योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५२ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ५३
अज्ञातलेखकः
सर्गः ५४ →

श्रीवसिष्ठ उवाच ।
अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि ।
कदम्बाग्रावचूडस्थं पितरं पावनाशयम् ।। १
पुत्र उवाच ।
कोऽसौ खोत्थ इति ख्यातो भूपस्तातोत्तमाकृतिः ।
कथितं च किमेतन्मे त्वयेति ब्रूहि तत्त्वतः ।। २
क्व भविष्यति निर्माणं वर्तमाने क्व गम्यता ।
उभयार्थविरुद्धत्वान्मन्मोहाय वचस्तव ।। ३
दाशूर उवाच ।
शृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम् ।
येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे ।। ४
असदप्युत्थितारम्भमवस्तुमयमाततम् ।
संसारसंस्थानमिदमेवमाकथितं मया ।। ५
परमान्नभसो जातः संकल्पः खोत्थ उच्यते ।
जायते स्वयमेवासौ स्वयमेव विलीयते ।। ६
तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते ।
जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति ।। ७
ब्रह्मविष्ण्विन्द्ररुद्राद्यास्तस्यैवावयवान्विदुः ।
विटपानिव वृक्षस्य शृङ्गाणीव महीभृतः ।। ८
शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् ।
प्रतिभासानुसंधानमात्रेणैत्य विरिञ्चिताम् ।। ९
यत्रेमे विततालोका लोककोशाश्चतुर्दश ।
वनोपवनमालाश्च यत्रोद्यानपरम्पराः ।। १०
क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः ।
शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानलाकृती ।। ११
सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः ।
वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः ।। १२
इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः ।
और्वानलाम्बुजा यत्र वाप्यः सप्त महार्णवाः ।। १३
अध उर्व्यां तथोर्ध्वं खे पुण्यापुण्यधनश्रियः ।
नरामरकिराटानां यत्रान्तः क्रयविक्रयौ ।। १४
तस्मिन्नेव जगत्यस्मिन्पुरे संकल्पभूभृता ।
क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः ।। १३
केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः ।
नरनागादयः केचिदध एव नियोजिताः ।। १६
वातयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः ।
सितास्थिदारवश्चित्रास्त्वग्लेपमसृणामलाः ।। १७
केचिच्चिरेण नश्यन्ति केचिच्छीघ्रविनाशिनः ।
केचित्केशोलपोल्लासरचिताच्छादनश्रियः ।। १८
कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः ।
अनारतवहत्प्राणपवनेनोष्णशीतलाः ।। १९
कर्णनासास्यताल्वादिवातायनगणान्विताः ।
भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः ।। २०
मायया रचितास्तेषु संकल्पेन महामते ।
अहङ्कारमहायक्षाः परमालोकभीरवः ।। २१
देहापवरकेष्वन्तर्महाहङ्कारयक्षकैः ।
सह संक्रीडतेऽत्यर्थं स सदैवासदुत्थितैः ।। २२
यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा ।
मुक्ताफलं यथा वेणावहङ्कारस्तथा तनौ ।। २३
क्षणमभ्युदयं यान्ति क्षणं शाम्यन्ति दीपवत् ।
देहगेहेषु संकल्पतरङ्गाः सागरेष्विव ।। २४
भविष्यन्नवनिर्माणं स व्याप्नोति तदा पुरम् ।
यदा संकल्पितं वस्तु क्षणादेव प्रपश्यति ।। २५
असंकल्पनमात्रेण स्वेनेवाशु विनश्यति ।
श्रेयसे परमायस्य नाशत्वेन तु संभवः ।। २६
स्वयं संकल्पनामात्रं जायते बालयक्षवत् ।
अनन्तायात्मदुःखाय नानन्दाय कदाचन ।। २७
इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया ।
असत्तया नाशयति घनमान्ध्यं यथा तमः ।। २८
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति ।
काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर्यथा ।। २९
संकल्पितानन्दलवस्तिष्ठत्युद्धरकन्धरम् ।
अकस्मात्प्रच्युतमधुबिन्दुभुक्करभो यथा ।। ३०
क्षणं विरतिमायाति रतिमेति क्षणं स्वयम् ।
क्षणं विकारमायाति संकल्पेनैव बालवत् ।। ३१
एनं सकलभावेभ्यः कृत्वा निर्मूलमादरात् ।
मतिरन्तःपदं याति यथा पुत्र तथा कुरु ।। ३२
त्रयस्तस्या मतेर्देहा अधमोत्तममध्यमाः ।
तमःसत्त्वरजःसंज्ञाः कारणं जगतः स्थितेः ।। ३३
तमोरूपो हि संकल्पो नित्यं प्राकृतचेष्टया ।
परां कृपणतामेत्य प्रयाति कृमिकीटताम् ।। ३४
सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः ।
अदूरकेवलीभावं स्वाराज्यमधितिष्ठति ।। ३५
रजोरूपो हि संकल्पो लोकसंव्यवहारवान् ।
परितिष्ठति संसारे पुत्रदारानुरञ्जितः ।। ३६
त्रिविधं तु परित्यज्य रूपमेतन्महामते ।
संकल्पः परमायाति पदमात्मपरिक्षये ।। ३७
सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः ।
सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु ।। ३८
यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।
यदि वा विलयात्मानं शिलायां चूर्णयस्यलम् ।। ३९
यदि वाग्निं प्रविशसि वडवाग्निमथापि वा ।
यदि वा पतसि श्वभ्रे खड्गधाराजवेतथा ।। ४०
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।
अत्यन्तकरुणाक्रान्तो लोकनाथोऽथवा यतिः ।। ४१
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत्तव ।
नान्यः कश्चिदुपायोऽस्ति संकल्पोपशमादृते ।। ४२
अनाबाधेऽविकारे च सुखे परमपावने ।
संकल्पोपशमे यत्नं पौरुषेण परं कुरु ।। ४३
संकल्पतन्तावखिला भावाः प्रोताः किलानघ ।
छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः ।। ४४
असत्सत्सदसत्सर्व संकल्पादेव नान्यतः ।
संकल्पं सदसच्चैवमिह सत्यं किमुच्यताम् ।। ४५
संकल्प्यते यथा यद्यत्तत्तथा भवति क्षणात् ।
मा किंचिदपि तत्त्वज्ञ संकल्पय कदाचन ।। ४६
निःसंकल्पो यथाप्राप्तव्यवहारपरो भव ।
चिदचेत्योन्मुखत्वं हि याति संकल्पसंक्षये ।। ४७
उत्थाय सत्त्वरूपेण योन्या सत्यमयात्मकम् ।
न तज्जगदुःखमिदं व्यर्थं सदृशमात्मनः ।। ४८
तेन दुःखाय महते किं मृतेन तवानघ ।
यददुःखाय तत्प्राज्ञाः संश्रयन्तीह नेतरत् ।। ४९
अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः ।
अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ।। ५०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० दाशूरो० संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशः सर्गः५३