लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४
[[लेखकः :|]]
अध्यायः ०२५ →

श्रीनारायण उवाच
अथ पूर्वे महासर्गे ब्रह्माण्डे परमेष्ठिनः ।
क्षीरोदधौ शयानस्य तत्र नारायणप्रभोः ।। १ ।।
एकादशेन्द्रियेभ्यो या कन्या दानवनाशिनी ।
समुद्भूता महासाध्वी सैकादशी महालये ।। २ ।।
पुनर्नारायणमूर्तौ लयं प्राप्ता च या ततः ।।
यावदिन्द्रियसामर्थ्यात्मकतेजांसि तद्विभोः ॥ ३ ॥
संस्थितानि सदा मूर्तौ तानि नारायणः स्वयम् ।
महासर्गसमारंभे चेशानां व्रतकाम्यया ॥ ४ ॥
ताः कन्याः स्वर्णवर्णाढ्या दिव्या द्वादशहायनाः ।।
सर्वांगरूपसंपूर्णास्तपस्तेजःसमन्विताः ॥ ५ ॥
प्रकटीकृतवान् , ताश्चेश्वरेभ्यो व्रतकारणात् ।
अर्पिताः श्रीभगवता नारायणपरायणाः ॥ ६ ॥
नारायणान्न ता न्यूना मोक्षदाने महाबलाः ।।
ब्रह्माऽक्षरे परे धाम्नि वर्तन्ते मुक्तिमण्डिताः ।। ७ ।।
ईश्वरास्तद्व्रतं कृत्वा मुक्तिं यान्त्यक्षरे पदे ।
ब्रह्मदेहा ब्रह्मरूपा ब्रह्मैश्वर्यसमन्विताः ॥ ८ ॥
ब्रह्ममुक्तिप्रदाः सर्वा ब्रह्माण्यो ब्रह्मदायिकाः ।
यदा तु वेधसा स्वस्य सृष्टावागमनाय च ।। ९ ।।
प्रार्थिताश्च तदा नारायणोऽहं मिषमात्रतः ।
मुरनाममहाद्वेष्टृनाशाय संयतोऽभवम् ॥1.24.१०॥
क्षीरे तु सागरे यावत् तत्र स्वपिमि दानवः ।
मुराख्यस्तु महाघोरो बलिष्ठः समुपागतः ॥११॥
युद्धार्थं तस्य नाशाय मया शक्तिः प्रकाशिता ।।
सा चैकादशसंख्याकेन्द्रियसामर्थ्यसंभृता ।।१२।।
कन्या मोहकरी रम्या मया तेजोविवर्धिता ।।
दानवस्य विनाशाय प्रेरिता स्वर्णसुन्दरी ।।१३।।
यावद्गच्छति नाशाय दानवस्तावदासुरः ।।
दृष्ट्वा तां मोहमापन्नो वव्रे तां चकमे मुहुः ॥१४॥
कन्यया तु तदाऽभ्युक्तो युद्धे नारायणं च माम् ।।
जित्वा पत्नीं कुरु दुष्ट ! नान्यथा स्यात् त्वदीप्सितम् ॥१५॥
दानवः स समाकर्ण्य मुग्धो यावत्तु युद्धयति ।।
तावत्तु कन्यया पूर्वं खङ्गेनच्छिन्नमस्तकः ॥१६॥
पपात धरणौ तत्र ममार न समुत्थितः ।।
तदारभ्य मया लक्ष्मि ! कन्यकायै वरो महान् ।।१७।।
दत्तस्त्वद्व्रतकर्तारो यास्यन्ति परम गतिम् ।।
तव पूजाप्रकर्तारः प्राप्स्यन्ति ब्रह्म चाऽक्षरम् ॥१८॥
तवोद्यापनकर्तारो लप्स्यन्ते स्वर्गमिष्टदम् ।।
तव दानप्रकर्तारो मुक्तिं यास्यन्ति पापिने ॥१९॥
तव पुण्यप्रदातारोऽवाप्स्यन्ति भोगवैभवम् ।
सकामाः कामशून्या वा शरणं ते गता जनाः ॥1.24.२०||
नरा नार्योऽथ वा चान्ये देवा दैत्यादयश्च ये ।।
ते स्वेष्टं समवाप्स्यन्ति स्वर्गं मोक्षप्रदं ध्रुवम् ॥२१॥
महापापाऽतिपापानां नाशयित्री सुखावहा ।।
पावयित्री जनानां च मोक्षदा भव कन्यके ! ॥२२॥
इति सा वरप्राप्त्या सर्वपापप्रणाशिनी ।
महामोक्षगतेर्दात्री वर्तते सर्वतोऽधिका ॥२३॥
मामथ प्राह सा देवी नाथैकाऽहं त्वया कृता ।
जना लोकाश्च बहवस्तत्र व्याप्तिश्च मे कथम् ॥२४॥
तस्माद्बहुस्वरूपाऽहं भवेयं तत्तथा कुरु ।।
ततो मया तु सामर्थ्यं दत्तं तस्यै महत्तरम् ॥२५॥
मुख्याश्चतुर्विंशतिसुस्वरूपा जातास्ततोऽनन्ततनुस्वरूपाः ।
ब्रह्माण्डवैपुल्यगता नु चैकादश्योभवन्त्यप्रमितस्वरूपाः ॥२६॥
ततो मयाऽपि संकल्पाच्चैकादश्यः पुनः पुनः ।
कोटिशश्चाऽप्यनन्ताश्च स्वमूर्तेः प्रकटीकृताः ॥२७॥
मुख्यास्तथा परास्तासां दास्योऽनन्ता मया कृताः ।
ब्रह्माण्डेषु च सर्वत्र सन्ति मोक्षकरा नृणाम् ॥२८॥
अत्र तु वेधसः सत्ये लोके तद्धाम निर्मितम् ।
तपस्विन्यस्तपःकर्त्र्यस्तत्र साध्व्यो वसन्ति हि ॥२९॥
सर्वदाऽक्षतसौभाग्या नारायणपरायणाः ।
कुमार्योऽक्षतसामर्थ्या दिव्या द्वादशहायनाः ॥1.24.३०॥
मुक्त्यात्मिकां दशामेकां सुस्मृद्धां प्रापयन्त्यतः।
एकादश्यो मता नाम्ना भवच्छेत्र्योऽघमर्षणाः ॥३१॥
दिव्या मूर्तिस्वरूपास्ताः पूजां गृह्णन्ति नित्यशः ।।
मया समं सदा पूज्याः सेव्याः साध्व्योऽन्वहं त्वया ॥३२॥
अथेशानां च देवानामृषीणां पशुपक्षिणाम् ।।
मानवानां च दैत्यानां जलस्थलनिवासिनाम् ॥३३॥
समाजेषु यदा मे स्यादाविर्भावस्तदा तदा ।।
तेषां जयः सुविजयो भवतीति मया सह ॥३४॥
जयाख्या विजयाऽऽधाना दासी मत्तनुजा शुभा ।
प्राकट्याख्या सुसामर्थ्या मदभिन्ना समागता ॥३५॥
वर्तते सर्वथा दिव्या भक्तानां जयदा शुभा ।
कन्यका सुकुमारी सा भक्तानां मुक्तिदा ध्रुवम् ॥३६
नारायणी जयन्तीति समाख्याता मदात्मिका ।।
ब्रह्मरूपा मम मूर्तिर्मत्स्वरूपा तु सा सदा ॥३७॥
मद्विना नैव कुत्रापि वसतीति मया सह ।
वर्तमाना मुक्तिदात्री जयन्तीति जयावहा ।।३८॥
तस्यै चापि मया नैकरूपधारणशक्तयः ।।
प्रदत्ताश्च ततः सापि नैककोटिस्वरूपताम् ॥३९॥
धृत्वा जायन्त इत्येता जयन्त्योनन्तसंख्यकाः ।
प्राविर्भवामि यत्राऽहं श्रीहरिस्तत्र तत्र वै ॥1.24.४०॥
जयन्ती जायते सार्धं साध्वी मोक्षप्रदायिनी ।।
गौण्यश्चापि जयन्त्यस्तु मयाऽसंख्या नवीकृताः ॥४१॥
तास्तु दास्यः सदा मुख्यजयन्तीभिश्च संगताः ।
सेवनात्पूजनात्तासां व्रताचरणभावनात् ॥४२॥
मोचयन्ति जनान् सर्वान् जीवेशसृष्टिसुस्थितान् ।
तासां वासो मया सार्धं यत्राऽहं तत्र ताः स्थिताः ॥४३॥
ब्रह्मलोके चेशलोके जीवलोकेऽथ वेधसः ।
सत्यलोके जयन्तीनां दिव्या लोकाः स्थिरीकृताः ।।४४॥
जयन्त्यः कोटिशस्तत्र तत्राऽऽवसन्ति सर्वथा ।
यत्रोत्सवो हरेस्तत्र तत्राऽऽगच्छन्ति रूपतः ॥४५॥
साध्वीरूपाः सुरूपाश्चोत्सवरूपास्तथैव ताः ।
अरूपा व्रतरूपास्ता मोक्षदाः सर्वथा मताः ॥४६॥
तस्माजयन्त्यो मम सर्वदैव संसेवनीया निजमुक्तिकामैः ।।
नरैस्तथा स्त्रीभिरदभ्रभावान् मुक्तिः सदा तत्करसंस्थिता स्यात् ।।४७॥
इत्येवं मे जयन्त्यो वै जन्माऽहस्सु समर्चिताः ।
मदर्हणसमा भक्तान् भावयन्ति मदात्मकान् ॥४८॥
शुद्धो वो मलिनो वापि यो भक्तो व्रतमाचरेत् ।
तेन प्रसादयित्वा मां याति मत्पदमव्ययम् ॥४९॥
श्रुत्वा तत्तत्कथां रम्यां दत्वा दानानि भूरिशः ।।
कृत्वा तत्तद्व्रतं शुद्धं पूजयित्वा च तास्ततः ॥1.24.५०॥
कृपातः श्रीहरेस्ते ते सर्वे यान्ति परां गतिम् ।।
विजयन्ते जयन्त्योऽत्र मोक्षदानविधापनात् ॥५१॥
नित्यं गर्जति गायत्री सरस्वती च गर्जति ।
एकादश्यश्च गर्जन्ति गीता गर्जति तावता ॥५२॥
यावन्नैव जयन्त्यो वै गर्जन्ति भुवनत्रये ।।
मुक्तिदानां तथाऽन्यासां गर्जनाऽपि न तावती ॥५३॥
यावती गर्जना कृष्णजयन्त्या मस्तकायते।।
तस्माद्धरेर्जयन्ती वै श्रेष्ठा मुक्तिप्रदापने ॥५४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने एकादशीनां जयन्तीनां च माहात्म्यादिकथननामा चतुर्विंशोऽध्यायः ॥२४॥