योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५२

विकिस्रोतः तः
← सर्गः ५१ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ५२
अज्ञातलेखकः
सर्गः ५३ →

श्रीवसिष्ठ उवाच ।
कदाचिदथ मार्गेण तेन कैलासवासिनीम् ।
अहं स्नातुमदृश्यात्मा व्योमवीथीगतोऽगमम् ।। १
निर्गत्य नभसः सप्तमुनिमण्डलकोटरात् ।
रात्रौ प्राप्तोऽस्मि सुमते दाशूरतरुमुन्नतम् ।। २
यावच्छृणोमि विटपकुहरात्कानने वचः ।
कुड्मलाम्भोजलग्नस्य षट्पदस्येव निःस्वनम् ।। ३
शृणु पुत्र महाबुद्धे वस्तुतोऽस्य समामिमाम् ।
वर्णयामि महाश्चर्यामेकामाख्यायिकां तव ।। ४
अस्ति राजा महावीर्यो विख्यातो भुवनत्रये ।
नाम्ना खोत्थ इति श्रीमाञ्जगदाक्रमणक्षमः ।। ५
अस्यानुशासनं सर्वे भुवनेष्वपि नायकाः ।
शिरोभिर्धारयन्त्युच्चैश्चूडामणिमिवार्थिनः ।। ५
यः साहसैकरसिको नानाश्चर्यविहारवान् ।
केनचित्त्रिषु लोकेषु न महात्मा वशीकृतः ।। ७
यस्यारम्भसहस्राणि सुखदुःखप्रदान्यलम् ।
संख्यातुं केन शक्यन्ते कल्लोला जलधेरिव ।। ८
यस्य वीर्यं सुवीर्यस्य न शस्त्रैर्न च पावकैः ।
केनचिद्भुवने क्रान्तमाकाशमिव मुष्टिना ।। ९
यदीयां विततारम्भां लीलां निर्माणभासुराम् ।
न मनागनुवर्तन्ते शक्रोपेन्द्रहरा अपि ।। १०
त्रयस्तस्य महाबाहो देहा विहरणक्षमाः ।
जगदाक्रम्य तिष्ठन्ति ह्युत्तमाधममध्यमाः ।। ११
व्योमन्येवातिवितते जातोऽसौ त्रिशरीरकः ।
तत्रैव च स्थितिं यातः शब्दपातश्च पक्षिवत् ।। १२
तत्रैवापारगगने नगरं तेन निर्मितम् ।
चतुर्दशमहारथ्यं विभागत्रयभूषितम् ।। १३
वनोपवनमालाढ्यं क्रीडाशिस्ररिसुन्दरम् ।
मुक्तालताविवलितवापीसप्तकभूषितम् ।। १४
शीतलोष्णात्मकाक्षीणदीपद्वयविराजितम् ।
ऊर्ध्वाधोगतिरूपेण वणिङ्मार्गेण संकुलम् ।। १५
तस्मिन्नेवातिविपुले पत्तने तेन भूभृता ।
संसारिणो विरचिता मुग्धापवरका गणाः ।। १६
ऊर्ध्वं केचिदधः केचित्केचिन्मध्ये नियोजिताः ।
केचिच्चिरेण नश्यन्त केचिच्छीघ्रविनाशिनः ।। १७
असितच्छादनच्छन्ना नवद्वारविभूषिताः ।
अनारतवहद्वाता बहुवातायनान्विताः ।। १८
दीपपञ्चकसालोकास्त्रिस्थूणाः शुक्लदारवः ।
मसृणालेपमृदवः प्रतोलीभुजसंकुलाः ।। १९
मायया रचितास्तेन राज्ञा तेषु महात्मना ।
रक्षितारो महायक्षा नित्यमालोकभीरवः ।। २०
अथापवरकौघेषु चलत्सु स महीपतिः ।
करोति विविधां क्रीडां नीडेष्विव विहङ्गमः ।। २१
त्रिशरीरशतेष्वन्तस्तैर्यक्षैः सह पुत्रक ।
लीलावशमुषित्वा तु पुनर्निर्गम्य गच्छति ।। २२
तस्येच्छा जायते वत्स कदाचिच्चलचेतसः ।
पुरं भविष्यन्निर्माणं किंचिद्यामीति निश्चला ।। २३
भूताविष्ट इवावेगात्तत उत्थाय धावति ।
पुरं तदप्यथाप्नोति गन्धर्वैरिव निर्मितम् ।। २४
तस्येच्छा जायते पुत्र कदाचिच्चलचेतसः ।
विनाशं संप्रयामीति तेनाशु स विनश्यति ।। २५
पुनरुत्पद्यते तूर्णं स्वात्मनोर्मिरिवाम्भसः ।
व्यवहारं तनोत्युच्चैः पुनरारम्भमन्थरम् ।। २६
स्वयैव व्यवहृत्याथ कदाचित्परिभूयते ।
किंकरोस्म्यहमज्ञोऽस्मि दुःखितोऽस्मीति शोचति ।।
मुदमेत्य कदाचिच्च स्वयमायाति दीनताम् ।
प्रावृड्वर्षकलोल्लासपूरादिव नदीरयः ।। २८
जयति गच्छति वल्गति जृम्भते
स्फुरति भाति न भाति च भासुरः ।
सुत महामहिमा स महीपतिः
पतिरपामिएव वातरयाकुलः ।। २९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० खोत्थविभववर्णनं नाम द्विपञ्चाशः सर्गः ।। ५२ ।।