लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०२१

विकिस्रोतः तः
← अध्यायः ०२० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१
[[लेखकः :|]]
अध्यायः ०२२ →

श्रीलक्ष्मीरुवाच-
गीताभ्यस्तु व्यतिरिक्ताः सन्ति साध्व्योऽपरा न वा? ।
लोककल्याणकाराय ब्रूहि देव जगद्गुरो! ।। १ ।।
श्रीनारायण उवाच-
गीताभ्यः खलु साध्वीभ्योऽप्यतिश्रेष्ठा अतिप्रियाः ।
उपनिषदः साध्व्यः सन्त्याश्रयेण प्रमुक्तिदाः ।। २ ।।
यासां संसेवनान्मूर्तौ हरेर्लीना भवन्त्यरम् ।
ब्रह्मरूपप्रदा ब्रह्माऽभिन्नताप्रापिकाश्च ताः ।। ३ ।।
अक्षरब्रह्मधामस्थश्रीहरिणा स्वयं पुनः ।
स्वात्मतत्त्वपरानन्दरसरूपाद् विभाविताः ।। ४ ।।
मुक्तान्यो ब्रह्मसाधर्म्यावच्छिन्ना दिव्यमूर्तयः ।
हिरण्यकेशा हिरण्यभ्रूकुटिनेत्रगोलकाः ।। ५ ।।
कुन्ददत्यः स्थलपद्मच्छदरक्तोष्ठकान्तयः ।
रक्तोत्पलान्तरराजद्गण्डोत्तमकपोलकाः ।। ६ ।।
स्वर्णवर्णाननकान्तिसौम्यहास्यमनोहराः ।
स्वल्पजंबीरसंस्थानस्तनवक्षःसुशोभनाः ।। ७ ।।
वरदानाऽभयदानान्वितरक्तसुहस्तकाः ।
सूक्ष्मकट्यः स्वल्पमध्याः शुण्ढसक्थ्न्यः सुपत्कजाः ।। ८ ।।
नित्यं ता ब्रह्मचारिण्यो विवाहवर्जिताऽक्षताः ।
उपनिषत्समाख्याता ज्ञानवारिधयोऽव्ययाः ।। ९ ।।
ईश्वराश्च तथा जीवा ये के चाध्यात्मसंचराः ।
मुक्तिं यान्ति परां ब्राह्मीमुपनिषत्समाश्रयात् ।। 1.21.१० ।।
अप्राप्तयौवनोद्भेदा ब्रह्मचारिण्य आत्मदाः ।
साध्वीरूपैस्तु लोकेषु विचरन्ति दयालयाः ।। ११ ।।
असंख्याः सन्ति ताः साध्वीरूपा ज्ञानात्मिकास्तथा ।
ज्ञात्वा ताः शरणापन्ना नार्यो यान्ति परां गतिम् ।। १२ ।।
ईश्वरिण्यश्च देवान्यो मानव्यस्तलजाश्च याः ।
अपि भ्रष्टाश्च पापाश्च मुक्तिं यान्ति तदाश्रयात् ।। १३ ।।
स्मृतमात्राद्ब्रह्मलोकं प्रापयन्ति महाबलाः ।
सर्वा उपनिषत्साध्व्यः श्रयणीया मुमुक्षुभिः ।। १४।।
आत्मज्ञानप्रदानेन ब्रह्ममन्त्रार्पणेन च ।
शरणागतिदानेन तारयन्त्यात्मनोऽनिशम् ।। १५ ।।
तृष्णाक्षयविधानेन वासनाविलयेन च ।
आत्मतृप्तिप्रदानेन तारयन्त्यात्मनोऽनिशम् ।। १६ ।।
कर्माशयविनाशेन हेतूनां दहनेन च ।
तमोविध्वंसनेनैव तारयन्त्यात्मनोऽनिशम् ।। १७।।
स्वात्माऽपरोक्षलाभेन ब्रह्मात्मयोजनेन च ।
ब्रह्मत्वाऽऽपादनेनैव तारयन्त्यात्मनोऽनिशम् ।। १८ ।।
नित्यानन्दविधानेन नित्यतृप्त्याहितेन च ।
सर्वपूर्णरसाप्त्या वै सुखयन्त्यात्मनोऽनिशम् ।। १ ९।।
सर्वज्ञत्वप्रदानेन पूर्णकामभवेन च ।
सर्वात्मत्वप्रकाशेन ह्लादयन्त्यात्मनोऽनिशम् ।। 1.21.२० ।।
हरेः सालोक्यटानेन सर्ष्टिरापादनेन च ।
सारूप्यासादनेनैवाऽऽनन्दयन्त्यात्मनोऽनिशम् ।। २१ ।।
सायुज्यसंग्रहेणैवाऽप्येकत्वापादनेन च ।।
ब्रह्मामृतत्वलाभेनाऽऽस्वादयन्त्यात्मनोऽनिशम् ।। २२।।
यावद्ब्रह्मात्मबोधेन ब्रह्मदृष्ट्यागमेन च ।
अपरोक्षानुभूत्या च मोक्षयन्त्यात्मनोऽनिशम् ।। २३ ।।
साध्व्यः परोपकरणशीला मुक्तिप्रदाश्च ताः ।
सर्वथा च मया सेव्यास्त्वया चापि मुहुर्मुहुः ।। २४।।
मुक्ता वै सर्वधामस्था ईश्वरा ईशसृष्टयः ।
जीवा जीवाण्डमध्यस्था सन्त्युपनिषदाश्रिताः ।। २५।।
तथोपनिषदा दास्यः कुमार्यो ब्रह्मसंभवाः ।
श्रुतयो विविधाकाराः साध्व्यो दिव्या असंख्यकाः ।। २६।।
परब्रह्मस्तवकर्यः परब्रह्मनिरूपिकाः ।
परब्रह्मार्थसर्वस्वाः परब्रह्माप्तिसंप्रदाः ।। २७।।
सर्वा दिव्याः सुरूपाश्च ह्युपनिषत्समप्रभाः ।
सर्वा द्वादशवार्षिक्यः सर्वसृष्टिसुसंचराः ।। २८ ।।
श्रीहरेर्दिव्यरूपस्य प्रत्येकांऽगसमुद्भवाः ।
अपाराः श्रुतयो देव्यो धारणान्मुक्तिदा मताः ।। २९ ।।
नैकार्था नैकरूपास्ताः साकाराऽऽकारवर्जिताः ।
हिरण्यवर्णा हरिण्यः स्वर्णकनककान्तयः ।। 1.21.३० ।।
श्वेतपाण्डुररक्ताश्च कमलच्छदकोमलाः ।
पेशलाः पापनाशिन्यः श्रयणाच्छ्रवणात्तथा ।। ३१ ।।
गीतास्तथोपनिषदः श्रुतयश्चाऽक्षरे परे ।
धाम्नि स्वीयकृताऽऽवासा मुक्तरूपाः सदा तु ताः ।। ३ २।।
अथापि वेधसा चात्र प्रार्थिता धामतः खलु ।
समागत्य परे सत्ये लोके वसन्ति नित्यशः ।। ३३ ।।
तासां सृष्टिरनन्ता वै ह्यसंख्या भवनादयः ।
अमूल्याः स्मृद्धयस्तासां परमेष्ठिसमूर्ध्धयः ।। ३४।।
सदा दिव्याः सदा कन्याः कुमार्यश्च सदा हि ताः ।
ध्येयाः पूज्या विचिन्त्याश्च सेव्या देव्योऽन्वहं च ताः ।। ३५।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने उपनिषच्छ्रुत्यात्मकसाध्वीमाहात्म्यकथननामा एकविंशोऽध्यायः ।। २ १ ।।