लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००२

विकिस्रोतः तः
← अध्यायः ००१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २
[[लेखकः :|]]
अध्यायः ००३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि भक्तस्य द्रवलब्धये ।
यथा मेऽनुग्रहः प्राप्यस्तद्विधारय तत्त्वतः ।। १ ।।
मुक्त सृष्टावीशसृष्टौ जीवसृष्टावपि प्रभुः ।
असृजत्साकृतीन्सर्वान् शरीरिण इति .स्थितिः ।। २ ।।
आत्मा त्विन्द्र इतिप्रोक्तः सर्वशक्तिगुणाश्रयः ।
मनश्चित्तमहंबुद्धिस्तस्य करणमान्तरम् ।। ३ ।।
इन्द्रस्य शक्तयश्चैताश्चतस्रः समुदाहृताः ।
श्रोत्रत्वङ्नेत्ररसनाघ्राणवाक्पादपाणयः ।। ४ ।।
पायूपस्थे चेन्द्रियाणि बहिःकरणकानि हि ।
दशापि शक्तयश्चैता इन्द्रस्यैव भवन्ति वै ।। ५ ।।
ग्राह्येषु तास्तु गच्छन्ति पदार्थेषु बहिर्बहिः ।
ग्राह्याकारेण ता भूत्वा ग्राह्याकारं भजन्ति च ।। ६ ।।
परावृत्य तु ताः सर्वा धार्याकारं भजन्ति च ।
विध्वाऽन्तःकरणान्येता आत्मानं यान्ति वै यदा ।। ७ ।।
भोग्याकारं गतास्ताश्च ता इन्द्रानुभवं गताः ।
अपरोक्षानुभावोऽयं स्वात्मन्येव भवत्यथ ।। ८ ।।
अहमिन्द्रे स्थितः साक्षात्सर्वशक्तिप्रपूरकः ।
इन्द्रो मद्योगतः पूर्णशक्त्याश्रय इतिस्थितिः ।। ९ ।।
आग्राह्यात्तु मदन्तं वै प्रेमतत्त्वं द्रवो मतः ।
सर्वत्र निहितं तद्वै तेन स्निह्यन्ति मूर्तयः ।। 1.2.१० ।।
स्नेहपूर्णाऽऽनन्दपूर्णप्रेमपूर्णः सुखाश्रयः ।
द्रवपूर्णो ह्यहं विष्णुर्मद्योगाद्द्रववान् हि सः ।। ११ ।।
सर्वं स्थूलं तथा सूक्ष्मं चेतनं चाऽन्यदेव वा ।
मद्द्रवाद्द्रवितं सर्वं मेऽनुग्रहोऽत्र कारणम् ।। १ २।।
'अयं तु द्रवितो भूयादितिमेऽनुकृपा भवेत् ।
तदा द्रवति तत्कालं नाऽन्यथा तु कदाचन ।। १३ ।।
मत्कृपायाः साधनं तु सर्वस्वात्मार्पणं मतम् ।
सर्वदाऽहं कृपापूर्णः कृपालुः करुणोदधिः ।। १४।।
भक्तोल्लासात्कृपावृष्टिं करोमि कृपयाऽन्वितः ।
यथा यथा कृपाया मे प्रवाहो विशति ध्रुवे ।। १५।।
भक्ते तथा तथा तत्त्वं द्रवतां यात्यभीक्ष्णशः ।
एक एवाऽद्वितीयोऽहं स्थितोऽस्म्यक्षरधामनि ।। १ ६। ।
मन्मूर्तौ तत्र मे मुक्ता ब्रह्म चाऽक्षरमित्यपि ।
द्रवन्ति प्रेमबाहुल्यान्मेऽनुग्रहबलादपि । । १७।।
तदा सम्राड्विराजेऽहं न किञ्चिद्व्यतिरिच्यते ।
मुक्तिं सेयं तदैक्यात्माऽऽप्यते तत्स्थितिवेदिभिः ।। १८।।
स एकाकी न रमते चेच्छद्द्वितीयमात्मनः ।
ब्रह्म तच्चाऽक्षरं तस्मात्प्रादुर्भूतं महात्मनः । । १ ९।।
द्वेधाऽभूत्तन्निराकारं साकारं चेशवाञ्च्छया ।
निराकारं परं धाम यस्माद् धामानि जज्ञिरे । । 1.2.२० । ।
साकारं स्वसमाकारं मूर्तं मूर्त्यनुरूपकम् ।
स हरिस्तु पुनरैच्छन्नैकरूपत्वमात्मनः ।। २१ ।।
मुक्ता अनादिनस्तस्मात्प्रादुर्भूता अनन्तशः ।
तत्राऽऽसँस्तन्मण्डलानि त्रिपादे दिवि चामृते।। २२।।
मुक्ता ब्रह्म परब्रह्म ब्रह्मसृष्टिस्त्रिकं मतम् ।
रूपानुरूपावयवा दिव्याः सर्वे सरूपिणः ।। २३ ।।
आत्मरूपाणीन्द्रियाणि तत्त्वाऽभिन्नानि सन्ति वै ।
उपचारात्तु नामानि रसशक्त्यात्मकानि हि ।। २४।।
मनः श्रोत्रं च वाक् चक्षुस्त्वग् रसादीनि तानि वै ।
पूर्णे चिन्हेऽपि गुप्ता न तद्रतिर्वासना न च ।। २५।।
अमातृजं यतस्तत्र कोशषट्कं न विद्यते ।
प्राणस्तत्राऽऽत्मनः शक्तिः काशोऽनावरणात्मता ।। २६।।
सुहिरण्यकेशनखदन्ता नैव वियोगिनः ।
सच्चिद्रूपैकमानास्ते स्वात्मकाः प्रविभान्ति हि ।। २७।।
दिव्याः सर्वे प्रकाशास्ते राजन्ते दिव्यधामनि ।
इत्ययं ब्रह्मलोकस्तु औपनिषद् उच्यते ।। २८ ।।
ब्राह्मी मुक्तिस्तनुर्ब्राह्मी ब्रह्मानन्दानुभोग्यता ।
सोऽश्नुते सर्वकामाँस्तु सह श्रीहरिणा सदा ।। २९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अक्षरधाम्नि परब्रह्मब्रह्ममुक्तादीनां द्रवमुक्त्याऽपि साकारतादर्शको द्वितीयोऽध्यायः । । २ । ।