सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०१२

विकिस्रोतः तः
← अध्यायः ०११ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२
[[लेखकः :|]]
अध्यायः ०१३ →

श्रीनारायण उवाच-
शृणु पद्मे प्रवक्ष्यामि ब्रह्माऽण्डानि यथाऽकरोत् ।
चतुर्विशतितत्त्वात्मवैराजतनुमध्यतः ।। १ ।।
ब्रह्मा कराञ्जली पिण्डं गृहीत्वैकं च तं पुनः ।
मर्दयित्वाऽसंख्यभागानणुरूपानकल्पयत ।। २।।
ताँश्च हस्ततले धृत्वा फुत्कारेणोदडीडयत् ।
सत्त्वात्मकमहाकाशे समन्तादुड्डितास्तु ते ।।।३ ।।
अण्डस्वरूपगोलात्मब्रह्माण्डान्यभवन् प्रिये ।
तदानीं ब्रह्मणा तत्र संकल्पा बहवः कृता ।।४।।
'महाम्बरे प्रतिष्ठन्तु सर्वेऽसंख्याऽणवः पृथक् ।
परस्परं सदा तत्राऽघट्टयन्तः स्थिराः इति ।।५।।
सर्वे तथैव वर्तन्ते परस्परमनाहताः ।
'अथ प्रत्येकमध्येऽस्तु महाकाशोऽवकाशदः, ।। ६।।
इति संकल्पमात्रेण मध्याकाशास्तदाऽभवन् ।
तत्र चनुर्दशाद्याश्च भूमिकाः संभवन्त्विति ।।७।।
तादृक्संकल्पमात्रेण चतुर्दशादिभूमिकाः ।
प्रत्येकाऽण्डे नु जाता सन्तमोव्याप्ता हि सर्वशः ।।८ ।।
तेषु प्रवेशनार्थाय ब्रह्मविष्णुमहेश्वराः ।
योगशक्त्याऽसंख्यसूक्ष्मस्वस्वरूपाण्यधारयन् ।। ९ ।।
तत्तण्डे तत्र तत्र देवाः प्रविविशुस्त्रयः ।
तत्राऽऽलोक्य तमस्तीव्रं वेधाः संकल्पमाचरत् ।। 1.12.१ ० ।।
सर्वेष्वत्र प्रबिलेषु तेजोद्रव्याणि सन्त्विति ।
तदा सर्वपरे लोके सत्यदीपः प्रकाशितः ।। ११ ।।
सत्यसंयमजो दीपो यतस्तत्र प्रकाशते ।
अतस्तद्भूमिकायास्तु सत्यलोक इति प्रथा । । १ २ ।।
ततोऽधोभूमिकायान्तु तपसश्च प्रकाशनात् ।
ततोलोकइतिख्यातिर्ब्रह्मणा परिकल्पिता । । १ ३।।
ततोऽप्यधस्तरे पितृजनानां पुण्ययोगतः ।
प्रकाशः समभूत्तस्माज्जनलोकाऽभिधा कृता ।। १४। ।
ततोऽधो भूमिकायां वै महर्दीपः प्रकाशितः ।
पितृदेहोत्थसत्तेजो महश्चेत्यभिनिश्चितम् ।। १५ ।।
महःप्रदीपयोगाद्वै महर्लोकाभिधा कृता ।
ततोऽधस्तात्तथा लोके सूर्यप्रदीपसंगमात् ।। १६ ।।
स्वर्गलोकस्तथा ताराद्योतनाद द्यौरिति प्रथा ।
ततोऽधस्तादन्तराले नक्षत्रेक्षणदीपनात् ।। १७।।
अन्तरीक्षमिति ख्यातिर्भुवर्भूविवराढपि ।
अतोऽधस्ताद्भूमिकायां पृथोरग्नेः प्रकाशनात् ।। १८ ।।
अग्निनामा पृथिवीति भूरिति भ्राजनादपि ।
ततोऽधस्तात्तलाना तु सप्तानां सप्त दीपकाः ।। १९ ।।
मणयः मणि दिव्यार्थास्तत्तदाद्यक्षरादियुक् ।
तत्तन्नाम कृतं सम्यक् तत्तन्नामानि मे शृणु ।। 1.12.२० ।।
ओषधयस्त्वधोलोके प्रकाशन्तेऽतलं ततः ।
वैदूर्यमणितेजस्त्वाद् वितलं तदधः स्मृतम् ।। २ १ ।।
कौस्तुभस्तोमकान्त्या च सुतलं तदधो मतम् ।
फणातालुमणिदीपात् तलातलमितीरितम् ।।२२ ।।
मारकतमणीनां तु प्रकाशात्तन्महातलम् ।
रत्नानां तु विभिन्नानां प्रकाशात्तद् रसातलम् ।। २३ ।।
पुष्पराजमणीनां च प्रकाशात् पत्तलस्थितेः ।
पातालमिति तत्संज्ञा कृता वै ब्रह्मणा स्वयम् ।। २४।।
महर्जनतपसत्यप्रस्तराः पुण्यतत्त्वजाः ।
स्वर्गे तेजस्स्तरो वायोः स्तरो भुवरितीरितः ।। २५ ।।
पृथिव्यास्तु कृता भूश्चाऽतलाद्यास्तु तमस्स्तराः ।
इत्येवं तत्स्तराणां वै क्लृप्तनं ब्रह्मणा कृतम् ।। २६।।
तेष्वपि पार्थिवा भागा दार्ढ्यार्थं स्वल्पमात्रकाः ।
क्वचित्तेजोमया भागा धातवः स्तरमिश्रिताः ।। २७।।
क्वचिज्जलीयभागाश्च सुदृढास्तामसा अपि ।
स्तराः प्रजासमाधारा विवराख्या भवन्ति हि ।। २८ ।।
अथ ब्रह्मा स्तराधारं स्तंभं मध्येऽप्यकल्पयत् ।
सौवर्णः स तु पातालादासत्यं सुव्यवस्थितः ।। २९।।
सत्यलोके स्वकं धाम ब्रह्मा वै समकल्पयत् ।
मध्यलोके तु कैलासं शंभुः स्वं समकल्पयत् ।। 1.12.३० ।।
विष्णुस्तु शेषशायी स्वं पातालाऽधो जले स्वकम् ।
क्षीरे तु सागरे वासं स्वयोग्यं समकल्पयत् ।। ३१ ।।
योगिनां दर्शनार्थं वै नारदादि महात्मनाम् ।
देवानां चापि सिद्धानां गतिर्यत्र भवत्यपि ।। ३२ ।।
ऋषीणां च गतिर्यत्र रुचिरं धाम तन्मतम् ।
अन्येषां दिव्यदेहानां यत्र वै सुगतिर्भवेत् ।। ३३ ।।
द्वितीयं तादृशं श्वेतद्वीपाख्यं समरोचयत् ।
क्षीराब्धेश्चोत्तरे भागे दिव्यो द्वीपः स वै स्मृतः ।। ३४।।
ततश्चापि तृतीयं स्वं मानवैर्गम्यमर्थदम् ।
भूमौ हिमगिरेः शृंगे बद्रिकाश्रमनामकम् ।।३५।।
नरनारायणमूर्त्या तपस्तपति तत्र सः ।
लोकक्षेमकरा देवा ब्रह्मविष्णुमहेश्वराः ।।३६ ।।
प्रयतन्ते सदैवं ते रक्षार्थं तत्स्थिता यतः ।
तेषां धामानि चाऽण्डेऽत्र भौतिकान्यवराणि च ।।३७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽसंख्यब्रह्माण्डोत्पत्तिस्तर-व्यवस्थात्रिदेववासादिनिरूपणनामा द्वादशोऽध्यायः ।। १२।।