योगपादः/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ योगपादः
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
योगपादस्य अध्यायाः

}

पाद्मसंहितायाम्.
द्वितीयोऽध्यायः

  • नाडीशुद्धिः*

श्रीभगवान्------
यमैश्च नियमैश्चैव योगाङ्गैरासनै रपि।
सुसंयतो नाडीशुद्धौ प्राणायामो विधीयते।। 2.1 ।।
देहमानं स्वाङ्गुलीभिष्षण्णवत्यङ्गुलायतम्।
प्राणश्शरीरादधिको द्वादशाङ्गुलमानतः।। 2.2 ।।
देहस्थमनिलं देहसमुद्भू तेन वह्निना।
न्यूनं समं वा योगेन कुर्वन्प्रह्मविदिष्यते।। 2.3 ।।
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम्।
त्रिकोणं द्विपदामन्यच्चतुरश्रं चतुष्पदाम्।। 2.4 ।।
वृत्तं विहङ्गमानां तु षडश्रं जलजन्मनाम्।
अष्टाश्रं स्वेदजानां तु तस्मिन् दीपवदुज्ज्वलः।। 2.5 ।।
वै श्वानरोऽग्निः पचति प्राणापानसमा (1) युतः।
चतुष्प्रकारमशनं देहमध्येऽभधीयते।। 2.6 ।।
(1.श्रयः)
अपानाद्वङ्गुलादूर्ध्वमधो मेढ्रस्य वामतः।
देहमध्यं मनुष्याणां (2) मेढ्रमध्यं चतुष्पदाम्।। 2.7 ।।
(2. हृन्मध्यं तु.)
इतरेषां तुन्दमध्यं सर्वेषामेव पद्म ज।
कन्दस्धानं मनुष्याणां देहमध्ये नवाङ्गुलम्।। 2.8 ।।
चतुरङ्गलमुत्सेधं चतुरङ्गुल मायतम्।
अण्डाकृति स्तिरश्चां च द्विपदां च चतुष्पदाम्।। 2.9 ।।
तुन्धमध्यं तदिष्टं वै तन्मध्यं नाभिरिष्यते।
तत्र चक्रं द्वादशारं आहूर्मासा नराणि तु।। 2.10 ।।
विष्ण्वादि मूर्तयसैषु द्वादश द्वादशस्वपि।
आहं तत्र स्थितं चक्रं भ्रामयामि स्वमायया।। 2.11 ।।
अरेषु भ्रमते जीवः क्रमेण कमलासन।
तन्तुपञ्ञरमध्यप्था यथा भ्रमति लूतिका।। 2.12 ।।
प्राणारूढश्चरति च जीवस्तेन विना न हि।
(3) तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः।। 2.13 ।।
(3. तन्मध्ये.)
अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता।
यथावद्वायुचारं च ज्वलनादि च नित्यशः।। 2.14 ।।
परितः कन्दपाश्वेतु निरुध्यैव सदा स्थिता।
मुखेनै व समावेष्ट्य ब्रह्मरन्ध्रमुखं तदा।। 2.15 ।।
योगकाले च मरुता नाग्निना चोदिता सती।
स्फुरिता हृदयाकाशे नागरूपा महोज्वला।। 2.16 ।।
वायुर्वा युमुखेनैव ततो याति सुषुम्नया।
कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता।। 2.17 ।।
पद्मसूत्रप्रतीकाशा ऋजुरूध्व प्रवर्तिनी।
ब्रह्मणो विवरं यावद्विद्युदाभा सनालिका।। 2.18 ।।
वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्ति पद्थतिः।
इडा च पिङ्गलाचैव तस्यास्सव्येतरेस्थिते।। 2.19 ।।
इडा समुत्थिता कन्दाद्वामनासापुटावधि।
पिङ्गला चोत्थिता तस्मादन्यनासा पुटावधि।। 2.20 ।।
गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते।
पुरतः वृष्ठत स्तस्या वामेतरदृशौ प्रति।। 2.21 ।।
पूशा यशस्विनी नाड्यौ तस्मादेव समुत्थिते।
सर्वेतरश्रुत्यवधि पायुमूलात्त्वलम्बुसा।। 2.22 ।।
(4) अधोमुखा कुहूनाडी मेढ्रान्तावधिरायता।
पादाङ्गुष्ठावधिः कन्था (5) द्यथा याता च केशिनी।। 2.23 ।।
(4.अधो गता शुभा नाडी.) (5. दधो याता.)
दशप्रधानभूतान्ताः कथिताः कन्दसम्भवाः।
तन्मूला बहवो नाड्यः स्थूलास्सूक्ष्मास्तु नाडिकाः।। 2.24 ।।
द्विसप्ततिसहस्राणि स्थूलास्सूक्ष्मास्तु पद्मज।
संख्यातुं वैव शक्यनै स्थूलमूलाः वृथग्विधाः।। 2.25 ।।
यथाश्वत्धदले सूक्ष्माः स्थूलश्च वितता स्तथा।
प्राणोऽपानन्समानश्च उदानो व्यास एव च।। 2.26 ।।
नागः कूर्वश्च कृकरो देवदत्तो धनञ्जयः।
चरन्ति दश नाडीषु दश प्राणादि वायवः।। 2.27 ।।
प्राणादिपञ्चकं तेषु प्रधानां तत्र च द्वयम्।
प्राण एवाथवा श्रेष्ठो जीवात्मानं भिभर्तियः।। 2.28 ।।
आस्यनासिकयोर्मध्यं हृदयं नाभिमण्‍डलम्।
पादाङ्गुष्ठमिति प्राणस्थानानि कमलासन।। 2.29 ।।
अपानश्चरति ब्रह्मन् गुदमेढ्रोरुजानुषु।
समानस्सर्वगा त्रेषु सर्वव्यापी व्यवस्थितः।। 2.30 ।।
उदानस्सर्वसन्धिस्थः पादयोर्हस्तयोरपि।
व्यानश्श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च।। 2.31 ।।
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः।
तुन्दस्थं जलमन्नं च (6) रसनाग्नि समिकृता।। 2.32 ।।
(6. रसानि च समिकृतम्.)
तुन्दमध्यगतः प्राणान्तानि कुर्यात्पृथक्पृथक्।
इत्यादिचेष्टया प्राणः करोति वपुषि स्थितिम्।। 2.33 ।।
अपानवायुर्मूत्रादेः करोति च वसर्जनम्।
प्राणापानादि चेष्टदि क्रियते व्यासवायुना।। 2.34 ।।
(7) उज्जीर्यते शरीरस्थमुदानेन नभस्वता।
पोषणादिशरीरस्य समानः कुरुते सदा।। 2.35 ।।
(7.उन्नीयते शरीरस.)
उद्गारादिक्रिया नागः कूर्माक्ष्यादिनिमीलनम्।
कृकरस्तु क्षुतः कर्ता दत्तो निद्रादिकर्मकृत्।। 2.36 ।।
मृतगात्रस्य शोभदि धनंजय उदाहृतः।
नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च।। 2.37 ।।
चेष्टाश्च विविधा स्तेषां ज्ञात्वैवं कमलासन।
शुद्धौ यतेत नाडीनां वक्ष्यमाणेन वर्त्मना।। 2.38 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहिता यां
योगपादे नाडीस्वरूपकथनं नाम
द्वितीयोध्यायः।


**************-----------
"https://sa.wikisource.org/w/index.php?title=योगपादः/अध्यायः_२&oldid=206893" इत्यस्माद् प्रतिप्राप्तम्