योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५६

विकिस्रोतः तः
Jump to navigation Jump to search


षट्पञ्चाशः सर्गः ५६

श्रीवसिष्ठ उवाच ।
नास्तीदमिति निर्णीय सर्वतस्त्यज रञ्जनाम् ।
यन्नास्ति तत्प्रति किल केवास्थेह विचारिणाम् ।। १
दृश्यमानमथेदं चेदस्ति सत्तामुपागतम् ।
तिष्ठ स्वात्मनि बध्नासि त्वं किमत्र किलात्मत्ताम्।। २
अथ चेदस्ति नास्तीदमिति निश्चयवानसि ।
तथापि भावनासङ्गः कथं युक्तश्चलाचले ।। ३
नेदमस्ति जगद्राम तव नास्ति महामते ।
केवलं स्वच्छमेवेत्थमाततं मितमीदृशम् ।। ४
नेदं कर्तृकृतं किंचिन्न वा कर्तृकृतक्रमम् ।
स्वयमाभासते चेदं कर्त्रकर्तृपदं गतम् ।। ५
अकर्तृकं जगज्जालं भवत्वथ सकर्तृकम् ।
मा त्वमेतेन शबलं भावयन्नास्य चेतसि ।। ६
सर्वेन्द्रियविहीनात्मा कर्तेव स जडोपमः ।
अकर्तृ च तदा मन्ये काकतालीयवज्जगत् ।। ७
काकतालीययोगेन जातं यत्किंचिदेव तत् ।
तस्मिन्भावानुसंधानं बालो बध्नाति नेतरः ।। ८
न कदाचिदिदं शान्तं जगद्राम न च क्षयि ।
अजस्रं दृश्यमानत्वाद्भावित्वाच्च पुनःपुनः ।। ९
न कदाचिदिदं चास्ति जगद्राम न च क्षयि ।
अजस्रं क्षीयमाणत्वान्नास्तित्वाच्चानुमानतः ।। १०
सर्वेन्द्रियपदातीतो यदा कर्तेह विज्वरः ।
कुर्वाणः सर्वदा खेदं न कदाचन गच्छति ।। ११
तेनेयं नियतिः प्रौढा भावाभावदशामयी ।
ईदृश्येव स्थिरा दीर्घा मिथ्योत्थापि च दृश्यते ।। १२
अपर्यन्तस्य कालस्य कश्चिदंशः शरच्छतम् ।
तावन्मात्रमहाश्चर्यः किमर्थं सोऽनुधावति ।। १३
स्थिराश्चेज्जगतां भावास्तत्त्वादास्था न शोभते ।
कथमन्योन्यसंश्लेषो जडचेतनयोः किल ।। १४
अस्थिराश्चेज्जगद्भावास्तदप्यास्था न शोभते ।
पयःफेनास्थिरस्यान्ते दुःखमेषा ददाति ते ।। १५
आस्थाबन्धो महाबाहो जगद्भावत्वमात्मनः ।
न स्थिरास्थिरयोः फेनशैलयोरिव राजते ।। १६
सर्वकर्ताप्यकर्तेव करोत्यात्मा न किंचन ।
तिष्ठत्येवमुदासीन आलोकं प्रति दीपवत् ।। १७
कुर्वन्न किंचित्कुरुते दिवाकार्यमिवांशुमान् ।
गच्छन्न गच्छति स्वस्थः स्वास्पदस्थो रविर्यथा ।। १८
यतः कुतश्चिदेवेदं संपन्नमिव लक्ष्यते ।
अरुणातीरवद्वारिपूरावर्तवदाततम् ।। १९
इति चेद्भवता राम नैपुण्येनावधारितम् ।
प्रमाणपरिशुद्धेन चेतसा च विचारितम् ।। २०
तथापि भावनां साधो पदार्थं प्रति नार्हसि ।
अलातचक्रे स्वप्ने च भ्रमे वा केव भावना ।। २१
अकस्मादागतो जन्तुः सौहार्दस्य न भाजनम् ।
भ्रमोद्भूतं जगज्जालमास्थायास्तन्न भाजनम् ।। २२
औष्ण्येन्दौ शीतले भानौ मृगतृष्णाजले तथा ।
यथा न भावयस्यास्थामेवं भावय मा स्थितौ ।। २३
संकल्पपुरुषस्वप्नजनद्वीन्दुत्वविभ्रमम् ।
यथा पश्यसि पश्य त्वं भावजातमिदं तथा ।। २४
अन्तरास्थां परित्यज्य भावश्रीभावनामयीम् ।
योऽसि सोऽसि जगत्यस्मिँल्लीलया विहरानघ ।। २५
अकर्तृत्वपदं पीत्वा पीत्वेच्छामपि कुर्वतः ।
सर्वभावान्तरस्थस्य सर्वातीतस्य चात्मनः ।। २६
इयं संनिधिमात्रेण नियतिः परिजृम्भते ।
दीपसंनिधिमात्रेण निरिच्छैव प्रकाशते ।। २७
अभ्रसंनिधिमात्रेण कुटजानि यथा स्वयम् ।
आत्मसंनिधिमात्रेण त्रिजगन्ति तथा स्वयम् ।। २८
सर्वेच्छारहिते भानौ यथा व्योमनि तिष्ठति ।
जायते व्यवहारश्च सति देवे तथा क्रिया ।। २९
निरिच्छे संस्थिते रत्ने यथालोकः प्रवर्तते ।
सत्तामात्रेण देवे तु तथैवायं जगद्गणः ।। ३०
अतः स्वात्मनि कर्तृत्वमकर्तृत्वं च संस्थितम् ।
निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः ।। ३१
सर्वेन्द्रियाद्यतीतत्वात्कर्ता भोक्ता न सन्मयः ।
इन्द्रियान्तर्गतत्वात्तु कर्ता भोक्ता स एव हि ।। ३२
द्वे एवात्मनि विद्येते कर्तृताकर्तृतानघ ।
ययैव पश्यसि श्रेयस्तामाश्रित्य स्थिरो भव ।। ३३
सर्वस्थोऽहमकर्तेति दृढभावनयानया ।
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यते। ।। ३४
याति नीरसतां जन्तुरप्रवृत्तेश्च चेतसः ।
यस्याहं किंचिदेवेह न करोमीति निश्चयः ।। ३५
भोगौघकामवांस्तत्र कः करोतु जहातु वा ।
तस्मान्नित्यमकर्ताहमिति भावनयेद्धया ।। ३६
परमामृतनाम्नी सा समतैवावशिष्यते ।
अथ सर्वं करोमीति महाकर्तृतया तया ।। ३७
यदीच्छसि स्थितिं राम तत्तामप्युत्तमां विदुः ।
अहो यन्न करोमीमं समग्रं जागतं भ्रमम् ।। ३८
रागद्वेषक्रमस्तत्र कुतोऽन्यस्यात्यसंभवात् ।
यदन्येन शरीरं तु दग्धमन्येन लालितम् ।। ३९
सोऽस्मदारम्भ एवातः कः खेदोल्लासयोः क्रमः ।
मत्सखासुखविस्तारे जगज्जालक्षयोदये ।। ४०
अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः ।
खेदोल्लासविलासेषु स्वात्मकर्तृतयैतया ।। ४१
स्वयमेव लयं याते समतैवावशिष्यते ।
समता सर्वभूतेषु यासौ सत्या परा स्थितिः ।। ४२
तस्यामवस्थितं चित्तं न भूयो जन्मभाक्मनाक् ।
अथवा सर्वकर्तृत्वमकर्तृत्वं च राघव ।। ४३
सर्वं त्यक्त्वा मनःपीत्वा योऽसि सोसि स्थिरो भव ।
अहं सोऽहमयं नाहं करोमीदमिदं तु न ।। ४४
इति भावानुसंधानमयी दृष्टिर्न तुष्टये ।
सा कालसूत्रपदवी सा महावीचिवागुरा ।। ४५
सासिपत्रवनश्रेणी या देहोऽहमिति स्थितिः ।
सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते ।। ४६
स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुष्कसी ।
तया सुदूरोज्झितया दृष्टौ पटललेखया ।। ४७
उदेति परमा दृष्टिर्ज्योत्स्नेव विगताम्बुदा ।
ययाभ्युदितया राम तीर्यते भवसागरः ।। ४८
कर्ता नास्मि न चाहमस्मि स इति ज्ञात्वैवमन्तः स्फुटं ।
कर्ता चास्मि समग्रमस्मि तदिति ज्ञात्वाथवा निश्चयं।।
कोप्येवास्मि नकिंचिदेवमिति वा निर्णीय सर्वोत्तमे ।
तिष्ठ त्वं स्वपदे स्थिताःपदविदो यत्रोत्तमाः साधवः ।।
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे कर्तृत्वविचारयोगोपदेशकरणं नाम षट्पञ्चाशः सर्गः ।। ५६ ।।