यज्ञाधिकारः/सप्तत्रिंशो‌ऽध्यायः

विकिस्रोतः तः
← षट्त्रिंशोऽध्यायः यज्ञाधिकारः
सप्तत्रिंशो‌ऽध्यायः
[[लेखकः :|]]
अष्टत्रिंशो‌ऽध्यायः →


यज्ञाधिकारः
----------------------
अथ सप्तत्रिंशोऽध्यायः।
-----------------------
चक्रलक्षणम्
-----------
उत्सवार्थं विशेषेण चक्रमानं प्रवक्ष्यते
मानाङ्गुलेन वा तस्य मानं मात्राङ्गुलेन वा 1
ध्रुवस्ताङ्गुलिना वाऽथ कारयेद्घाटकादिना
(धर्म।ग।) यवमात्रेण विस्तार ( पट्टम्।) तोयतारं प्रकथ्यते 2
तेनैव समवृत्तं तं कृत्वा पश्चाद्विचक्षणः
कस्य वा चरणं ( पट्टम्।) वर्गमश्विन्यङ्गुला क्रमात् 3
अराणामयुतं पश्जाद्द्विजेन हृदयं तथा
तस्य मध्यमसूत्रस्य पार्श्वयोरुभयोरपि 4
एकाङ्गु?Rळघनं मध्यं बहिः पट्टस्य पार्श्वयोः
युवायतघनं तत्स्याद्यथाशोभं क्रमात्कृतशम् 5
गुरुश्चार्चाद्वयाराः स्युः पङ्क्तियुग्ममथान्तरे
षोडशारास्तथा हीनास्ते त्वश्रा वेणु पत्रवत् 6
तन्मूर्ध्नि पार्श्वयोर्ज्वालाश्चान्याङ्गुल समायुतम्
प्रभाज्वालासमा ज्ञेय स्त्रितया (नता) स्तीक्ष्ण दर्शनाः 7
चक्रेशं हृदये तस्य नवतालेन मानतः
त्रयोदशाङ्गुलैः रुद्रनव सप्ताङ्गुलैस्तु वा 8
तच्छक्राङ्गुलिना देवं द्विभुजं प्राञ्जलि युतम्
आसीनं स्थानकं वाऽथ कौतुकं तद्यथा तथा 9
स्रवाभरण संयुक्तं तत्त्वस्मरण संयुतम्
पीठयुक्तं वियुक्तं वा कारयेद्धृदयेऽधिपम्। 10
करण्डकुट संयुक्तमर्ध चन्द्राङ्ग संयुतम्
सुमुखम् चानपायीशं पुरतः कल्पये त्तथा 11
अपरं सिंहवदनं पद्मस्य मुकुल न्तु वा
कारयेदथवा धीमान्‌ पार्श्वयोरुभयोरपि 12
चक्रेशं नैव चक्रस्य ज्वालायुक्तमथापि वा
पद्म वा सिंहवक्त्रं वा मकराननमेव वा 13
फलकोपरि वा योगे स्थापयेत्सुदृढं यथा
अथ वा सिंहयोर्मूर्ध्नि स्थापयेत्फलकोपरि 14
तच्चक्रस्य समं वाऽथ द्विगुणं त्रिगुण न्तु वा
चक्रेशस्य समं वाऽथ गदायामं प्रकथ्यते 15
यथार्हनाह संयुक्तं समवृत्तमृजुं तथा
फलकाकुम्भताटीभि र्भूषितां कारयेद्गदाम्। 16


चक्रं तमथ वा धीमान् गदा ञ्चैव ? सलक्षणम्
स्थापयेत्पद्मपीठोर्ध्वे सुदृढं विधिचोदितम्। 17
चतुरङ्गुलोन्नतं पीठमष्टाङ्गुलयुतं तथा
अश्रं तत्समवृत्तं वा दलैरष्टभि रावृतम्। 18
कारयित्वा गदामूले पूर्ववद्योजयेत्क्रमात्
नागाङ्गुलोदयं कुर्याद्गदां हीनेऽथ वा यदि 19
अत्राप्यनुक्तं यत्सर्वं कारयेच्छिल्प शाश्त्रवत्
सिद्धार्चनादिकं सर्वं कारयेत्पूर्ववद्बुधः( पृथक्) 20
चक्रस्थानप्रकारः
चक्रस्य स्थापनामार्गं प्रवक्ष्यामि तपोधनाः
ग्रामस्य यजमानस्य चानुकूले दिने तथा 21
अङ्कुरस्यार्पणं कृत्वा पूर्वमेव च तद्दिनात्
सम्भृत्यैव च सम्भारान् कारये दक्षिणोचनम् 22
( गव्यादिषु च पूर्ववत्।ग।) तथाऽधिवासनं कृत्वा नद्यादौ कौतुकोक्तवत्
यागशालं तथा कृत्वा भू,येत्तोरणादिभिः 23
शय्यावेदि ञ्च तन्मध्ये चाध्यर्धायाम विस्तृताम्
तुरीयांशोदयां वेदिं कुर्यात्तां चतुरश्रकाम्। 24
प्राच्यामाहवनीय ञ्च कुण्डमौपासनाग्निव्
प्राच्यां तत्स्नावेदि ञ्च कृत्वा पूर्वोक्तमानतः 25
अथाधिवासित ञ्चक्र मादायै वाभिषिच्य च
ग्रामप्रदक्षिणं कृत्वा शालायां स्थापये त्तथा 26
अग्निं संस्थाप्य पूर्वोक्तं कुम्भं संसाधयेत्पुनः
पूर्वोक्तं सुम्भमादाय जलेनाऽपूर्व पूर्ववत् 27
वस्त्राभ्यां वेष्टयित्वा तु रत्नादीन्त्सन्न्यसे त्तथा
चक्रस्याभिमुखे कुम्भं धान्यपीठोपरि न्यसेत् 28
पूजितो यजमानेन आत्मानं भावयेद्गुरुः
हृत्पद्म मध्ये चक्रेशं द्विभुज मञ्जलियुतम् 29
रक्ताभं पीतवस्त्राङ्गं ध्यात्वा सम्यक् प्रपूज्य च
तस्मात्कुम्भे समावाह्य पूर्वोक्तमभिपूज्य च 30
वेद्यां संस्थाप्य तच्चक्रं कलशैः स्नापयेत्क्रमात्
समलङ्कृत्य वस्त्राद्यै र्धान्यपीठोपरि क्रमात् 31
सन्न्यस्य कुम्भसंयुक्तं बद्ध्वा प्रतिसरं तथा
शाययित्वा तथा चक्रं हौत्रं सम्यक् प्रशंस्य च 32
चक्राद्यांश्चायुधानन्यान् मूर्तिमन्त्रान् प्रशंसयेत्
पश्चादग्निं परिस्तीर्य वैष्णवं मन्त्रमुच्चरन् 33
'भूमान' वन्ध्योन द्वे च हुत्वा गायत्रि संयुतम्
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च 34
स्नात्वा प्रभूते पूर्वोक्तं चक्रमादाय पूर्ववत्


धा (ग्रा) म प्रदक्षिणं कृत्वा ( कुम्भेन।ग।) चक्रेणसह मन्त्रवित् 35
मण्डपे दक्षिणे पार्श्वे कृते पीठे विशेषतः।
रत्नं निक्षिप्य पूर्वोक्तं मन्त्रेण स्थापये त्तथा 36
चक्रमन्तौ सुसञ्जल्य बीजात्सन्न्यस्य पूर्ववत्
कुम्भाच्छक्तिं तथाऽऽवाह्य पूजये दासनादिभिः 37
पायसाद्यैर्निवेद्याथ गुरुं सम्यक्प्र पूजयेत्
एवं यः कुरुते भक्त्या रिपून्त्सर्वान् विजेष्यति 38
इति श्री वैखानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे चक्रलक्षण विधिर्नाम
( षट्त्रिंशोऽध्यायः।) सप्ततिंशोऽध्यायः।