द्रस्य भवने क्वचित् ॥४९॥
अस्मान् समतया चन्द्रो भजते नैव कर्हिचित् ।
पितुगृहं यथा शुष्कं पत्युगृहं ततोऽधिकम् ॥1.43.५०॥
शुष्कं शुष्कायते सर्वं पूर्णं रतिसुखं विना ।।
सत्यं यथानुभूतं वै वदामः सर्वथा पितः ! ॥५१॥
जामाता रोहिणीं ते तु सर्वदा भजते मुहुः ।।
नास्मान् क्वचित्क्वचिच्चेद्वै तत्रापि नैव पूर्णता ॥५२॥
ततो वयं न गन्तास्माश्चन्द्रस्य भवने पुनः ।।
मर्तव्यं नैव गन्तव्यं यत्र दुःखं हि केवलम् ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्रोत्पत्तिस्ततो रोहिण्यां पक्षपातेनाऽन्यासां पत्नीनां दक्षाय निवेदनादिनामा त्रिचत्वारिंशोऽध्यायः ॥४३।।