लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४
[[लेखकः :|]]
अध्यायः ००५ →

श्रीनारायण उवाच-
स ऐक्षत प्रजायेय परमात्मा स्वयं हरिः ।
महाकालं स्वकां शक्तिं ससर्ज विभुरात्मनः । । १ ।।
सर्वेषामन्तकर्तारं मायाक्षोभकरं परम् ।
आज्ञां चक्रे हरिस्तस्मै मायां संक्षोभयेति हि ।। २ ।।
मायां तत्क्षोभितां दृष्ट्वा पुमान्मुक्तस्तु वै हरेः ।
आज्ञाकरोऽपरः कश्चिन्मायया युयुजे तदा । । ३ ।।
सा माया प्रकृतिर्मूला पुमाँस्तु पुरुषः पतिः ।
इति प्रकृतिपुरुषौ सर्गं ससर्जतुः स्वकम् ।। ४ ।।
ताभ्यां प्रधानपुरुषा जज्ञिरे कोटिशः खलु ।
प्रधानं तु महत्तत्त्वं त्रिगुणं क्षेत्रमुच्यते ।। ५ ।।
पूरुषस्तत्पतिः प्रोक्तो युगलानि भवन्ति वै ।
पूरुषा ईश्वराः सर्वे लीना ये प्रकृतौ तु प्राक् ।। ६ ।।
प्रादुर्भूताश्च ते सर्वे जायापतिसरूपिणः ।
प्रधानपुरुषाभ्यां तु महाविष्णुः प्रजायत ।। ७ ।।
अहंकारः स वै प्रोक्तः स्वर्णपूरुष इत्यपि ।
प्रधानायाः सुपुत्री सा त्वहंकृतिरिति स्मृता ।। ८ ।।
हिरण्या सा महालक्ष्मीर्महाविष्णोः सहायिनी ।
महालक्ष्मीर्महाविष्णुर्युगलं तत्प्रकीर्तितम् ।। ९ ।।
महाविष्णोर्महालक्ष्म्यां यो गर्भः समजायत ।
हिरण्यगर्भ इत्युक्तस्तच्चाण्डं समजायत ।। 1.4.१ ०।।
हिरण्याऽण्डं द्विधा भिन्नं ततो जज्ञे विराडयम् ।
वैराज्यपि प्रमदा च विराट्पत्नी तु सा मता ।। १ १।।
अहंकृतेर्महाविष्णोस्तत्त्वानि षोडशोऽभवन् ।
सात्त्विकात्तु समनस्कानीन्द्रियाणि दशाऽभवन् ।। १२।।
तामसात्तन्मात्रवर्गो तद्देवा राजसात्तथा ।
श्रोत्रत्वङ्नेत्ररसना वाक्पाणिपादपायवः ।। १२।।
उपस्थं चेतीन्द्रियाणि मनः करणमान्तरम् ।
पञ्चज्ञानेन्द्रियं बोध्यं पञ्च कर्मेन्द्रियं मतम् ।। १४।।
श्रोत्रादीनां तु पञ्चानां ज्ञानोत्पादनशक्तितः ।
वागादीनां तु पञ्चानां कर्मोत्पादनशक्तितः ।। १५।।
ज्ञानकर्मेन्द्रियाख्या वै मनः स्यादुभयात्मकम् ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।। १६।।
चन्द्रश्चेति मता देवा ईशसृष्टिमया इमे ।
ईश्वराणां शरीरेषु गोलकेषु वसन्ति ते ।। १७।।
मनश्चैकं चतुर्धा तु जायते वृत्तिभेदतः ।
मनोऽहंचित्तबुद्ध्याख्यं प्रोच्यते तत्त्ववेदिभिः ।। १८।।
तानि विराट्स्वरूपेण संहतानीशवाञ्च्छया ।
तथापि प्राणशून्यं तन्नोदतिष्ठद् यदा विराट् ।। १९।।
श्रीहरिः प्राणरूपो वै भूत्वा तत्र विवेश ह ।
प्राणशक्तिर्जीवनाख्या येन न्यस्ताऽऽन्तरे ततः ।।
प्राणात्मनश्चेतनस्य श्रीहरेस्तत्समन्वयात् ।।।1.4.२०।।
वैराजं रूपमित्यर्थे कार्येऽन्वर्थं बभूव ह ।
तस्य नाभिमहानालपद्माद्ब्रह्म व्यजायत ।।२१ ।
राजसः सर्जकः सोऽथ रुद्रस्तद्भालतोऽभवत् ।
तामसः स तु संहर्ता हृदो विष्णुर्बभूव ह ।।२२।
सात्त्विकः पोषकः प्रोक्तस्ते स्वशक्तिसमन्विताः ।
ब्रह्मणस्तु शरीरस्था ब्राह्मी प्रोक्ता तदंगना ।।२३
सृष्टिरिति समाख्याता ब्रह्मणोऽर्धांगना हि सा ।
रुद्रशक्तिस्तु रुद्राणी शिवा हरांगना सती ।। २४।।
वैष्णवी विष्णुशक्तिर्या साऽपि लक्ष्मीरिति स्मृता ।
तेषां त्रयाणां तिस्रस्ताः सृष्टिविनष्टिपुष्टिदाः ।। २५।।
पत्न्यस्तदात्मिकास्तत्तत्कार्यसाहाय्यदा मताः ।
पग्ब्रह्माऽऽज्ञया सृष्टिप्रवाहं वाहयन्ति ते ।।२६।।
आमूलपुरुषात्सर्वे केशान्ता ईश्वराः स्मृताः ।
शुद्धसत्त्वशरीरास्ते सत्त्वं भूतिस्तु सा हरेः ।। २७।।
तस्मानीशास्तु ते सर्वे परब्रह्मविभूतयः ।
तत्रेश्वरेषु सर्वेषु प्रविष्टौ दीव्यति प्रभुः ।। २८ । ।
तेषां तूपास्यमूर्तिधृक् श्रीहरिः संबभूव ह ।
वासुदेवः स वै प्रोक्तः ईश्वराणां नियामकः ।। २९।।
ईश्वराणां महाराज ईश्वरेड्यपदाम्बुजः ।
स्वशक्त्या वासुदेव्या स सहितो भगवानयम् ।। 1.4.३० ।।
धाम्न्यक्षरे स्ववासाय श्वेतं निर्माय धाम तत् ।
श्वेते दिव्ये स्वके धाम्नि निवासमकरोत्प्रभुः ।। ३१ ।।
अमृताख्ये परे धाम्नि वासुदेवः स एव हि ।
वासुदेवः स्वयं स्वस्येश्वरसृष्टिकृते पुनः ।।
जन्मपुष्टिलयार्थं स्वं रूपत्रयमधारयत् ।। ३२।।
ईशसृष्टिसमुन्नेता ह्यनिरुद्धो व्यजायत ।
ईशसृष्टेस्तु सम्पोष्टा प्रद्युम्नः समजायत ।। ३३ ।।
ईशसृष्टेर्विलोप्ता स संकर्षणोऽनुजायत ।
तिस्रस्तु मूर्तयः साक्षाद्वासुदेवस्य सन्ति हि ।। ३४।।
श्रीहरिणा स्वयं प्रोह्य धृतं रूपचतुष्टयम् ।
व्यूहचतुष्टयं तस्मात्प्रोच्यते शास्त्रवेदिभिः ।। ३५ । ।
व्यूहाधीनास्तत्र केचिदीशाश्चतुर्मुखाः परे ।
अष्टमुखास्तथा चान्ये षोडशास्याः शताननाः ।। ३६।।
सहस्रास्या अयुतास्या नियुतास्यास्तथा परे ।
अर्बुदास्याः कोटिमुखास्तावच्चरणपाणयः । । ३७। ।
विष्णोस्तत्राऽण्डगोलास्तु. चनुर्दशसमीरिताः ।
सदाशिवस्य रुद्रस्य त्वष्टाविंशतिगोलकाः ।। ३८ ।।
अण्डाः प्रधानमायायाः षट्पञ्चाशत्समीरिताः ।
महाविष्णोः शते द्वे च तथा द्वादश गोलकाः । ।३९ ।।
प्रकृतिपुरुषाण्डानि सन्ति पञ्चशतानि वै ।
महाकालस्य लोकास्तु सहस्रं परिकीर्तिताः ।।1.4.४० ।।
वासुदेवस्य कृष्णस्य नारायणस्य भूमयः ।
दिव्याऽनन्ता असंख्याताः सन्ति वाचामगोचराः ।।४१ ।।
ईश्वराणान्तु सर्वेषां मनोबुद्धीन्द्रियादयः ।
आत्मभूताः शक्तयः स्वाः शुद्धसत्त्वान्विता मताः ।।४२।।
भोग्यभोगोपकरणभोगसाधनभूमयः ।
शुद्धसत्त्वात्मिकाः सन्ति परमानन्दमिश्रिताः ।।४३।।
परमात्मा हरिस्तत्र प्राविर्भवत्यभीक्ष्णशः ।
यथाकार्यं यथा तत्तदीशप्रार्थनभावनम् ।।४४।।
ईश्वराणां तु कार्याणि निर्वर्त्य श्रीहरिस्ततः ।
तत्तदीशाऽऽयुषा स्थित्वा तिरोभावमुपैति हि ।।४५।।
तत्तत्स्वरूपसद्भक्त्या तेऽपि यान्ति परां गतिम् ।
पूर्णमैश्वर्यमाभुक्त्वा ते गच्छन्त्यपुनर्भवम् ।।४६।।
तदा मुक्तस्तु ते सर्वे श्रीहरिं समुपासते ।
ईश्वराणामपि मुक्तिरेवं भवति शाश्वती ।।४७।।
स्वामी नारायणः श्रीमाँस्तेषां मुक्तिकरः प्रभुः ।
नियामकः परब्रह्माऽन्वितोऽपि व्यतिरेकवान् ।।४८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वासुदेवादिब्रह्मान्तेश्वराणां सृष्टिकथननामा चतुर्थोऽध्यायः ।। ४ ।।