लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११
[[लेखकः :|]]
अध्यायः ०१२ →

श्रीनारायण उवाच-
लीनमर्थं यतो गच्छेत्ततो लिंगमुदीरितम् ।
लीनो ब्रह्मपरः श्रीमान् पुरुषोत्तमकेशवः ।। १ ।।
तं वै गमयते तस्य तेजोमण्डलमात्रकम् ।
तद्वै तेजो भवेल्लिंगं बाणं चेति प्रकीर्तितम् ।। २ ।।
तेजस्तेजस्विनोस्तत्राऽभेदात्तेजो हरिः स्वयम् ।
तस्माच्छिवस्तथा लिङ्गं परब्रह्मेति वैदिकाः ।। ३ ।।
वदन्त्यपुनरावृत्तिप्रदः स्वेच्छाऽऽत्तविग्रहः ।
शिवः प्रोवाच नम्रं तं विधिं मा भैष्ट चाऽग्रज ।। ४ ।।
शिरश्छेदाद्वरं मन्ये महतामवमाननम् ।
मानहानिर्महाभंगो महतां मरणं मतम् ।। ५ ।।
शिरश्छेदसमं दण्डं दास्ये त्वां कल्मषापहम् ।
ब्रह्मँस्त्वं पूज्यताकांक्षी कितवत्वं समग्रहीः ।। ६ ।।
ततो लोके न वै ते स्यादिष्टदेवोत्सवादिकम् ।
इष्टदेवतया त्वं वै पूज्यो नैव भविष्यसि ।। ७ ।।
किन्तु यज्ञेषु गृह्येषु भवत्स्थानं भविष्यति ।
सर्वांगदक्षिणो यज्ञस्त्वदृते निष्फलो भवेत् ।। ८ ।।
अतो दैवबलिप्राप्तौ यज्ञे भागस्तवाऽस्त्विति ।
पितामहं हि सर्वेषां मान्यस्थानस्थितं त्वयि ।। ९ ।।
त्वंकारेण व्यवहरिष्यन्ति त्वां तु जना विधे ।
अथाह भगवान् देवः केतकं कूटसाक्षिणम् ।। 1.11.१ ० ।।
मत्पूजायामनर्हस्त्वं भविष्यसि न संशयः ।
नापि देवाः स्वपूजायां त्वां ग्रहीष्यन्ति केचन ।। ११ ।।
इति श्रुत्वा महादेवं केतकः समतोषयत् ।
देवदेव महादेव नमस्तेऽखिलनायक ।। १२ ।।
प्रसादं कुरु देवेश क्षमस्व किल्बिषं मम ।
विधेहि सफलं नाथ जन्म मे ते नमो नमः ।। १२ ।।
प्राह शंभुस्तदा तं तु करुणालय ईश्वरः ।
मद्गणास्त्वां धरिष्यन्ति जन्म ते सफलं भवेत् ।। १४।।
मदालये विताने ते स्थानं दास्यामि शं लभ ।
इत्यादिश्य महादेवो यावद्विरमते स्वयम् ।। १५ ।।
तावज्ज्योतिर्मयं लिंगं शनैः संकोचतां गतम् ।
स्वल्पं भूवाऽऽविशत् तत्र सदाशिवतनौ स्फुटम् ।। १६ ।।
तदा तु वेधसा चैव विष्णुना च सदाशिवः ।
साकारः पूजितो देवः परब्रह्मस्वरूपकः ।। १७। ।
ब्रह्माकृतिमयं लिङ्गः निराकारस्वरूपकम् ।
परब्रह्मप्रतीकाख्यं ताभ्यां तत्र प्रपूजितम् ।। १८ ।।
स्थापितं चापि तत्रैव यत्र चेश्वरसृष्टयः ।
तमादिकालमारभ्यः लिङ्गपूजा प्रवर्तिता ।। १ ९।।
ब्रह्मविष्णूभयाभ्यां वै विष्णुपूजा तु वेधसा ।
शिवपूजाऽप्युभाभ्यां वै तदानीमेवमास्थिता ।। 1.11.२० ।।
असद्वाग्वेधसः पूजा न केनाऽप्यादृता यतः ।
विष्णुशिवौ प्रपूज्येते न वेधास्तु कदाचन ।। २१ ।।
तत्र स्थितैस्तदेशैर्वै शिवविष्णू प्रपूजितौ ।
भविष्यत्सृष्टिलाभाय पूजनं तत्प्रवर्तितम् ।। २२।।
अथ ज्योतिर्मयं लिङ्गं यदा चाऽदृश्यता गतम् ।
तावज्जिज्ञासितं मूलं पुंरूपं समदृश्यत ।। २३ ।।
द्विभुजं सच्चिदानन्दं परब्रह्माख्यमेव यत् ।
तत्तेजःपरिधिप्रेर्य-लिंगाख्यकिरणात्तु वै ।। २४। ।
प्रकृतिपुरुषस्तस्मात्प्रधानपुरुषस्ततः ।
महाविष्णुस्ततः साक्षाद्वैराजपुरुषः पिता ।। २५।
दृष्टो देवत्रयेणापि त्रयो यत्र समासते ।
नाभौ ब्रह्मा हृदि विष्णुर्ललाटे शंकरः स्वयम् ।। २६।।
स्वं स्वं व्यलोकयन्पश्चाद् भ्रातरश्चेति मेनिरे ।
प्रसम्मील्य परिष्वज्य त्रयो देवास्तमीडिरे ।। २७।।
नमोऽद्भुतस्वरूपाय जनकाय नमो नमः ।
स्वेच्छया चातिदूराय कृपयाऽन्तिकवर्तिने ।। २८ ।।
नारायणाय वैराजपूरुषाय नमो नमः ।
वयं त्रयो भवत्पुत्रा भवदाज्ञावहा यतः ।। २९।।
शाधि तातेतिकर्तव्यं करिष्यामो न संशयः ।
वैराजेन तदा काय सृष्टिकार्ये समर्पितम् ।। 1.11.३० ।।
विष्णवे सृष्टिपुष्ट्याख्यं शिवाय प्रलयस्त्विति ।
तदालोक्य तदानीं वै समस्तेश्वरकोटिभिः ।। ३१ ।।
अभिषिक्तास्तथा तेऽपि तत्तद्धिष्ण्येष्ववस्थिताः!
किरीटहारनुपूरकेयूरमणिकुण्डलः ।। ३२ ।।
क्षौममाल्योत्तरीयस्रग्यज्ञसूत्रांगुलीयकैः ।
पुष्पताम्बूलकर्पूरचन्दनात्तरभूषणैः ।। ३३ ।।
धूपकुंकुमदीपाच्छच्छत्रव्यञ्जनचामरैः ।
राजाधिराजसच्चिह्नध्वजदिव्योपहारकैः ।। ३४।।
दिव्यैस्तत्तद्व्यक्तियोग्यैर्वाङ्मनोऽतीतवैभवैः ।
पूजितास्ते त्रयो देवाः सर्वैः सम्यक् सभाजिताः ।। ३ ५ ।।
विष्णोस्तु वैष्णवी लक्ष्मीः शंकरस्य तु शांकरी ।
ब्रह्माणी ब्रह्मणश्चैवोत्पन्ना तेषां तु वामतः ।। ३६ ।।
विष्णुब्रह्ममहेशानां स्वपत्नीसहितात्मनाम् ।
निवासा ईशलोकेषु वैराजेनापि कल्पिताः ।। ३७।।
विष्णोर्वैकुण्ठमन्यत्तत्, कैलासोऽन्यो हरस्य सः ।
वेधसः सत्यधामाऽन्यत्, स्वस्वधाम्नि गताश्च ते ।। ३८ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने परमेष्ठिकेतकयोरपूज्यताशिक्षाकरणलिङ्गमूलदर्शनादिनामा एकादशोऽध्यायः ।। ११ ।।