योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५४

विकिस्रोतः तः
← सर्गः ५३ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ५४
अज्ञातलेखकः
सर्गः ५५ →

पुत्र उवाच ।
कीदृशस्तात संकल्पः कथदुपद्यते प्रभो ।
कथं च वृद्धिमाप्नोति कथं चैष विनश्यति ।। १
दाशूर उवाच ।
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।
चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः ।। २
लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।
याति चित्तखमापूर्य दृढजाड्याय मेघवत् ।। ३
भावयन्ती चितिश्चेत्यं व्यतिरिक्तमिवात्मनः ।
संकल्पतामुपायाति बीजमङ्कुरतामिव ।। ४
संकल्पेन हि संकल्पः स्वयमेव प्रजायते ।
वर्धते स्वयमेवाशु दुःखाय न सुखाय तु ।। ५
संकल्पमात्रं हि जगज्जलमात्रं यथार्णवः ।
ऋते संकल्पमन्या ते नास्ति संसारदुःखिता ।। ६
काकतालीययोगेन संजातोऽस्ति मुधैव हि ।
मृगतृष्णाद्विचन्द्रत्वभिवासत्यं च वर्धते ।। ७
निगीर्णमातुलिङ्गस्य कनकप्रत्ययो यथा ।
स्वयमभ्येत्य सत्योऽन्तः संकल्पस्ते तथा हृदि ।। ८
असत्यमेव जातस्त्वमसत्यमपि वर्तसे ।
अस्मिञ्ज्ञाते च विज्ञाने ह्यसत्यं संविलीयते ।। ९
असौ सोऽहमिमे भावाः सुखदुःखमया मम ।
व्यर्थमेवेति नानास्था येनान्तः परितप्यसे ।। १०
असन्नेवास्य जातोऽसि कुतो जन्मविलासतः ।
व्यर्थमेवावमूढोऽसि संकल्पवशतः स्वतः ।। ११
मा संकल्पय संकल्पं भावं भावय मा स्थितौ ।
एतावतैव भावेन भव्यो भवति भूतये ।। १२
संकल्पनाशयत्नेन न भयान्यनुगच्छति ।
भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् ।। १३
सुमनःपल्लवामर्दे किंचिद्व्यतिकरो भवेत् ।
सुसाध्यो भावमात्रेण नतु संकल्पनाशने ।। १४
पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते ।
तदप्युपकरोत्यस्मिन्न संकल्पपरिक्षये ।। १५
संकल्पो येन हन्तव्यस्तेन भावविपर्ययात् ।
अप्यर्धेन निमेषेण लीलयैव निहन्यते ।। १६
भावमात्रोपसंपन्ने स्वात्मनि स्थितिमागते ।
साध्यते यदसाध्यं तत्कस्य स्यात्किमिवाङ्ग ते ।। १७
संकल्पेनैव संकल्पं मनसा स्वमनो मुने ।
छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम्।। १८
उपशान्ते हि संकल्पे उपशान्तमिदं भवेत् ।
संसारदुःखमखिलं मूलादपि महामते ।। १९
संकल्पो हि मनो जीवश्चित्तं बुद्धिः सवासना ।
नाम्नैवान्यत्वमेतेषां नार्थेनार्थविदां वर ।। २०
संकल्पनादृते नेह किंचिदेवास्ति कुत्रचित् ।
तमेव हृदयाच्छिन्धि किमेतत्परिशोचसि ।। २१
यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि ।
असन्मयविकल्पोत्थे उभे एते तते यतः ।। २२
असिद्धं सर्वमेवैतदसिद्धेनैव साधितम् ।
संकल्पेन जगद्यस्माद्भावना क्वावतिष्ठताम् ।। २३
[ सत्यास्थायामसत्यां तु किंनिष्ठा वासना भवेत् ।]
भावनाक्षयतः सिद्धिस्ततः प्राप्यं न शिष्यते ।
तस्मादसदिदं सर्वं विज्ञेयं हेलयेद्धया ।। २४
तनुभावनया तेन सुखदुःखैर्न लिप्यते ।
अवस्त्विति च निर्णीय स्नेहास्था न प्रवर्तते ।। २५
आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ ।
तस्मादसदिदं सर्वं सुखदुःखादिविभ्रमैः ।। २६
मनो जीवः स्फुरत्युच्चैर्मानसं नगरं जगत् ।
भविष्यद्वर्तमानं च भूतं च परिवर्तयन् ।। २७
वासनावलितं लोके स्फुरच्छक्ति मनः स्थितम् ।
करोति स्वाशयेनेमां व्यवस्थां मलिनश्चलः ।। २८
आत्मनः सदृशीं लीलां जीवो हृद्वनमर्कटः ।
दीर्घमाकारमादाय निमेषाद्याति ह्रस्वताम् ।। २९
ग्रहीतुं च न शक्यन्ते संकल्पजलवीचयः ।
मनाग्दृष्टा विवर्धन्ते ह्रसन्ति सपरिच्छदाः ।। ३०
तृणमात्रेण दीप्यन्ते संकल्पा वह्निशेषवत् ।
जगत्यप्रकटाकाराः प्रदीप्ताः क्षणभङ्गुराः ।। ३५
भ्रमदा जडसंस्थानाः संकल्पास्तडिदग्नयः ।
यदेवासन्मयं पुत्र तदेवाशु चिकित्सितुम् ।। ३२
शक्यते नात्र संदेहो नासत्सद्भवति क्वचित् ।
संस्थितो यदि संकल्पो दुश्चिकित्स्यः स्वतो भवेत् ३३
किंत्वसद्भूत एवैष सुचिकित्स्यस्तदा भवेत् ।
अकृत्रिमं चेत्संसारमलमङ्गारकार्ष्ण्यवत् ।। ३४
तदेतत्क्षालने साधो कः प्रवर्तेत दुर्मतिः ।
किंत्वेतत्तण्डुलेष्वेव तुषकञ्चुकवत्स्थितम् ।। ३५
यतस्ततः प्रयत्नेन पौरुषेण विनश्यति ।
अकृत्रिममपि प्राप्तं भृशं पुत्र तथा पुनः ।। ३६
सुखोच्छेद्यतया ज्ञस्य संसारमलमाततम् ।
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।। ३७
नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ।
नश्यत्येव न संदेहस्तस्मादुद्यमवान्भव ।। ३८
असत्कल्पैर्विकल्पैर्यत्संसारो न जितो मुधा ।
स्तोकेनाशु लयं याति क्वासद्वस्तु चिरं स्थितम्।। ३९
असत्यामेति संसारः स्वव्यवस्थां विचारतः ।
दीपालोकादिवान्धस्य द्वीन्दुत्वं स्वीक्षितादिव ।। ४०
नासौ तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज ।
असत्ये सत्यवद्दृष्टे भावना मा स्म हीदृशः ।। ४१
मम गुरुविभवोज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमोऽन्तः ।।
त्वमपि च वितताश्च ते विलासा विलसति सर्वमिदं तदात्मतत्त्वम् ।। ४२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० संकल्पचिकित्सा नाम चतुःपञ्चाशः सर्गः ।। ५४ ।।