योगपादः/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ योगपादः
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
योगपादस्य अध्यायाः

}

पाद्मसंहितायाम्
चतुर्थोऽध्यायः

  • अरिष्ठनिरूपणम्*

ब्रह्माः----
भगवन् कान्यरिष्टानि (1) कथं तैर्जीवितक्षयः।
सूच्यते संशयस्यास्य छेदने कारणं भवान्।। 4.1 ।।
(1. कथ्यानै जीवितक्षये.)

  • अरिष्टप्रकाराः *

श्रीभगवान्----
पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य नश्यति।
तस्यसंवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत्।। 4.2 ।।
मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति।
(2) षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत्।। 4.3 ।।
(2. षण्मासाभ्यन्तरे तस्य जीवतस्य भवेत्.)
कूर्परेस्फुरणं यस्य तस्य त्रैमासिकी स्थितिः।
कक्षे मेहनपाश्वे च स्फुरणाद्युपलम्भने।। 4.4 ।।
मानावधिर्जीवितस्य तदर्धं स्वेददर्शने।
अश्रुते जाठरे घोषे दिनानि दश जीवितम्।। 4.5 ।।
ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम्।
जिह्वाया दर्शने त्रीणि दिनानि स्थितिरात्मनः।। 4.6 ।।
(3) नासाग्रा दर्शने मृत्युः द्विदिने नैव संशयः।

  • अरिष्टज्ञानानन्तरकर्तव्यानि *

एवमादीन्यरिष्टानि दृष्ट्वायुः क्षयकारणम्।। 4.7 ।।
(3. ज्वालाग्रा.)
निश्रेयसाय युञ्जीत जपध्यानपरायणः।

  • प्रत्याहारप्रकारद्वयम् *

मनसा त्मन्यनुष्ठानं यदिदं नित्यकर्मणाम्।। 4.8 ।।
प्रत्याहारस्सविज्ञेयो योगाङ्गत्वेन सेवितः।
यद्वाष्टादशभेदेषु मर्मस्थानेषु धारणम्।। 4.9 ।।
स्थानात् स्थानं समाकृष्य सा प्रत्याहृति रिष्यते।

  • अष्टादशमर्मस्थानानि.*

पादाङ्गुष्ठं तथागुल्फं जङ्घामध्यं तथैव च।। 4.10 ।।
मध्यमूर्वोश्च मूलं च पायुः हृदयमेवच।
मेहनं देहमध्यं च नाभिं च गलकूबरम्।। 4.11 ।।
तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्‍डलम्।
(4) भ्रुवोर्मध्यं ललाटं च मूर्धाचापि ततः परम्।। 4.12 ।।
(4. भ्रुवोर्मध्यं ललाटस्य मूलमूर्ध्वं च जानुनोः। इति श्वचित्।)
मूलं च कर्मयोर्मूलं मर्मूण्येतानि पद्मज।

  • धारणालक्षणम्*

पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु।। 4.13 ।।
मनसो धारणं यत्तद्युक्तस्य च यनूदिभिः।
धारणा सा च संसारसागरोतार कारणम्।। 4.14 ।।

  • शरीरेवञ्चभूतस्थानविभागः *

आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते।
पित्तला चतुरश्रा च वसुधा वज्रलाञ्चिता।। 4.15 ।।
स्मर्तव्या पञ्चघटिका स्तत्रारोप्य प्रभञ्जनम्।
तस्योपर्यूरुमूलान्तं वारिस्थानं चतुर्मुख।। 4.16 ।।
अर्धचन्द्रसमाकारं श्वेतमम्बुजलाञ्चितम्।
स्मर्तव्यमङ्गे श्वसनमारोप्य दश नाडिकाः।। 4.17 ।।
आनाभिदेहमध्यान्त मग्निस्थानमुदाहृतम्।
तत्र सिन्धूरवर्णोऽग्नि (5) स्त्य्रश्राङ्को दश पञ्च च।। 4.18 ।।
(5. र्ज्यलन्‌सन्‌दश.)
स्मर्तव्यो नाडिकाः प्राणं कृत्वाकुम्भै कधारितम्।
ना भेरुपरि नासान्तं वायुस्थानं तु तत्रवै।। 4.19 ।।
वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः।
स्मर्तव्यः कुम्भके नैव प्राणमारोप्य मारुतः।। 4.20 ।।
घटिका विंशतिस्तस्माद्घ्राणाद्ब्रह्मबिलावधि।
व्योमस्थानं नभन्तत्र भिन्नाञ्ञनसमप्रभम्।। 4.21 ।।
ध्यायोन्मारुतमारोप्य कुंभकेनैन यत्नवान्।
विश्वम्भरांशे (6) देहस्य चतुर्बाहुमलङ्कृतम्।। 4.22 ।।
(6. देवेशम्.)
अनिरुद्धं हरिं योगी यजेत भवमुक्तये।
अबंशे पूरयेद्योगी नारायणमुदग्रधीः।। 4.23 ।।
प्रद्युम्नमग्नौ वाय्वंशे सङ्कर्षणमतः परम्।
व्योमां शे परमात्मानं वासुदेवं समर्चयेत्।। 4.24 ।।
अचिरादेवतत्प्राप्ति र्युञ्जानस्य न संशयः।।
इति श्री पांचरात्रे महोपनिषदि पाद्मसंहितायां
योगपादे पञ्चभूतस्थावनिर्ण योनाम
चतुर्थोऽध्यायः।


*************---------------
"https://sa.wikisource.org/w/index.php?title=योगपादः/अध्यायः_४&oldid=206896" इत्यस्माद् प्रतिप्राप्तम्