यज्ञाधिकारः/अष्टत्रिंशो‌ऽध्यायः

विकिस्रोतः तः
← सप्तत्रिंशो‌ऽध्यायः यज्ञाधिकारः
अष्टत्रिंशो‌ऽध्यायः
[[लेखकः :|]]
नवत्रिंशो‌ऽध्यायः →


यज्ञाधिकारः
------------------
अथाऽष्टत्रिंशोऽध्यायः
----------------------
उत्सवविधिः।

अतः परं प्रवक्ष्यामि देवेशस्योत्सव क्रमम्
कालश्रद्धानिमित्तार्धा उत्सवस्त्रिविधाः स्मृताः 1
मासे तु यस्मिन् कस्मिंश्चित् वर्षं वर्षं प्रतिप्रति
क्रियते समयेनैव स तु कालोत्सवो भवेत्। 2
इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः
स तु श्रद्धोत्सवो ज्ञेयस्तस्मात्कालोत्सवो गुरुः 3
भयप्रदनिमित्तेषु तथाऽनावृष्टि कादिषु
क्रियते तस्य शान्त्यर्थं स निमित्तोत्सवः स्मृतः 4
ग्रामदौ चोत्सवः स्याच्चेत्क्रमेणैव च कारयेत्
तस्मादुत्पातशान्त्यर्थमा दौ काल्युत्सवं क्रमात्। 5
अन्येषां क्रूरदेवानां शिष्टभूतगणस्य च
शान्त्यर्थं कारयेत्पश्चा च्छास्त्रोक्तं शङ्करोत्सवन् 6
विशस्त्रिगणशान्त्यर्थं सौम्यमार्गेण वास्तुषु
चक्रसेनाश संयुक्तं कुर्याद्गुर्गोत्सवं पुनः 7
सर्वेषामपि देवानां मुनीनामपि सर्वशः
पितॄणा ञ्च ग्रहाणा ञ्च पत्नीनामपि सर्वशः 8
द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः
पुष्ट्यर्थं कारयेत्पश्चा वेशस्योत्सवं क्रमात् 9
अन्यथा चेद्विनाशः स्यात्सर्वेषा ञ्च न संशयः
तस्मात्परिहरेद्विद्विन् ग्रामादौ च विशेषतः 10
अयनादौ तु सङ्क्रान्त्यां ग्रहणे च विशेषतः
तत्तत्काले च तीर्थं स्याद्रात्रावपि च कारयेत्। 11
राहुदर्शन सङ्क्रान्त्योः स्नानं श्रेष्ट निशास्वपि
तथाऽऽहुः स्मृतिकाराश्च निशायमनि षिद्धताम्। 12
क्रियं समाप्य मध्याह्ने रात्रौ चेत्सकलं बुधः
तावत्कालं विनोदेन नीत्वा तत्तीर्थ माचरेत्। 13
विष्णुपञ्चदिनेष्वेवं मासर्क्षे स्थापनादिने
यजमानस्य जन्मर्क्षे राज्ञो जन्मर्क्ष एव वा 14
एतेष्ववभृथं कल्प्य चोत्सवं सम्यगाचरेत्
तेषु कालश्य मध्याह्नः पूर्वोह्णो वा शुभोदये। 15
ऋक्षे तु द्विदिने सङ्गे यदहन्यधिकं परम्
तथा मासर्क्षराश्चान्ये एक मासे परस्परम् 16


दिनद्यये तु सम्प्राप्ते नेष्टं तत्प्रथमं विदुः
तीर्थस्यात्र परं श्रेष्ट मन्यन्नैमित्तिकेषु च 17
पूर्णपर्वेन्दु संयोगं यद्दिने चोभयोरपि
तीर्थस्यात्र विशेषेण तत्परं वाऽन्यकर्मणाम् 18
पक्षं त्रयोदशाहं वा दिनान्येकादश क्रमात्
नवाहं तत्र सप्ताहं पञ्चहमथवा पुनः 19
त्रिदिनं द्विदिन ञ्चैव एकाह ञ्चाऽथ वा पुनः
(ग।आदर्शेऽधिकोयमर्धश्लोकः।)अथ तीर्थदिनात्पूर्वमेक विंशद्धिने तथा 20
( ग।आदर्शेऽधिकोयमर्धश्लोकः।) तथैव ध्वजमारोप्य नावाहं चोत्सवं चरेत्
उत्सवस्य दिनादौ वा घोषटेद्विधि पूर्वकम् 21
घोषणा(दिवसात्।ख।) दिदिनात्पूर्वं कारयेदङ्कुरार्पणम्
वेणुं वा जातिवृक्षं वा चम्पकं क्रमुक न्तु वा 22
अन्यांश्च शुभवृक्षान्वा चान्येषां सारमेव वा
ध्वजदण्डमृजुं कृत्वा कृमिकोटर वर्जितम् 23
विमानस्य समं वाऽथ पादहीनं तथाऽधिकम्
अध्यर्धं (वा त्रियश्रं वा।ग।) वाऽधिकं वाऽथ मालादग्रं क्रमात्कृशम् 24
चतुर्विंशत्यङ्गुलनाहं वा यथालाभमथापि वा
गर्तमानं विनै वाऽत्र द्वजदण्ड प्रमाणकम् 25
यष्टियोगं वियोगं वा ऋजुं कृत्वा सलक्षणम्
आहतं सुदृढं वस्त्रं कार्पासं सम्प्रगृह्य च 26
विपुलं भागतालं स्यादायामं द्वादशाष्ट वा
 पादवर्गसमायामं गर्भद्वारसम न्तु वा 27
तदर्धविस्तृतं वाऽथ कारयेद्विधि वद्ध्वजम्
पूर्वोक्तेनैव मार्गेण वीशं मध्ये लिखेद्बुधः 28
यथाऽत्रवत् ? तथा धीमानाकाशारोहण न्तु वा
सुचित्रितं ध्वजं पश्चात्प्रोक्ष्य चादाय मन्त्रवित् 29
एकविंशतितालेन चायतं वेणुयष्टिकम्
आदायाग्रादधश्चात्र त्वियमे ? 'स्वस्तिदा' इति 30
बध्नीया त्तद्ध्वजं स्थापनं सम्यगाचरेत्‍
अथवा याज्ञिकैर्वृक्षैर्यष्टिं कृत्वा स लक्षणम् 31
त्रितालयातमर्धं स्याद्विस्तारं बहुलं क्रमात्
आहृत्य यष्ट्याधाराणि योजयेदचलं क्रमात् 32
दण्डाग्राधिकं वेणुं क्रमेणैव च योजयेत्
ताम्रेण वलयं कृत्वा संयोज्य क्रमशः सुधीः 33
दण्डद्विगुणमायाम मङ्गुष्टाङ्गुलिनाहकम्
त्रिवृतां तन्तु ना रज्जुं कुशरज्जुमथाऽपि वा 34
संयोज्य वलये पूर्वं द्रभमालां सुवेष्टयेत्
बलिपीठात्लश्चिमे भागे मध्यसूत्रस्य मध्यमे 35
तस्माद्व्यपोह्य षट्तालं पञ्चतालघन न्तु वै

दण्डं प्रक्षाळ्य मध्याह्ने हेमंसन्न्यस्य चावटे 36
ध्वजमन्त्रं समुचार्य दण्डं संस्थापयेद्धृढम्
द्विहस्तायत विस्तारमेक हस्तादयं क्रमात् 37
एववेदि ञ्च कृत्वाऽत्र शिलयेष्टकयाऽथ वा
मृदा वा तस्य मूले तु दलै रष्टभिरावृतम् 38
पद्मं सलक्षणं कृत्वा ध्वजमूले तु ( सु) शोभितम्
मण्डपं वाऽथ कूटं वा प्रापां वा चालयाग्रतः 39
कृत्वा तत्र वितानाद्यैरलं कृत्य यथोचितम्।
मध्यपङ्तौ विशेषेण प्राच्यां तस्य ध्वजस्य च 40
चतुस्ताल समायामं व्रीहिभिः स्थाण्डिल ञ्चरेत्
द्वितालायत विस्तारं भागेत्सेध ञ्च पश्चिमे 41
चक्रस्य स्थण्डिलं कृत्वा तथा शान्तस्य चोत्तरे
खदादिपस्य तत्प्राच्यां स्थण्डिलं कारये त्तथा 42
तस्यैवोत्तरतः पार्श्वे कुण्डमौपासनं तथा
कृत्वाऽघार ञ्च पूर्वोक्तमग्नेः पश्चिमतो बुधः 43
स्थण्डिलं कारयित्वाऽत्र स्थापयेत्प्राङ्मुखं ध्वजम्
पर्यग्निपञ्चगव्याभ्यां संशोद्य च यथाऽर्हकम् 44
'दद्भ्यस्प्वा' हेति चोक्त्वा तु अङ्ग होम ञ्च कारयेत्।
वैष्णवं गारुडं पश्चाद्ध्वजमन्त्रं घृतेन च 45
हुत्वाऽक्षिमोचनं पश्चात्त थैव विधिना बुधः।
कुम्भं संसाद्य विधिना प्रमुखे स्थण्डिलोपरि 46
सन्न्यस्य गुरुडं ध्यायेत्कुम्भेऽम्भसि समाहितः
गरुडं तस्मिन्नावाह्य तथाऽभ्यर्च्य च मन्त्रवित् 47
सम्प्रोक्ष्य कौतुकं बद्ध्वा कुम्बेनसह तद्ध्वजम्
पनस्तदादाय बीजं हृदये न्यस्य वेष्ठ्य च 48
कुम्भस्थां शक्तिमादाय तथा वीशस्य मूर्धनि
मूर्तिमन्त्रेण चाऽवाह्य समभ्यर्च्य निवेद्य च 49
पूर्वोक्तस्थण्डिलो पश्चात् स्थापयेत्पश्चिमामुखम्
पसस्तत्पश्चिमे चक्र प्राङ्मुकं चोत्तरे बुधः 50
वीशामितौ सुसंस्थाप्य दक्षिणाभिमुखौ क्रमात्
संस्थाप्य मूर्तिमन्त्रेण चार्घ्यान ञ्चाऽसनादिकम् 51
समभ्यर्च्य विशेषेण मुद्गान्नं गरुडस्य च
शुद्धान्नमन्ययोः पश्चान्निवेद्य मुखवासकम् 52
दत्वाऽभिवन्द्य पूर्वोक्तं पुण्याहमपि वाचयेत्
आग्नेय्यां धान्यपीठे च बेरं सन्न्यस्य मन्त्रवित् 53
भूतेश ञ्च समभ्यर्च्य हविः सम्यङ्नि वेदयेत्
पश्चादग्निं परिस्तीर्य तत्त न्मन्त्रं सवैष्टवम् 54
हुत्वैव पूर्ववन्मन्त्री अन्तहोमं जुहोति च


गुरुस्तदपरापह्णे तु प्राङ्मुखो वाऽप्युदङ्मुखः 55
आदाय प्रणवैर्यष्टिं 'भूर्बुवस्स्व' रिति ब्रुवन्
( यज्ञस्येति।ग।) दण्डेन च त्रिभिस्ताड्य पश्चात्पारशवं पुनः 56
आहुयोष्णीषवस्त्राद्यैः समलङ्कृत्य पूर्ववत्
सर्ववाद्य समायुक्तं भेरीमादाय शान्त्रवित् 57
( शस्त्रोक्तविधिना विद्वांश्चक्रमुद्दारयेत्क्रमात्।ग। ) सर्व सर्वशास्त्रोक्तविधिना चक्राग्रेताटये त्तथा
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे (ध्वजपट प्रतिष्ठाविधिर्नाम सप्तत्रिंशोऽध्यायः।) उत्सव (ध्वजपटप्रतिष्टा)विधिर्नाम
अष्टत्रिंशोऽध्यायः