लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३
[[लेखकः :|]]
अध्यायः ००४ →

श्रीनारायण उवाच-.
अथाऽक्षरस्वरूपस्य हरेर्वामाऽङ्गसंस्थितेः ।
वामारूपेण सेवेच्छा सफलां कर्तुमिच्छता ।। १ ।।
नारायणेव वामांगात्स्वात्मशक्तिमयं शुभम् ।
सर्वमांगल्यसौभाग्यप्रेमस्नेहद्रवाश्रयम् ।। २ ।।
रूपानुरूपं स्वाधानं स्वक्षेत्रं स्वाश्रयं स्वकम् ।
स्वगुणैश्वर्यसामर्थ्यरजोबलगुहाश्रयम् । । ३ ।।
मूर्तं लक्ष्म्यात्मकं रूपं धृतं रतिगुणाश्रयम् ।
अमोघरतिसाफल्यं लक्ष्म्या इच्छन् कृपानिधिः । । ४ ।।
अमोघवीर्यवद्रूपं वासुदेवाख्यमादधत् ।
सोऽयं नारायणो वासुदेवः श्रीहरिरीरितः ।। '९ ।।
द्वेधाऽभवत् स लक्ष्मीनारायणेतिसमाह्वयः ।
लक्ष्मीर्दृष्ट्वा ब्रह्मलोके सर्वान्मुक्ताँस्तु पूरुषान् ।। ६ ।।
स्वां त्वेकां स्वसमाकारां नाऽन्यां तत्र व्यलोकयत् ।
तदा त्वप्रार्थयद् देवं स्वपतिं श्रीहरिं मुदा । । ७ । ।
पतिपत्नीकृते स्थानं योग्यं प्रकल्पय प्रभो ।
तस्या भावं समाज्ञाय प्रियायाः शुभवांच्छया ।। ८ ।।
वैकुण्ठाख्यं धाम दिव्यं ब्रह्मलोकं ह्यकल्पयत् ।
सेवार्थं दासदासीश्च तत्राऽप्यवासयत्प्रभुः ।। ९ ।।
तदर्थं दिव्यभोगाँश्च दिव्योपकरणान्यपि ।
दिव्यां तदीश्वरीं सृष्टिं पूर्णां पूर्णमनोरथाम् ।। 1.3.१० ।।
सर्वसाधनसम्पन्नां स्मृद्धिसौख्यसमन्विताम् ।
चकार श्रीहरिः साक्षान्मेने तदीयपूर्णताम् ।। ११ ।।
सोऽहं सा त्वमयं लोकौ वैकुण्ठश्चावयोरिति ।
दृष्ट्वा चैनं महायोगं पतिपत्नीमयं नवम् ।।
त्रिगुणाऽजा हरेः शक्तिर्नित्या या तत्त्वसूतिका । । १२ ।।
अनादिनिधना माया चकमे श्रीहरिं पतिम् ।
यथा तत्त्वात्मिका सृष्टिर्जायते यत्र लीयते ।। १३ ।।
सा वै लक्ष्मीसमं रूपं धर्तुमिष्टं तदाऽऽर्थयत् ।
प्रभुं सर्वेश्वरं नाथं श्रीहरिं तु तदा पुनः ।। १४।।
प्रभुणा तु समाज्ञप्ता रूपं मोहकरं नवम् ।
राधारूपं हि सुभगं ह्यसंख्यरतिभाजनम् । । १५ । ।
दधाराऽभिन्नपत्नीत्वे स्थिता चापि तदिच्छया ।
श्रीहरिस्तु तदर्थं श्रीकृष्णरूपो बभूव ह ।। १ ६।।
सर्वकामाश्रयः सर्वरसवर्षी पुमान्परः ।
अमोघाऽमेयवीर्यश्रीसौन्दर्यबलकान्तिमान् ।। १७।।
राधारमणयोग्यार्थयुवमूर्तिधरः प्रभुः ।
राधा विलोक्य सुभगं स्वानुयोग्यं वरं पतिम् ।। १८ ।।
स्वाऽऽवासमार्थयद् दिव्यं स्वतन्त्रं तत्र धामनि ।
मद्विहारकृतोद्यानं मद्रत्यर्थमहाश्रयम् ।। १९ । ।
मद्विभूतिपराकाष्ठं मत्सामग्रीसमाहितम् ।
सच्चिदानन्दरूपाणि सर्वोपस्करणानि च ।। 1.3.२० ।।
श्रीकृष्णस्य कृते तत्र सर्वाणि संभवन्त्विति ।
राधाऽभिलाषया सर्वं जातं दास्यश्च कोटिशः ।। २१ ।।
सुस्मृद्धं तत्परं दिव्यं धाम गोलोकमक्षरम् ।
प्रसीम्ना लोक्यते यत्तद् ब्रह्मलोके समायतम् ।।२२ । ।
चारु गोलोकसद्धाम राधाकृष्णो ह्यकल्पयत् ।
श्रीहरिणा समाज्ञप्तं राधाकृष्णसभाजितम् ।। २३ ।।
शाश्वतं ब्रह्मलोके तद्धाम गोलोकमाहितम् ।
तत्र राधाकृतां सेवां गृह्णाति कृष्णरूपधृक् ।। २४ । ।
ब्रह्मलोके च गोलोके वैकुण्ठे भोग्यसञ्चयाः ।
समानाः श्रीहरेः सन्ति भक्तानन्दकराः सदा ।। २५। ।
यथालिंगं यथारूपं यथायोगं यथार्हणम् ।
यथाजोषं यथापेक्षं हरेः कामाद्भवन्ति तै ।। २६ ।।
दिव्यं रतिसुखं नित्य दिव्याऽऽनन्दस्तदात्मनाम् ।
दिव्य प्रेम हरेर्योगान्नित्यं तत्राऽऽभिजायते ।। २७। ।
स्वप्रियासु सदा नाथो वैकुण्ठे रमते यथा ।
गोलोकेऽपि तथा भर्ता प्रेयसीषु प्रमोदते ।। २८ । ।
अक्षरे तु परे धाम्नि मुक्तेषु रमते हरिः ।
मुक्तान् भक्तान् सखीन् दासीः स्वयं क्रीडयति प्रभुः ।। २९ । ।
एकं वा युगलं रूपं यथा मां समुपासते ।
तथा ते मां प्रपद्यन्ते स्वामिनं सुखदं पतिम् । । 1.3.३० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-सन्ताने लक्ष्मीराधाकृते वैकुण्ठगोलोक-धामद्वयक्लृप्तिनिरूपणनामा तृतीयोऽध्यायः । । ३ । ।