लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०२२

विकिस्रोतः तः
← अध्यायः ०२१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२
[[लेखकः :|]]
अध्यायः ०२३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तथा चान्याः पराविद्याः सुमोक्षदाः ।
असंख्याता महासत्यः साध्व्यो द्वादशवत्सराः ।। १ ।।
निर्वाणदाः पराविद्या याभिर्ब्रह्माऽधिगम्यते ।
ता विद्याश्च हरिणा स्वनेत्राभ्यां प्रकटीकृताः ।। २ ।।
दिव्या मूर्ताः सुप्रकाशाः प्रोज्ज्वलाः सुकुमारिकाः ।
ज्ञानानन्दभृताः साध्व्यो ब्रह्मप्राप्तिविधापनाः ।। ३ । ।
सुभगाः शुभ्रवर्णाश्च सुलावण्यधराः प्रभाः ।
यौवनोद्भेदरहिताऽवयवाऽऽपूरसंभृताः ।। ४ ।।
चमत्कृतिकराः सौम्याः शान्ताः सात्त्विकमूर्तयः ।
रूपाऽनुरूपसौन्दर्याऽऽनखस्वर्णजटाधराः ।। ५ ।।
गूढस्तन्यो मृदुमध्याः सुगन्धपूरणाऽङ्गिकाः ।
अनिमेषा मन्दहास्याः शमशान्ता अविक्रियाः ।। ६ ।।
नित्यसार्वज्ञ्यसंप्राप्ताः सत्यसंकल्पमानसाः ।
अविद्यानाशिका आकर्षणसामर्थ्यसंभृताः ।। ७ ।।
बोधयन्त्यो जनान्सर्वान्नाशयन्त्यान्तरं तमः ।
प्रापयन्त्योऽक्षरं धाम विजयन्तेऽमृतप्रदाः ।। ८ ।।
प्रसादयन्त्यः खलु जीवतत्त्वं
निभालयन्त्यः परमात्मरूपम् ।
विवाहयन्त्यः शरणागतान्स्वान्
विमोक्षयन्त्यो विजयन्त्यभीक्ष्णम् ।। ९ ।।
संश्रावयन्त्यः सुखरूपतां स्वकां
विभावयन्त्यो बृहदात्मरूपताम् ।
सुपाययन्त्योहरिमिष्टसुद्रवान्
सुयोजयन्त्योहरिमूर्तिलीनताम् ।। 1.22.१० ।।
प्रावेशयन्त्यो हरिकृष्णरूपतां
प्रकाशयन्त्योऽन्तरधीप्रदीपकान् ।
प्रमार्जयन्त्योऽणुरजस्कजालकान्
सुप्रापयन्त्योऽक्षरधामलोकताम् ।। ११ ।।
विरामयन्त्योऽक्षरतेजसा समं
सुतर्पयन्त्यो हरिकृष्णसद्रसैः ।
आपादयन्त्यो हरिकृष्णसद्रतिं
प्रारोहयन्त्यो भगवत्परां गतिम् ।। १ २।।
अक्षिविद्या मधुविद्याः पञ्चाग्निदहरादिकाः ।
उद्गीथादिमहाविद्याः या या हरौ समासते ।। १३ ।।
ताः सर्वाः कन्यकाः साध्व्यो भूत्वा ब्रह्माण्डकोटिषु ।
विचरन्त्यो नरान् नारीर्मुक्तिं वै प्रापयन्त्यरम् ।। १४।।
ता उपास्या ब्रह्मवत् संसेव्याश्च ब्रह्मवत् सदा ।
ध्येयाश्च ब्रह्मवन्नित्यं प्राप्या ब्रह्मप्रियाश्च ताः ।। १५।।
तासां तु ब्रह्मविद्यानां सेविकाः सन्ति कोटिशः ।
ता वै ब्रह्मप्रियाः प्रोक्ता अक्षरब्रह्मणि स्थिताः ।। १ ६।।
सर्वा ब्रह्मप्रिया ब्रह्मरूपिण्यो ब्रह्मविग्रहाः ।
ब्रह्मात्मिका ब्रह्मतन्व्यो ब्रह्मतादात्म्यसंगताः ।। १ ७।।
मुक्त्यर्थमीशलोकेषु जीवलोकेषु चाऽप्यथ ।
साध्व्यः साधुस्वरूपा वै विचरन्त्यामहालयम् ।। १८।।
तासां दास्यश्च सख्यश्च दासीदास्यस्तथाऽपराः ।
सेविका अक्षताः सर्वा कोटिशः सन्ति मुक्तिदाः ।। १ ९।।
सेवनात्स्मृद्धिदाश्चैता आश्रयाच्छ्रेयसाम्प्रदाः ।
तस्मात् सेव्या ध्रुवं साध्व्यो ब्रह्मचारिण्य आन्तरात् ।।।1.22.२० ।।
ब्रह्मणा प्रार्थिताद्देवाच्छ्रीहरेर्नेत्रनैमिषात् ।
प्रादुर्भूता ब्रह्मप्रियाः सख्यः कोट्यर्बुदानि च ।।।२ १ ।।
दास्यः सर्वाश्च ताः प्रोक्ता महाविद्याप्रसेविकाः ।
पूज्या मान्याः सेवितव्या मोक्षार्थं प्रमदाजनैः ।।।२२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-सन्ताने पराविद्यात्मकसाध्वीनां ब्रह्मप्रियात्मकतद्दासीनां च माहात्म्यकथननामा द्वाविंशोऽध्यायः ।।२२।।