योगपादः/अध्यायः १

विकिस्रोतः तः
योगपादः
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
योगपादस्य अध्यायाः

}

श्री पाद्मसंहितायां
श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

  • योगपादः*

प्रथमोऽध्याये.

  • निश्रेयससाधनयोग निरूपणम्*

ब्रह्माः--
भगवन् योगयुक्तस्य निश्रेयसमुदीरितम्।
पुरुषस्य दयासिन्धो ज्ञानिनः पुरुषोत्तम।। 1.1 ।।
स योगः कथ्यतां भूय श्श्रोतव्यं यदि मद्विधैः।
यदि नानुग्रहोस्मासु भजमानेषु विद्यते।। 1.2 ।।

  • योगद्वैविध्यम् *

श्रीभगवान्----
अव्याकुलस्य चित्तस्य (1) बन्धनं विषये क्वचित्।
यत्सयोगश्चतुर्वक्त्रस च द्वैविध्यमश्नुते।। 1.3 ।।
(1. सन्धानम्)

  • विभक्तयोः प्रत्येकं लक्षणम्*

कर्म कर्तव्यमि त्येवं विहितेष्वेव कर्मसु।
बन्धनं मनसो नित्यं कर्मयोगस्स उच्यते।। 1.4 ।।
यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम्।
ज्ञानयोगस्स विज्ञेय स्सर्वसिद्धिकरश्शुभः।। 1.5 ।।

  • समुच्छितयोस्तयो र्मोक्षसाधनत्वम् *

यस्योक्तलक्षणे योगे (2) द्विविधेऽवस्थितं मनः।
स याति परमं श्रेयो मोक्षलक्षणमञ्जसा।। 1.6 ।।
(2. विविधे च स्थितात्मनः मद्विधे च स्थितं मनः इति चपाठौ)

  • योगाङ्गनिरूपणम्*

यमादिरङ्गं पूर्वस्य वैराग्यादि परस्यतु।
अष्टौ यमादयो योगाः यमोऽहिंसादिलक्षणः।। 1.7 ।।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम्।
क्षमाधृतिर्मिताहारो शौचं चेति यमा दश।। 1.8 ।।
(3) तपः प्रभृतिरूपस्तु नियमः कथ्यते पुनः।
तपश्च तुष्टिरास्तिक्यं दानमाराधनं हरेः।। 1.9 ।।
(3. ततः प्रभृतिरूर्ध्वंतु.)
सिद्धान्तश्रवणं ह्रीश्च जप इत्यादिलक्षणः।
आसनादीनि सर्वाणि स्वस्तिकादीनि संप्रति।। 1.10 ।।
वर्ण्यन्ते स्वस्तिकं पादतलयोरुभयोरपि।
पूर्वोत्तरे जानुनी द्वे कृत्वाऽऽसनमुदीरितम्।। 1.11 ।।
सीवन्या दक्षीणे पार्श्वे सव्यं सव्ये तु दक्षिणम्।
गुल्फं कृत्याऽऽसनं तच्च स्वस्तिकं कथ्यते बुधैः।। 1.12 ।।
आरोप्य चोर्वोश्चरणौ तदङ्गुष्ठद्वयं पुनः।
व्युत्क्रमेणैव हस्ताभ्यां गृह्णीयात्तत्त दासनम्।। 1.13 ।।
बद्धपद्मासनं ज्ञेयमासनेषु सुपूजितम्।
एकं चरणमन्यस्मिन्नूरावारोप्य निश्चलः।। 1.14 ।।
आस्ते यदिदमेनोघ्नं वीरासनमुदाहृतम्।
सिविनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु।। 1.15 ।।
प्रसार्य जानुनोर्हस्तावासनं सिंहपूर्वकम्।
गुल्फौ च वृषणस्याधस्सीवन्युभयपार्श्वयोः।। 1.16 ।।
निवेश्य पादौ हस्ताभ्यां दृढं बध्वा यदा सनम्।
भद्रासनं तद्विज्ञेयं सर्वपापप्रणाशनम्।। 1.17 ।।
गुल्फं सव्येतरं सव्ये वृष्ठसार्श्वे विधाय च।
(4) गुल्फं तथेतरं वृष्ठपार्श्वऽन्यस्मिन्निधाय च।। 1.18 ।।
(4. नव्येतरे वृष्टपार्श्वे सव्यशुल्फंतधैवच.)
आसनं गोमुखं यद्वद्घोमुखासनमिष्यते।
सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेणतु।। 1.19 ।।
निपीड्यासन मेतच्च मुक्तासन मुदाहृतम्।
मेढ्रस्यो परि निक्षिप्य सव्यं गुल्फं तथेतरम्।। 1.20 ।।
निवेश्योपरि गुल्फस्य यद्वा मुक्तासनं भवेत्।
अवष्टभ्य धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः।। 1.21 ।।
कूर्परौ नाभिपार्श्वे च स्थापयित्वा मयूरवत्।
समुन्नम्य शिरः पादौ मयूरासनमिष्यते।। 1.22 ।।
इति श्रिपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
योगपादे आसनभेदलक्षणं नाम
प्रथमोऽध्यायः


************---------------
"https://sa.wikisource.org/w/index.php?title=योगपादः/अध्यायः_१&oldid=206879" इत्यस्माद् प्रतिप्राप्तम्