लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०
[[लेखकः :|]]
अध्यायः ०११ →

श्रीनारायण उवाच-
अहौ तेजोमयं बिम्बं स्तंभाकारं किमुत्थितम् ।
अस्योर्ध्वं च तथाऽधस्ताद् ब्रह्मतेजोमयं न्विदम् ।। १ ।।
इतितर्कयतोस्तत्र पश्यतोश्च क्षणान्तरे ।
तयोस्तु देवयोर्युद्ध्यद् ब्रह्मास्त्रे द्वे लयं गते ।। २ ।।
स्तंभतेजसि लीनत्वादस्त्रयोर्ब्रह्मरूपिणोः ।
द्वयोर्मध्ये महान् कः स्यादित्यनिर्णयतः पुनः ।। ३ ।।
ब्रह्मास्त्रग्राससामर्थ्याश्रयस्याऽस्य तु यो द्वयोः ।
अधःप्रान्तं परं प्रान्तं नयेत् सोऽस्तु महानिति ।। ४ ।।
एवं संकेतमास्थाय मिलितौ वीरमानिनौ ।
प्रतस्थातेऽथ कार्यन्तु द्वयोरेकं न संभवेत् ।। ५ ।।
विचार्येति हरिर्विष्णुः गारुडं रूपमाप्तवान् ।
ब्रह्मा हंसतनुर्भूत्वा तदन्तं वीक्षितुं गतः ।। ६ ।।
विष्णुर्वर्षशतं दिव्यं दूराद् दूरतरं गतः ।
नाऽपश्यत्तु यदा तस्य स्तंभस्य मूलमित्यतः ।। ७ ।।
अतिश्रान्तश्च निर्विण्णः प्राप पूर्वं रणाजिरम् ।
ब्रह्मा वर्षशतं दिव्यमूर्ध्वादूर्ध्वतरं गतः ।। ८ ।।
अगत्वाऽन्तं क्षणं स्थित्वा चिन्तामग्नो ह्यजायत ।
तदानीमेव समये ज्योतिरूपः परः प्रभुः ।। ९ ।।
व्यचिन्तयदहो देवौ कीदृशौ बालवन्मतौ ।
अनन्तस्याऽप्रमेयस्य मे मानं कर्तुमुद्यतौ ।। 1.10.१० ।।
नैकस्याऽपि गभस्तेर्मे प्रान्तं प्राप्तुमपि स्वयम् ।
वासुदेवोऽपि संशक्तः का वार्ताऽन्येशमानिनाम् ।। ११ ।।
परिहासं विधायेत्थं शिरःकम्पं चकार ह ।
तावज्ज्योतिश्शिरोभागात्पुष्पं वै पतितं शुभम् ।। १२।।
केतक्याः सौरभं पुष्पं दिव्ययुगशतच्युतम् ।
ब्रह्मा ददर्श तत्पुष्पं पतमानं तदग्रतः । । १३ । ।
पप्रच्छ च विधिः किं त्वं कस्मात्पतसि पुष्पराट् ।
श्रुत्वा प्राह विधिं पुष्पं धृतोऽहं परमात्मना ।। १४ ।।
स्वेन ज्योतिःस्वरूपेण मूर्ध्नि तस्मात्पताम्यहम् ।
व्यतीतं मे युगशतं पततस्तस्य मूर्धतः ।। १५ ।।
तथाऽप्यल्पप्रमाणो वै मार्गः प्रोल्लंघितो मया ।
न पश्यामि गभस्तेस्तु कदा प्रान्तो भविष्यति ।। १ ६। ।
तस्मात्त्वमपि जह्याशामनन्तस्याऽन्तदर्शने ।
परावृत्य तदा ब्रह्मा केतक्या सह मन्त्रणाम् ।। १७।।
कृतवान् यत् सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ।
विष्णोस्तु सन्निधौ वाच्यं त्वयैतद्वै मया सह ।। १८।।
धात्रा दृष्टो ज्योतिषोऽन्तस्तत्र साक्ष्यहमच्युत ।
इतिकृत्वा केतकं तु ब्रह्मा ननाम वै मुहुः । । १९ । ।
असत्यमपि शस्तं स्यादापत्काले हि शासनात् ।
ब्रह्मपुष्पे समायाते यत्राऽभूद्वै रणांगणम् ।। 1.10.२० ।।
ब्रह्मा समीक्ष्य विष्णुं च जयहीनं ननर्त ह ।
उवाच कपटी षण्ढः सत्याधारं तु केशवम् ।। २१ । ।
ज्योतिःस्वरूपस्य परं तु चान्तं
दृष्ट्वा नु देवाऽत्र समागतोऽहम् ।
अथाऽत्र साक्षी खलु केतकोऽयं
पप्रच्छविष्णो! नु महानहं हि ।। २२ ।।
कूटसाक्ष्ये कृतं तद्वै केतकेन मृषापि सन् ।
'ब्रह्मा चान्तं जगामे'ति विष्णुः सत्यममन्यत ।। २३ ।।
नमस्कृत्वा वेधसे च मत्वा स्वस्य शिरोमणिम् ।
षोडशैरुपचारैश्च पूजयामास वेधसम् ।। २४।।
ब्रह्मणा तु प्रसह्याप्तं महत्त्वं कूटसाक्षिणा ।
ब्रह्मकेतकयोस्तत्र दण्डं कर्तुं महाप्रभुः ।। २५।।
परब्रह्म स्वयं कृष्णः स्वज्योतीरूपमध्यतः ।
प्रादुर्बभूव साकारः स सदाशिवरूपधृक् ।। २६ ।।
संकर्षणांश इत्युक्तो लयकृत्स सदाशिवः ।
परब्रह्मस्वरूपस्य संकर्षणमहात्मनः ।। २७।।
शिरसः किरणं चैकं ज्योतिःस्तंभोऽभवत् खलु ।
तस्य बाणस्वरूपत्वं लिंगरूपत्वमित्यपि ।।२८।।।
ब्रह्मतेजःस्वरूपत्वमर्चिमार्गत्वमित्यपि ।
सुषुम्णातेजसो राशिर्ब्रह्म चापि निराकृति ।। २९।।
अनाकारं शंभुतत्त्वं कीर्त्यते बहुनामभिः ।
परब्रह्मललाटोत्थकिरणान्तरतो जनेः ।।।1.10.३ ०।।
ललाटाच्छिवसंभूतिरिति वेदः प्रवक्त्यपि ।
साकारं सच्चिदानन्दं शिवं दृष्ट्वा तु पद्मजः ।।।३ १ ।।
सकम्पः प्रांजलिर्भूत्वा परिगृह्य च तत्पदम् ।
सत्रिशूलं शिवं प्राह क्षमस्व परमेश्वर ।।३२।।।
मम कल्मषनाशाय भवान् दण्डधरः प्रभुः ।
प्रादुर्भूतो महादेव प्रसीद करुणाकर ।। ३३।।
शाधि मां मोहमापन्नं मृषा गौरवमाश्रितम् ।
शरण्य शरणायातं त्राहि मां भ्रातरं तव ।।३४।।
मोहबुद्ध्या मया तत्र कृतं विष्णोरमाननम् ।
विष्णुरस्ति परब्रह्म महान् मान्योऽस्ति मे सदा ।। ३५।।
तस्मात् क्षमस्व देवेशाऽनृतं मां दण्डमावह ।
परब्रह्मस्वरूपत्वं परब्रह्मात्मको हरिः ।।३६।।
द्वयोर्भेदं न कुर्वीत भेदद्रष्टा पतत्यधः ।
अजानता मया चेदृङ्महिमा श्रीजनार्दनः ।।३७।।
अतीवाऽवमतश्चाऽप्यनृतं प्रोक्तं तथा पुनः ।
अतस्तद्दोषपात्रत्वाद् दण्ड्योऽहं भगवँस्त्वया।। ३८।।
शिरश्छिन्ध्यनृतं छिन्धि छिन्धि वा कल्मषं मम ।
भेददृष्टिं च मे छिन्धि यथेष्टं कुरु शंकर ।। ३९।।
त्वं विष्णुस्त्वं परेशानस्त्वं देवः परमेश्वरः ।
त्वं ज्योतिस्त्वं निराकारो व्यापको ब्रह्म इत्यपि ।।1.10.४०।।
त्वं साकारः परब्रह्म ज्योतिषो मूलमेव च ।
तव ब्रह्मन्मुखतेजःपरिधेः किरणं तु यत् ।।४१ ।।
अनन्तपारं सन्दृष्टं तस्य ते महिमा महान् ।
शान्तिं देहि क्षमां देहि त्राहि त्वच्छरणागतम् ।।४२।।
प्रार्थयित्वेत्थमीशेशं ब्रह्मज्योतिःस्थमच्युतम् ।
परब्रह्माकृतिं देवं महादेवं सदाशिवम् ।।४३ ।।
नमस्कृत्य पुनर्नत्वा मुहुर्नत्वाऽपतत् पदे ।
तूष्णीमास यदा ब्रह्मा तमुत्थाप्याऽब्रवीच्छिवः ।।४४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तेजोमयब्रह्मलिंगाविर्भावपूर्वकशंकरप्राविर्भाववर्णननामा दशमोऽध्यायः ।। १ ०।।