याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/असाधारणव्यवहारमातृकाप्रकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search
← साधारणव्यवहारमातृकाप्रकरणम् याज्ञवल्क्यस्मृतिः
असाधारणव्यवहारमातृकाप्रकरणम्
याज्ञवल्क्यः
ऋणादानप्रकरणम् →

अभियोगं अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् । । २.९ । ।

कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।
उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये । । २.१० । ।

निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणं अभियोगाद्धनं वहेत् । । २.११ । ।

साहसस्तेयपारुष्य गोऽभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः । । २.१२ । ।

देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यं एति च । । २.१३ । ।

परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि । । २.१४ । ।

स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः ।
अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः । । २.१५ । ।

संदिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।
न चाहूतो वदेत्किंचिद्धीनो दण्ड्यश्च स स्मृतः । । २.१६ । ।

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः । । २.१७ । ।

सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनं एव च । । २.१८ । ।

छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतं अप्यनुपन्यस्तं हीयते व्यवहारतः । । २.१९ । ।

निह्नुते लिखितं नैकं एकदेशे विभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः । । २.२० । ।

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रं इति स्थितिः । । २.२१ । ।

प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।
एषां अन्यतमाभावे दिव्यान्यतमं उच्यते । । २.२२ । ।

सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । । २.२३ । ।

पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी । । २.२४ । ।

आधिसीमोपनिक्षेप जडबालधनैर्विना ।
तथोपनिधिराजस्त्री श्रोत्रियाणां धनैरपि । । २.२५ । ।

आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षं अथापि वा । । २.२६ । ।

आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो । । २.२७ । ।

आगमस्तु कृतो येन सोऽभियुक्तस्तं उद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी । । २.२८ । ।

योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तं उद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विनाकृता । । २.२९ । ।

नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् । । २.३० । ।

बलोपाधिविनिर्वृत्तान्व्यवहारान्निवर्तयेत् ।
स्त्रीनक्तमन्तरागार बहिःशत्रुकृतांस्तथा । । २.३१ । ।

मत्तोन्मत्तार्तव्यसनि बालभीतादियोजितः ।
असंबद्धकृतश्चैव व्यवहारो न सिध्यति । । २.३२ । ।

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डं अर्हति । । २.३३ । ।

राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्धं द्विजः पुनः ।
विद्वानशेषं आदद्यात्स सर्वस्य प्रभुर्यतः । । २.३४ । ।

इतरेण निधौ लब्धे राजा षष्ठांशं आहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डं एव च । । २.३५ । ।

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् । । २.३६ । ।