लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०२३

विकिस्रोतः तः
← अध्यायः ०२२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३
[[लेखकः :|]]
अध्यायः ०२४ →

श्रीलक्ष्मीरुवाच-
देवदेव जगन्नाथ प्राणप्रेष्ठ महाप्रभो! ।
नारायण! नमस्तेऽस्तु त्वयाऽहं तारिता ध्रुवम् ।। १ ।।
मया तु दृश्यते ब्रह्मन्! भगवान् जयतीति यत् ।
कस्य मन्त्रो भगवता जप्यते परमात्मना ।। २ ।।
त्वां जपन्ति सदा भक्ता नान्यद्वै जापपात्रकम् ।
सर्वैर्जप्यो भवान्देवो सोऽन्यं कं जपतीति मे ।। ३ ।।
चिन्तनं जायते दृष्ट्वा तत्समाधेहि मे प्रिय! ।
नारायणः स्वपत्न्यास्तच्छ्रुत्वा प्राह यथातथम् ।। ४ ।।
श्रीनारायण उवाच-
शृणु देवि! रहस्यं मे सर्वकल्याणकारकम् ।
सर्वकल्याणसत्पात्रमहमेव न संशयः ।। ५ ।।
सर्वजप्योऽहमेवाऽपि तत्राऽप्यस्ति न संशयः ।
तथापि लोकशिक्षार्थं प्रजपामि मनुं मम ।। ६ ।।
वासुदेवमहाविष्णुब्रह्मप्रभतिसृष्टयः ।
सम्यगुत्पादिता यावन्मया तावच्च तैः पुनः ।।७।।
जप्तुं मन्त्रोऽर्थितो मत्तो मया मन्मूर्तितस्ततः ।
मम मूर्तिमयी शक्तिर्मद्देहात्प्रकटीकृता ।। ८ ।।
मत्तोऽन्यूना मत्स्वरूपा मदैश्वर्या मदात्मिका ।
ध्यानादाकर्षिणी दिव्या जपाच्छान्तिप्रदायिनी ।। ९ ।।
रूपतेजोमयी रम्या सर्वसौभाग्यसुन्दरी ।
मोक्षसामर्थ्यसम्पन्ना कन्या द्वादशहायना ।। 1.23.१० ।।
दृष्ट्वा तां मुमुहुः सर्वे मुक्ता ईशास्तथा परे ।
किंकार्यविमूढास्ते वै बभूवुस्तु यदा तदा ।। ११ ।।
मया कन्या स्वयं जप्ता गीतां त्राणार्थमेव सा ।
गायत्री सा समाख्याता मां जेपुश्च सुरेश्वराः ।। १२ ।।
मम मूर्तिं तु गायत्रीं जपन्ति च भजन्ति ये ।
ते स्वकर्मखनिं दग्ध्वा प्राप्नुवन्ति पदं मम ।। १२ ।।
गायत्र्या प्रार्थितं मह्यं मा वै मां नाथ विस्मर ।
सर्वदा भवता रक्ष्या भवेयं सबला ततः ।। १४।।
पापानां पापकर्माणि दग्धुं प्रभ्व्यन्नथा कथम् ।
सामर्थ्यं यदि भवता मह्यं न दीयते हरे! ।। १५।।
ततो मया वरो दत्तस्त्वां स्मरिष्यामि वै सदा ।
ततो मदाज्ञया देवी गायत्री सर्वतो गता ।। १ ६।।
ईशलोकेष्वथ जीवब्रह्माण्डेष्वपि सर्वशः ।
गायत्री कन्यका गुर्वी साध्वी मम तनुप्रभा ।। १७। ।
दृश्या तु दिव्यनयनैरदृश्या जडनेत्रकैः ।
वर्तते जापकानान्तु समुद्धारप्रकारिणी ।। १८ ।।
सुमूर्ता कन्यकारूपा ज्ञानरूपा हृदि स्थिता ।
शब्दात्मिका जपयोग्या त्रिधा तस्या व्यवस्थितिः ।। १९ ।।
ब्रह्मणा तु यदा वेदा मत्सकाशात् समर्थिताः ।
तदा मया तु गायत्र्या विनिष्कास्य तदर्पिताः ।। 1.23.२० ।।
तस्मात्सा वेदमातेति प्रसंख्यातिमुपागता ।
गायत्र्यो बह्व्योऽन्याश्च तस्याः सेवार्थमित्यपि ।। २१ ।।
मया सामर्थ्यलेशाद्वै मत्तन्वा प्रकटीकृताः ।
तास्तु लोकप्रलोकेषु मम भिन्नाभिधानतः ।। २२।।
भिन्नभिन्नानुपूर्व्यात्मप्रभिन्नाऽऽकृतयो मताः ।
ताः सर्वा मुख्यगायत्र्या दास्यो भवन्ति कोटिशः ।। २३ ।।
अप्राप्तयौवनाऽऽवेगाः सुकुमार्योऽक्षताऽऽन्तरा ।
विचरन्ति महासाध्व्यो जापकेभ्यो नु मुक्तिदाः ।। २४।।
ब्रह्मतेजोऽन्विता ब्रह्ममूर्तयो ब्रह्मयोगदाः ।
ब्रह्मात्मिकाः परे सत्ये सुलोके प्रवसन्ति वै ।। २५।।
सर्वज्ञाः सर्ववेत्त्र्यस्ता यत्र लोकाः स्मरन्ति ताः ।
तत्र द्रागभिगम्य स्वान् जापकान् शोधयन्ति ताः ।। २६ ।।
जीवा वा ईश्वरा देवा यक्षा रक्षांसि वा परे ।
पापाः पापप्रसक्ता वा तामसा राजसाश्च ये ।।२७।।
एता उपासते ताँस्ताः स्त्रीर्नरान् मोचयन्त्यघात् ।
रक्षन्ति सहसंयानान्निर्वाणं गमयन्ति च ।। २८।।
इति ते कारणं देवि! जपनस्य समीरितम् ।
त्वां जपामि सदा लक्ष्मी! यथा त्वं जपसीति माम् ।।।२९।।।
अहन्तु भगवान् देवि! भक्तान् जपामि नित्यशः ।
भक्ता जपन्ति मां नित्यं हीत्यन्योन्यं जपामहे ।।1.23.३०।।
अहन्तु जपनं तेषां रक्षणार्थं करोमि हि ।
ते तु मे जपनं देवि! कुर्वन्ति मुक्तलब्धये ।।३ १ ।।
अथ भाषां विना नैव जपो भवति कश्चन ।
तस्माद्वाणी प्रयोक्तव्या सा च वर्णान् विना कथम् ।।।३२।।
ये चेश्वराः समुत्पन्ना न वक्तुं शेकिरे हि ते ।
ज्ञानमौनाः समासँस्ते वाग्व्यवहारवर्जिताः ।।३३।।
ब्रह्मादयोऽपि मौनास्तेऽस्तुवन् श्रीहरिमच्युतम् ।
मौनस्तुतिमिमां ज्ञात्वा वाक्प्रणेता स्वयं हरिः ।।३४।।
स्वजिह्वाग्रप्रदेशाद्वै दिव्यां कन्यां चकार ह ।
सा चोत्पन्ना स्वयं देवं कि मे कार्यं भवेदिति ।।३५।।
जिज्ञासमानां तां देवीं स्वात्मशक्तिमयीं प्रभुः ।
प्रत्याननं प्रसाराख्यां शक्तिं तस्यै प्रदाय च ।।३६।।।
वाक्स्वरूपां कृतवाँस्तां सा वै जाता सरस्वती ।
दिव्यां वीणां समादाय वादयन्ती मुहुर्मुहुः ।।।३७।।
ऐशे जैवे च सर्वत्र लोके लोके जगाम सा ।
व्यक्तौ व्यक्तौ प्रवेशायाऽनन्तरूपाण्यधारयत् ।। २८।।
अनन्तकोट्यस्ता जाता वाङ्मय्यः शारदाः स्त्रियः ।
कन्याः कुमारिकाः संख्यारहिता हरिमूर्तिजाः ३९।।
सर्वास्ता ह्यभवन् दास्यो गायत्रीणां तु सेविकाः ।
मिष्टा मधुरा ऋक्षाश्च स्पष्टाश्च ध्वनयस्तथा ।।1.23.४० ।।
रौद्रा बीभत्सकरुणहास्यक्षुद्रभयानकाः ।
दिव्या अदिव्याः सूक्ष्माश्च स्थूला बह्वर्थसंयुताः ।।४१।।
विविधाकारमापन्नाः सर्वा द्वादशहायनाः ।
अक्षता अस्खलिताश्च सुभगा अर्थसंभृताः ।।।४२।।
सुमूर्ता ज्ञानरूपाश्च वाणीरूपाश्च तास्त्रिधा ।
साध्व्यः शीलव्रतोपेताः सन्त्युपास्यास्तु मुक्तये ।।४३ ।।
मां विना नैव मुक्तिः स्यात् सरस्वत्यो मदात्मिकाः ।
मज्जिह्वाश्च मदैश्वर्यात्मिक्यस्तास्तनवो मम ।।४४।।
सदोपास्याः सदा सेव्याः सदा ध्येयास्तु मुक्तये ।
यावद्वर्णसमाम्नायाः सरस्वत्यात्मकाः कृताः ।।४५।।
यथाऽहं व्यापकश्चास्मि वाणी सा व्यापिका तया ।
शब्दब्रह्मणि निष्णातः परंब्रह्मधिगच्छति ।।।४६।।
ब्रह्मणो मे विमर्शः स्याद् विमर्शाद् बिन्दुरस्ति च ।
बिन्दोर्नादः समुत्पन्नो नादाद्वै ध्वनयः स्मृताः ।।४७।।
ध्वनेरक्षरविन्यासाः स्फोटब्रह्मान्विताः खलु ।
जायन्ते वाङ्महादेव्यः सरस्वत्यो जनेषु ताः ।।४८।।
साधुधर्मान्वितास्ता वै मोक्षयन्त्याश्रितान् स्वकान् ।
प्रापयन्ति परं धाम सेविता ब्रह्मणोऽन्वयात् ।।४९।।
ब्रह्मलोके परे सत्ये दिव्यानि भुवनानि च ।
वनानि भोग्यजातानि वस्त्वानन्त्यानि चैव हि ।।1.23.५० ।।
तासां कृते विधत्तानि ह्यतर्क्यनगराणि च ।
यानवाहनवादित्रभोग्यपेयाऽव्ययानि च ।।।५१।।
न ततः सुन्दर किञ्चित् तल्लोके भवतीति मे ।
वासः सरस्वतीमध्ये समबोध्यस्त्वया प्रिये! ।।५२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गायत्रीसरस्वतीनिरूपणनामा त्रयोविंशोऽध्यायः ।। २३ ।।