लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६
[[लेखकः :|]]
अध्यायः ००७ →

श्रीनारायण उवाच-
वैराजस्य नाभिदेशात् कमलं यदजायत ।
तत्र चतुर्मुखो ब्रह्मा समजायत प्राग् यथा ।। १ ।।
ततस्तन्नाभिदेशाद्वै द्वितीयं पद्ममुत्थितम् ।
तत्र ब्रह्मा द्वितीयोऽभूदष्टानन इति श्रुतः ।। २ ।।
ततस्तृतीयपद्मे तु ब्रह्मा षोडशमस्तकः ।
चतुर्थे कमले ब्रह्मा द्वात्रिंशन्मस्तको ह्यभूत् ।। ३ ।।
पञ्चमे कमले ब्रह्मा पञ्चाशन्मुखवानभूत् ।
षष्ठे जाते तु कमले ब्रह्मा शतमुखो ह्यभूत् ।। ४ ।।
ततस्तु सप्तमे पद्मे ब्रह्मा पञ्चशताननः ।।
अष्टमे पंकजे वेधाः सहस्रानन इत्यभूत् ।। ५ ।।
ब्रह्मा पञ्चसहस्राऽऽस्यो जातो वै नवमे कजे ।
दशमे ह्यभवद्ब्रह्मा दशसाहस्रमस्तकः ।। ६ ।।
एकादशे कजे पञ्चाशत्साहस्राननो ह्यजः ।
समुद्भूतस्तथा तु द्वादशे लक्षमुखो ह्यजः ।। ७ ।।
त्रयोदशे तु कमले द्विलक्षमुखवानजः ।
पद्मे चतुर्दशे पञ्चाशल्लक्षमुखवानजः ।। ८ ।।
जातः पञ्चदशे पद्मे कोट्यास्यश्च प्रजापतिः ।
षोडशे कमले ब्रह्मा जज्ञे ह्यर्बुदमस्तकः ।। ९ ।।
ततः सप्तदशे पद्मे विश्वसृडब्जमस्तकः ।
अष्टादशे तथा पद्मे ब्रह्मा खर्वप्रमस्तकः ।। 1.6.१० ।।
एकोनविंशके तत्र पद्मास्यः समभूद्धि सः ।
विंशके कमले वेधाः परार्धमुखवानभूत् ।। १ १।।
इत्येवं तत्र तत्रैककमले ब्रह्मकोटयः ।
समुद्भूताः सजातीयाः संख्यास्तेषामनन्तकाः ।। १ २।।
तथैव विष्णुरुद्राणां कोटयश्च तथाविधाः ।
तत्तत्स्थानात्समुत्पन्नास्तेषां संख्या न विद्यते ।। १३।।
ईशसृष्टौ यथैषां वै पारो नास्ति तथा पुनः ।
वैराजानां न चास्त्यन्तस्तत्पितॄणां महात्मनाम् ।। १४।।
महाविष्णुप्रभृतीनामसंख्यानां तु तत्र वै ।
संख्यापारमपाराणां केनाप्याप्तुं न शक्यते ।। १५।।
अथ तेषां चतुरास्यप्रभृतिवेधसां कृते ।
अधिकारः सुनिर्णीतश्चतुर्दशस्तरात्मके ।। १६।।
अष्टास्यानां तु सत्ता स्यादष्टाविंशतिभूस्तरे ।
ब्रह्माण्डेऽथ तथा बोध्या षोडशाननवेधसाम् ।। १७।।
षट्पञ्चाशद्विवरात्मब्रह्माण्डेष्वाधिकारिता ।
द्वात्रिंशन्मस्तकानान्तु शतस्तराऽण्डनेनृता ।। १८।।
शतद्वयप्रभूमिधृग्ब्रह्माण्डेष्वधिकारिता ।
संस्थापिता विराजेण पञ्चाशन्मुखवेधसाम् ।। १९।।
शतास्यब्रह्मणां पंचाशतस्तराण्डनेतृता ।
पञ्चशतमुखाऽजस्य सहस्रबिलकेऽण्डके ।।1.6.२० ।।
नेतृताऽधिकृता चाथ सहस्राननवेधसः ।
द्विसहस्रस्तराऽण्डेषु नेतृता विहिता तथा ।।२१ ।।
पञ्चसहस्रमुखवद्वेधसो नेतृता तथा ।
चतुःसहस्रकक्षाऽण्डे विराजेण स्थिरीकृता ।।२२।।
दशसहस्रमुखवद्वेधसोऽप्यधिकारिता ।
दशसाहस्रकक्षाऽण्डे विराजेण सुनिश्चिता ।।२३।।
अधिकारिपदं पञ्चाशत्साहस्राननस्य तु ।
कृतं विंशतिसाहस्रविवराण्डेषु तेन वै ।।२४।।
लक्षास्यस्य चतुश्चत्वारिंशद्बिलाण्डकेषु तत् ।
द्विलक्षमुखवान् वेधा लक्षभूम्यण्डकार्यकृत् ।।।२५।।
पञ्चाशल्लक्षमुखवान् द्विलक्षबिलकाण्डके ।
कृतो नेताऽथ कोट्यास्यः पञ्चलक्षस्तराण्डके ।।२६।।
कृतो नेताऽर्बुदास्यस्तु दशलक्षस्तराण्डके ।
अब्जाऽऽस्यो विंशतिलक्षबिलाण्डनेतृतां गतः ।।२७।।
खर्वास्यस्तु कृतः पञ्चाशल्लक्षबिलकाण्डके ।
नेताऽथ पद्मसख्यास्यः कृतः कोटिस्तरात्मके ।।।२८।।
परार्धमुखवान् ब्रह्मा कोटिदशस्तरात्मके ।
ब्रह्माण्डे स्थापितश्चैते ह्येवमन्येऽपि चाऽऽहिताः ।।२९।।
स्वस्वकार्यं प्रकुर्वन्ति स्वाधिकारानुसारतः ।
अथैकदा विराजस्य राजसूयमहोत्सवे ।। 1.6.३० ।।
विराजस्य गृहे चेशाः समाजग्मुः सहस्रशः ।
नैकभुजा विष्णवोऽपि रुद्रा विभिन्ननेत्रिणः ।।
समाजग्मुश्च वैराजा तथाऽन्येऽपीश्वरेश्वराः ।।३ १ ।।
तत्रोत्सवे समाजे वै को यायादग्रपूज्यताम् ।
इतिजाते विचारे तु महान् कोलाहलोऽभवत् ।। ३२
केचिदाहुः परार्धास्यो ब्रह्माऽग्रपूज्यतां लभेत् ।
अन्येऽप्याहुः परार्धदृक् शंभुरग्रार्हणां लभेत् ।।३३ ।।
परे त्वग्रार्हणां विष्णुः परार्धभुजवाँल्लभेत् ।
इतिवादे विवादे च निर्णयं नैव लेभिरे ।।३४।।
तदा विचारितं सर्वैर्वादे जाते परस्परम् ।
वृद्धानां वचनं ग्राह्यं कार्ये वादादिविभ्रमे ।। ५।।
वृद्धस्तु प्रपिता तेषां महाविष्णुस्तु बुद्धिमान् ।
यं वै निर्णयमास्थाय दर्शयेत् स भवेन्मतः ।।३६।।
इति ते समयं कृत्वा महाविष्णोः समन्तिके ।
नत्वा निवेदयामासुः सर्वं वृत्तान्तमीश्वराः । । ३७।।
महाविष्णुः क्षणं ध्यात्वा प्राह पौत्रान् विचारितम् ।
भवन्तस्तु त्रयस्तुल्याः समानबलशालिनः ।। ३८ ।।
समपूज्याः समश्रेष्ठाः समकार्यवहास्तथा ।
परस्परं न वै न्यूनाः पूजनार्हास्त्रयोऽपि हि ।। २९ ।।
तथापि राजसूये तु पूजैकस्य भवेदिति ।
विचार्यैव भवन्तो वै निर्णयं यान्तु चेश्वराः ।।1.6.४० । ।
एकस्मै पूज्यता देया द्वाभ्यां ग्राह्याऽनुवृत्तिता ।
इत्याज्ञाप्य महाविष्णुर्मौनमास्थाय .संस्थितः ।।४ १ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बहुविधब्रह्मादीनामधिकारादिवर्णननामा षष्ठोऽध्यायः ।।६ ।।