योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५५

विकिस्रोतः तः
← सर्गः ५४ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ५५
अज्ञातलेखकः
सर्गः ५६ →

श्रीवसिष्ठ उवाच ।
इत्याकर्ण्य तदा तत्र रात्रावालपनं द्वयोः ।
अहं रघुकुलाकाशशशाङ्क रघुनन्दन ।। १
पतितः खात्कदम्बाग्रे पत्रपुष्पफलाकुले ।
तूष्णीं निर्वृष्टमुक्तात्मा शृङ्गाग्र इव तोयदः ।। २
अपश्यं तत्र दाशूरं शूरमिन्द्रियनिग्रहे ।
परेण तपसा युक्तं तेजसेव हुताशनम् ।। ३
तेजोभिर्देहनिष्क्रान्तैः काञ्चनीकृतभूतलम् ।
तापयन्तं प्रदेशं तं भुवनं भास्करो यथा ।। ४
मामथालोक्य संप्राप्तं दाशूरोऽर्घसपर्यया ।
वितीर्णविष्टरं पत्रपूजया पर्यपूजयत् ।। ५
ततः पूर्वकथास्तेन सह दाशूर भास्वता ।
कृतास्तनयसंबोधाः संसारोत्तरणक्षमाः ।। ५
दृष्टवांस्तमहं वृक्षं कोरकोत्तरकोटरम् ।
दाशूरस्येच्छया सर्वैरयतद्भिर्मृगव्रजैः ।। ७
सेव्यमानं वनमिव लतामण्डलमण्डितम् ।
स्मितेन विस्फुटमिव श्वसनस्फुरितच्छदम् ।। ८
लताकोटिगतैर्भ्रान्तैश्चामरैरिन्दुसुन्दरैः ।
शुभ्राभ्रखण्डनिकरैः शरन्नभ इवावृतम् ।। ९
प्रालेयकणपद्धत्या मुक्तावल्याभ्यलंकृतम् ।
सर्वावयवमेवाच्छपुष्पपूरैः प्रपूरितम् ।। १०
स्वरेणुचन्दनालेपैः समालब्धमखण्डितम् ।
स्वच्छदाभोगविपुलरक्ताम्बरपरिच्छदम् ।। ३८
विवाहायेव वेषेण पुष्पभारातिभारिणा ।
लताङ्गनानुषक्तेन नागरेण कृतोपमम् ।। १२
मुनिबद्धोटजाकारलतामण्डपमण्डितम् ।
मञ्जरीभिः पताकाभिर्युक्तं पुरमहोत्सवे ।। १३
मृगकण्डूयनध्वस्तपुष्पधूलिविधूसरम् ।
प्रोत्सारितोपान्तवनं वृषमल्लमिवोत्थितम् ।। १४
बर्हिभिः कुसुमोद्वान्तपरागपरिपाटलैः ।
निक्षेपक्षिप्तसंध्याभ्रवालवालमिवाचलैः ।। ५
प्रवालारुणहस्तेन कुसुमस्मितशोभिना ।
मधुना घूर्णमानेन प्रान्तेन पुलकत्विषा ।। १६
नीरन्ध्रपुष्पपूर्णेन घूर्णितेन वनानिलैः ।
निद्रालुकुड्मलदृशा स्तबकस्तनधारिणा ।। १७
पुष्पजालरजःपुञ्जकुङ्कुमारुणवाससा ।
लताविताननिलयवातायननिषङ्गिणा ।। १८
नीलपुष्पलतादोलालीलालास्यविलासिना ।
आपादमस्तकप्रान्तं सर्वतो निर्मितालयम् ।। १९
वृन्देन वनदेवीनां कोकिलालापशालिना ।
संदिग्धमञ्जरीजालमलिनेत्रेण भासिना ।। २०
अवश्यायोपशमितरतिखेदैर्मदालसैः ।
पुष्पधूलिसमालब्धैराश्लिष्टैर्निबिडं मिथः ।। २१
पुष्पान्तरान्तःपुरगैः किमपि प्रणयोचितम् ।
ध्वनद्भिरभितः स्वच्छमत्तालियुगलैर्वृतम् ।। २२
काननोपान्तनगरीघुंघुमाकर्णनेच्छया ।
क्षणमुत्कर्णमाशान्तचारुवर्वणटांकृतैः ।। २३
क्षणं दलाग्रविश्रान्तमुग्धमुग्धशिरस्तया ।
पश्यद्भिरिन्द्वंशुकवज्जालामर्णवमेखलाम् ।। २४
वनस्थलीनां तनयैर्नयैमूर्तिमिवास्थितैः ।
शुभैः पत्रपुटेष्वन्तर्मृगैः सारतलान्तरम् ।। २५
नीडश्वसत्सुविश्वस्तसुप्तमात्रकपक्षिणम् ।
पाकच्युतफलोपान्तभूतकञ्चुकमण्डली ।। २६
संदिग्धमूकभ्रमरं गुच्छैः पूजाक्षसूत्रकैः ।
श्यामलीकृतपर्यन्तं नीडैः पल्लवमण्डितैः ।। २७
सुगन्धिताशेषवनं पुष्पमेघीकृताम्बरम् ।
धूलीकदम्बशबलफलौघवलितं तले ।। २८
बहुनात्र किमुक्तेन न किंचिदपि विद्यते ।
पत्रं यत्र तरौ यत्र नोष्यते वा न युज्यते ।। २९
पत्रे पत्रे मृगाः सुप्ता विश्रान्ताश्च पदे पदे ।
कच्छे कच्छे खगा लीनास्तस्य भूरुहभूपतेः ।। ३०
एवंगुणविशिष्टं तं समालोकयतो मम ।
महोत्सवेन सदृशी सा बभूव तमस्विनी ।। ३१
ततः कथाभी रम्याभिः स तस्य तनयो मया ।
विज्ञानालोकरम्याभिर्नीतो बोधं परं पुनः ।। ३२
आवयोस्तत्र चित्राभिः कथाभिरितरेतरम् ।
शर्वरी सा व्यतीयाय मुहूर्त इव कान्तयोः ।। ३३
प्रातः प्रतनुतां याते पुष्पर्द्धिघनजालके ।
स्वर्गाङ्गनाङ्गभोगाभे तारकानिकरे शनैः ।। ३४
आकदम्बनभोभागमुपयातं सुतान्वितम् ।
अहं विसृज्य दाशूरं ततोऽमरनदीं गतः ।। ३५
तत्राभिमतमासाद्य स्थानमेत्य नभस्तलम् ।
प्रविश्य खं मुनीनां च मध्यं स्वस्थ इव स्थितः ।। ३६
दाशूराख्यायिकैषा ते कथिता रघुनन्दन ।
जगतः प्रतिबिम्बाभा सत्याकाराप्यसन्मयी ।। ३७
दाशूराख्यायिकेवेयमित्येतत्कथितं मया ।
तुभ्यं राघव बोधाय जगद्रूपनिरूपणे ।। ३८
तस्मादवास्तवीं त्यक्त्वा वास्तवीमपि रञ्जनाम् ।
दाशूरसिद्धान्तदृशा सदोदारो भवात्मवान् ।। ३९
तस्माद्विकल्पं मलमात्मनस्त्वं निर्धूय पश्यामलमात्मतत्त्वम् ।
आसादयिष्यस्यचिरात्पदं तद्भविष्यसीज्यो भुवनेषु येन ।। ४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दाशूरो० वसिष्ठदाशूरमेलनं नाम पञ्चपञ्चाशः सर्गः ।। ५५ ।।

दाशूरोपाख्यानं समाप्तम् ।