लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५
[[लेखकः :|]]
अध्यायः ००६ →

श्रीनारायण उवाच-
वासुदेवः समुत्पन्नः स्वप्रयोजनमार्थयत् ।
किं ममाऽत्र विधेयं स्यात् कथमीदृक्स्वरूपवान् ।। १ ।।
इति सञ्चिन्त्य सस्मार परमं मूलरूपिणम् ।
श्रीहरिस्तु तदा तस्मै रूपत्रयमदर्शयत् ।। २ । ।
वासुदेवात् समुत्पन्ना वासुदेवेऽप्ययं गताः ।
अनिरुद्धश्च प्रद्युम्नस्तथा संकर्षणोऽपरः ।। ३ ।।
वासुदेवो हरावास्ते वासुदेवे त्विमे त्रयः ।
दृष्ट्वा ज्ञात्वा पुनस्तावद्विचारं कृतवान् हि सः ।। ४ । ।
किं ममैभिस्त्रिभी रूपैरनुष्ठेयं भवेदिति ।
श्रीहरिणा ततस्तस्मै ईशसृष्टेस्तु नेतृता ।। ५ ।।
दर्शिता भूस्थैर्यभंगमयी सा त्र्यधिनीकृता ।
सृष्टिस्तु कीदृशी कार्या कीदृशो लोकविस्तरः ।। ६ ।।
इति सञ्चिन्तने तस्मै वासुदेवाय वै हरिः ।
स्वमूर्तौ तत्कृतीः सर्वाः कलाः सर्वा अदर्शयत् ।। ७ ।।
अनन्तायाममायायामगाधायां हरेस्तनौ ।
स्वस्वधामान्यपश्यँश्च सर्वे स्वस्वविभूतिभिः ।। ८ ।।
महाकालं च प्रकृतिपूरुषं भूमपूरुषम् ।
प्रधानपुरुषं चापि महापूरुषमित्यपि ।। ९ ।।
महाविष्णुं तथा तद्वद् वैराजपुरुषं ह्यपि ।
तथा हिरण्यगर्भं च ब्रह्मविष्णुमहेश्वरान् ।। 1.5.१ ०।।
गोलोकं चामृतं वैकुण्ठकं श्वेतं च धाम यत् ।
अव्याकृतं तथा धाम श्रिया विष्णोश्च धाम यत् ।। ११ ।।
सदाशिवकृतं धाम महामायाप्रमण्डलम् ।
चतुर्विंशतितत्त्वानां धामानि विविधानि च ।। १२।।
सन्निवेशो यथा यस्य यथाशक्तिबलोदयाः ।
यथा व्यवस्थया यत्र यादृशी दिव्यता परा ।। १ ३।।
यादृशानि समाश्चर्यप्रकाराणि भवन्ति च ।
ऐश्वर्याणि चमत्कारा ब्रह्मरससरांसि च ।। १४।।
इष्टमिष्टलता सम्पत् स्विष्टमिष्टविभूतयः ।
ब्रह्मरसप्रवाहार्था अत्याश्चर्याणि यानि वै ।। १५।।
रूपानुरूपघटनाः कल्पाऽनुकल्पवल्लयः ।
मोदप्रमोदतरवो नन्दाऽनुनन्दभूमयः ।। १६।।
तृप्त्यनुतृप्तपानास्वादनसौगन्धिकार्चनम् ।
शैत्याऽनुशैत्यनिवहा ह्रादानुह्रादरञ्जनम् ।। १७।।
ये च यानि यत्र यत्र चित्राश्चर्याणि तानि वै ।
दर्शयामास भगवान् श्रीहरिः स्वतनौ तदा ।। १८।।
वासुदेवस्तु भगवानीशलोकाऽनुसंकृतीः ।
दृष्ट्वा दृष्ट्वा तु तत्पारं नाऽऽयान् नेति जगौ तदा ।। १९।।
स्वविभूतेः स्वयमन्तं नेयाय वासुदेवराट् ।
जगाद् हरये तावदनन्तोऽसि नियामकः ।।1.5.२०।।
शशंस बहुधा रूपं वव्रे ज्ञानं च नैत्यकम् ।
तथाऽस्त्विति हरिः प्राह वहेशसृष्टिभावनम् ।।२१।।
प्राविर्भावय पुंसस्त्रीन् ईशभारवहान् स्वकान्।
इत्याज्ञां समभिगृह्य वासुदेवेन चाऽऽत्मतः ।।२२।।
अनिरुद्धश्च प्रद्युम्नः संकर्षण इति त्रयः ।
ईश्वराणान्तु सर्वोषां सृजिपुष्टिविरामकाः ।।२३।।
समाविर्भाविताः स्वस्माद् राजाधिराजराजकाः ।
तेषामंशास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।।२४।।
वैराजदेहोत्पन्नानां ब्रह्माण्डानां नियामकाः ।
अवराऽण्डप्रणेतारो जीवसृष्टिप्रशासकाः ।।२५।।
अनिरुद्धादयस्तस्मादीशतुष्टिप्रशासकाः ।
परसृष्टिप्रणेतारः परमात्मस्वरूपकाः ।।२६।।
इत्येवं सृष्टिवैचित्र्यमीश्वराणामनुस्मृतम् ।
तत्तदीश्वरभावत्वं परब्रह्माऽन्वयान्मतम् ।।२७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-सन्ताने वासुदेवस्येशसृष्टिप्रदर्शननामा पञ्चमोऽध्यायः ।। ५ ।।