सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०४२

विकिस्रोतः तः
← अध्यायः ०४१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ०४३ →

श्रीनारायण उवाच
अथ देवव्यवस्थां तु कथयामि समासतः ।।
ब्रह्मणो मानसा देवाः स्वर्गे सर्वे सुसंस्थिताः ।। १ ।।
शृणु लक्ष्मि ! प्रवक्ष्यामि ततः किं किमभूदिति ।
सत्तपोजनमहसां पितॄणां पुष्टिकारकाः ॥ २ ॥
अपेक्षिताश्च राजानः प्रजानां परिपालकाः ।।
लोकानां पालकाश्चैव मनवोऽपि निरीक्षकाः ।। ३ ।।
तेषां कृते निवासाश्च प्रकाशाः पुष्टिहेतवः ।।
विचार्येति स्वयं ब्रह्मा ह्यभिध्यानमकुर्वत ।। ४ ।।
नारायणं परं स्मृत्वा कर्तव्यं प्रत्यपद्यत ।।
प्रथमं तु महत्तेजः पाकप्रकाशकारकम् ।।५।।
द्वितीयं तु महत्तेजः शक्ति पुष्टिकरं तथा ।
प्रार्थयच्छ्रीहरेस्तस्मात् समाधौ प्रांजलिर्मुदा ।। ६ ।।
तदा प्रागेव दक्षाद्वै नेत्रात्तु श्रीहरेस्ततः ।
कणस्तु तेजसो जज्ञे ब्रह्माण्डानां प्रकाशकः ।। ७ ।।
तस्मात्कणा ह्यसंख्याता जाताश्चोग्रतमास्ततः ।
तेऽपि तत्तद्विरञ्चीनां ब्रह्माण्डेषु प्रवेशिताः ॥ ८ ॥
तत्र तत्र च सूर्यास्ते जातास्तेजोमया इति ।
एवं सूर्यं समासाद्य वेधसा परमेष्ठिना ।। ९ ।।
प्रकाशार्थं च लोकानां स्वर्गे संस्थापितो हि सः ।।
तस्मै चाज्ञापयामास ब्रह्मा लोकपितामहः ॥1.42.१०॥
सर्वदा त्वं त्रिलोक्यां वै भास्करो भव तेजसा ।
जीवानां नेत्रमात्राणि वस्तूनां ग्राहकाणि न ॥११॥
यत्र नास्ति प्रकाशोऽत्र वस्तूनां ग्राह्यता कथम् ।
तस्मात् तेजःसुयोगेन द्रष्टृत्वं वै भविष्यति ।।१२।।
तेन लोकस्य यात्रापि सर्वा दर्शनमूलिका ।
सम्पत्स्यते तु वै तस्मात् त्वं दिवाकरतां व्रज ॥१३॥
एवमाज्ञापितः सूर्यस्तेजोदानेन सर्वथा ।
शंकमानः क्षयं स्वस्य ब्रह्माणं प्रत्यभाषत ॥१४॥
देवदेव जगत्कर्तस्त्वदाज्ञां पालयाम्यहम् ।।
अपि वै मम देहस्य तेजोहासात् क्षयो भवेत् ॥१५॥
विनाशं च गमिष्यामि शीघ्रं यद्रक्षको भव ।
रक्षणोपायमत्र त्वं कुरु मे स्यामविक्षतः ॥१६॥
ब्रह्मणा तत्समाश्रुत्य स्मृतः श्रीहरिरव्ययः ।
सूर्यस्याऽऽपूरणार्थाय स्वयमापूरको भव ॥१७॥
नारायणो हरिस्तस्य ब्रह्मणः प्रार्थनां तु ताम् ।
अंगीकृत्याऽब्रवीद् देवं ब्रह्माणं पूर्तिदं यथा ॥१८॥
ब्रह्मन् ददामि भद्रन्ते सूर्यस्य मम चक्षुषः ।।
यथा ह्यक्षय्यभावः स्यात्तथा रूपं प्रपूरकम् ॥१९॥
इत्युच्चार्य हरिः साक्षात्तेजोराशिर्घनाद्धनः ।।
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रकस्तथा ॥1.42.२०॥
हिरण्यकेश आनखात्सर्व एव सुवर्णकः ।
बभूव षोडशवर्षः स्वर्णालंकारभूषणः ॥२१॥
मुञ्चत्सहस्ररश्मींस्तु ललाटं यस्य केवलम् ।।
ऊर्ध्वं मुञ्चल्लक्षरश्मीन् मस्तकं यस्य केवलम् ॥२२॥
कोटिरश्मीन्प्रमुञ्चद्वै शरीरं यस्य केवलम् ।।
रोम्णि रोम्णि स्वर्णमयस्तेजोराशिप्रपूरितः ॥२३॥
रूपसौन्दर्यमाधुर्यकल्याणगुणसंश्रितः ।
मुकुटी कुण्डली स्रग्वी स्वर्णप्रावरणान्वितः ॥२४॥
अक्षय्यतेजस राशिः सूर्यतेजःप्रकाशकः ।।
भगवानीदृशो भूत्वा विवेशाऽर्कस्य मण्डलम् ॥२५॥
पूरयन् सर्वतेजांसि स्वीयतेजःप्रवाहकैः ।।
रविणा ब्रह्मणा चान्यैर्महर्लोकादिवासिभिः ॥२६॥
पूजितो वन्दितो देवः षोडशात्मोपचारकैः ।
सूर्यनारायणस्तस्य स्वर्णपुंस उपासनम् ॥२७॥
करोत्यविरतं लोकचक्षुर्दातृत्वहेतवे ।।
वक्ति स्तोत्रं प्रार्थनायामिदं तेजःप्रपूर्तये ॥२८॥
ॐ नमः तेजःप्रसवित्रे बृहतेऽव्ययतेजसे ।
तेजस्विभ्योऽव्ययतेजःप्रदात्रे ब्रह्मणे नमः ॥२९॥
यस्य गावो भूरिशृंगा अयासो भान्ति वर्षणे ।।
ईशनीषु तदीशेषु यस्य भ्राज्योऽन्वयं ययुः ॥1.42.३०॥
नमो भ्राजिष्णवे तस्मै गोमते गोप्रसारिणे ।
हृत्तमोद्राविणे दिव्यासाय देवाय ते नमः ॥३१॥
प्रकाशयितृसम्राजे स्वप्रकाशकृणे नमः ।।
नमो भावित्तिविप्राय ज्ञानप्रबोधसूरिणे ॥३२॥
नमः श्राणविधातस्ते नम आत्मसदात्मने ।
नमो राजिष्णवे दीव्यन् सप्तभाजनुदायिने ॥३३॥
नमो भौमाय रक्ताय नमो दिव्याय विद्युते ।
नमः सूर्याय चोग्राय नमो हिरण्मयाय ते ॥३४॥
नमः खानेयसद्धेम्ने नम उदर्यतेजसे ।
नम उडुपभावाय नमो यावत्प्रभात्मने ॥३५॥
नमः कार्यस्वरूपाय नमः कारणरूपिणे ।
हिरण्मयाय देवाय ब्रह्मणे परमात्मने ॥३६॥
त्वं सृष्टा त्वं पोषयिता संहर्ताऽपि त्वमेव वै ।
त्वमेव परमं तेजस्तेजस्विनां दृगग्रजम् ।।३७॥
सदा तेजःप्रदानेन रक्ष मां परमेश्वर ।।
चक्षुष्मन्तश्च यावन्तो भजिष्यन्ति प्रभाप्रभुम् ॥३८॥
त्वमेव भगवान् भावान् प्रभावॉश्च प्रभास्वरः ।
त्वमेव नेत्रवान् त्राताऽऽमत्राता चाऽविनश्वरः ॥३९॥
महर्चक्षुः स्वर्गचक्षुर्भुवर्चक्षुस्त्वमेव हि ।
भौमचक्षुः सर्वचक्षुश्चक्षुषां चक्षुषे नमः ।।1.42.४०।।
ॐ ॐ ॐ भूर्भुवः स्वस्तत् ॐ तत्सवितुर्वरेण्यम् ।
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥४१॥
इति मन्त्रं तु यः कोऽपि जपेद्ध्यायेदतन्द्रितः ।
हिरण्मयः परो देवः साक्षाद्याति तदग्रतः ॥४२॥
अयुतं जपनात्तस्य स्वयं सूर्यो महान्प्रभुः ।।
वरदो भवते तस्य भगवत्वं ददाति च ॥४३॥
दिव्यं करोति तच्चक्षुरुद्घाटयति चान्तरम् ।
उत्तेजयति चात्मानं सम्पादयति ब्रह्म तत् ।।४४॥
तस्माद्धयानपरो भूत्वा जपेत् स्वश्रेयसे सदा ।
स्तोत्रं सूर्यकृतं स्वोपास्त्यर्थं हिरण्मयस्य वै ॥४५॥
ततो वै ब्रह्मणा सूर्यो हिरण्मय पुमन्वितः ।।
सर्वमध्यान्तराले वै सर्वतेजःप्रदो भवेत् ॥४६॥
तथा संस्थापितः स्वर्गे जगच्चक्षुः स एव हि ।
चक्षुष्मन्तस्तदभावे ह्यचक्षुष्का भवन्ति वै ॥४७॥
सूक्ष्माणुरूपभाभिस्तु चक्षुर्देवो भवत्यपि ।
चक्षुषां स्वकतेजोऽणुपूरकः स प्रवर्तते ॥४८॥ |
रात्रौ दिवा च यत्किंचित्प्राणिमात्रं भवेद्धि तत् ।।
स्वल्पं वा बहुलं वापि सूर्यतेजस्विनेत्रकम् ॥४९॥ |
दिवा घनं भवेत्तेजो रात्रौ तु विरलं भवेत् ।।
तच्चापि सूर्यसंभूतं तदाप्ताऽऽप्तप्रभामयम् ॥1.42.५०॥
सूर्याय तु जलं देयं पत्रं पुष्पं फलं तथा ।।
नमस्काराः सदा देया जगन्नारायणो हि सः ।।५१॥
हिरण्मयस्तु पुरुषो लक्ष्मीं हिरण्मयीं तनुम् ।।
सह स्वेन रवेस्तत्र मण्डलेऽरक्षयत्सदा ॥५२॥ |
कल्पान्ते च यदा स्वर्गविनाशो जायते तदा ।।
सूर्यो हिरण्मयो लक्ष्मीर्देव्यः सूर्याण्य इत्यपि ॥५३॥
ब्रह्मलोकं तु गच्छन्ति परमाक्षरमव्ययम् ।
ततस्तत्र निवासाय श्रीहरिणा स्वयं कृतम् ॥५४॥
हिरण्याख्यं स्वकं धाम दिव्यमक्षरधामनि ।
तत्र हिरण्यया लक्ष्म्या साकं हिरण्मयः पुमान् ॥५५॥
कोट्यर्बुद हिरण्याऽऽभदासीदासप्रसेवितः।
राजते सर्वदा राजाधिराजः परमेश्वरः ॥५६॥
तत्तु दिव्यं परंधाम सूर्येऽत्र स्थूलमुच्यते ।
मूलं ब्रह्मगतं धाम तच्छायं सूर्यमण्डलम् ॥५७।।
पुरुषः स परब्रह्म स्वर्णः सूर्यश्च चाक्षुषः ।
ध्यानाऽक्षिविद्यया सोऽयं लभ्यते मोक्षकांक्षिभिः ॥५८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मानससूर्योत्पत्तितत्स्तोत्रहिरण्मयपुरुषादिनिरूपणनामा द्विचत्वारिंशोऽध्यायः ॥४२॥