यज्ञाधिकारः/षट्त्रिंशोऽध्यायः

विकिस्रोतः तः
← पञ्चत्रिंशोऽध्यायः यज्ञाधिकारः
षट्त्रिंशोऽध्यायः
[[लेखकः :|]]
सप्तत्रिंशो‌ऽध्यायः →


यज्ञाधिकारः।
-----------------------
अथ षट्त्रिंशोऽध्यायः।
-----------------------
स्नपनभेधाः।
अथ ऊर्ध्वं प्रवक्ष्यामि स्नपनं चाधमाधमम्
भक्तानां दुर्भालाना ञ्च क्षुद्र ञ्चापि महार्थकम् 1
सामान्यानि च सर्वेषां भवन्ति स्नपनेषु च
तस्माद्गव्यादिभिर्द्रव्यैः सर्वौषध्युदकान्तकैः 2
द्रव्यैः प्रधानाः सम्पूर्णाः कलाशा द्वादशैव च
वारिपूर्णा उपस्नानकालशा द्वादश क्रमात् 3
हरिद्राचूर्ण संयुक्तसलशेन सहैव च
पञ्चविंशतिसङ्ख्याश्च कलशाश्चा तपोधनाः 4
स्नपनार्थं विशेषेण पूर्वोक्तदिवसे तथा
अङ्कुरानर्पयुत्वौव रक्षार्थ ञ्चाधि वासयेत् 5
पूर्वोक्तमण्डपे धीर्मा कर्मसूत्रैः समस्थले
पञ्चविंशत्पदं कृत्वा भित्तिमानं विशेषतः 6
अत्र ( शम्भु।अ।) मध्यपपे श्वभ्रं परितोऽष्टौ पदां स्त्यजेत्
सञ्चारणार्थ ञ्चतुरो द्वारार्थं दिक्षु वै क्रमात् 7
कलशस्थापनार्थं तच्छेषितेऽर्कपदे तथा
आढकं वा तदर्धं वा प्रस्थं वा कलशम्प्रति 8
सङ्गृह्य व्रीहिभिः पीठं तत्पदाया मविस्तृतम्
यथालाभोदयं कुर्याद्द्रव्यम्प्रति पृथक् पृथक् 9
प्रोक्षणोल्लेखने पीठे दर्भाणामास्तरं पृथक्
कृत्वा सङ्गृह्य कलशान् द्रव्यैरपि सुपूरयेत् 10
प्रणवेन कूर्चान् निक्षिप्य सोमस्नानं पृथक् पृथक्
सापिधान ञ्च कृत्वा तु विष्णुगायत्रिया न्यसेत् 11
गव्यं दध्यक्षतोद ञ्च रत्नोदं विदिशासु च
ईशाद्यं सन्न्यसेत्पश्चा द्द्वाराणां वामपार्श्वके 12
घृतं क्षीरं फलं जप्यं ( प्रागाद्यैशान पार्श्वयोः) प्रागाद्य ञ्चान्यपार्श्वके
मधु गन्धं कुशोद ञ्च सर्वौषध्युदकं न्यसेत् 13
विधिना तत्क्रमेणैव ( तेषां दक्षिणतो ततः?) एतेषां वामपार्श्वतः
सन्न्यसेद्ददुपस्नानान्नीलतो याधिपान्तरे 14
सन्न्यस्यैव च हारिद्रं वस्त्रेण परिवेष्टयेत्
अथाधिवासितं देवमादाय श्वभ्रमध्यमे। 15
संस्थाप्य कूर्चान् परितः प्रागग्रांश्चोदग ग्रकान्
वेद्यामुपरि ( सन्न्यप्य।अ। ) चार्घ्यान्तं जयादी रर्चयेत्क्रमात्। 16
पङ्क्तीशममितं वीशं दिक्पाला न्मूर्तिमन्त्रतः


कलशाद्बाह्यतोऽभ्यर्च्य कलशेशान थार्चयेत् 17
शिव ञ्च विश्वसूनु ञ्च सामवेद ञ्च वत्सरान्
ऋतः प्रामं यजू रुद्रमथर्वाण मथाश्विनौ 18
तीर्थांश्च लोकनाथ ञ्च विश्मुमूर्तिं गरु ततः
सोम ञ्च नागराज ञ्च मुनिं तक्षकमेव च 19
पुरुष ञ्चापि गन्धर्वान् मन्त्रं विद्याधरान् क्रमात्
अर्कमप्सरसस्तस्मि न्नेकमूर्त्याऽधि पां स्ततः 20
हारिद्रे च सिनीवाली मर्घ्यान्तं चासनादिकम्
( नमोन्तं प्रणवाद्यन्तम्।) प्रणवादि नमोन्तं वा ध्यात्वा मूर्तिभिरर्चयेत्। 21
पश्चाद्देवं प्रणम्यैव पाद्याद्यैरभि पूज्य च
उत्तराभिमुखस्तिष्टे द्गुरुर्देवस्य दक्षिणे। 22
ततः प्रणम्य शिष्यस्तं 'रक्ष' स्वेति च मन्त्रतः
समादाय च गव्याद्यं क्रमाद्दस्ते ददेद्गुरोः 23
पुनस्तं प्रणवेनैव प्रोक्ष्याऽदाय समाधिना
आदाय वामहस्ते तं धृत्वा तदितरेण वै 24
न्यस्तं कूर्चं समादाय द्रव्यनाम प्रशंस्य च
मन्त्रान्ते स्रावयेन्मौलौ कूर्चाग्रेण सकृत्पुनः 25
कूर्चेन सार्धं तद्द्रव्यं त्रिः सकृत्वा प्रदक्षिणम्
विष्णु ञ्च स्नामयामीति द्रव्येण स्नापये त्ततः 26
गन्यानां पञ्चकं चात्र ( हारयेत्।ख।ग।() फलोदं पादयोः पुनः
संस्राव्य राजवच्छिष्टैः स्नापयेद थवा हरिम्। 27
ततः कलशमादाय शिष्यस्तं गरुहस्ततः
पूर्वेस्थाने सुसन्न्यस्य करौ प्रक्षा?Rळये त्तथा। 28
'?Rवसोः पवित्र'?R मित्युक्त्वा '?Rअग्न आयाहि'?R मन्त्रतः
'?Rअग्निमीळ' 'इषे' त्वेति 'शन्नो' देवी रिति क्रमात् 29
'अभित्वा' च 'इमा ओष' जपन्, चत्वारिवा' गिति
'तत्पुरुषाय, पूते' ति क्रमा' च्चत्वारि शृङ्ग' तः 30
प्रधानैः स्नापयेद्देव मुपस्नानैस्तदा बुधः
'वारीश्चतस्र' इत्युक्त्वा स्नपयेत्कलशैस्तथा 31
द्रव्यम्प्रति च वस्त्राद्यै र्विभूष्वार्घ्यान्तमर्च्य च
'श्रिये जा' तेति चोक्त्वाऽन्ते हारिद्रैः स्नापये त्तथा 32
ततः प्रणम्य देवेशं कलशेशान् विसृज्य च
शुद्धस्नानोक्तमार्गेण तैलेनै वाभिषेच येत् 33
विमृज्य प्लोतवस्त्रेण श्वभ्रादादाय चाव्ययम्
योगसने सुसंप्‌थाप्य वस्त्राद्यैर्भूओषये त्तथा। 34
समभ्यर्च्य तथाऽर्घा न्त्यं दानं दत्वाऽथ पूर्ववत्
महाहविः प्रभूतं वा निवेद्यात्रैव चाव्ययम्। 35
प्रणम्य दण्डवद्भू मौ प्रार्थना मन्त्रमुच्चरन्


विनोदानत्र कृत्वाऽन्ते गुरुं पश्चात्प्र पूजयेत् 36
पुनरादाय देवेशं कृत्वा धाम प्रदक्षिणम्
जीवस्थाने प्रतिष्टाप्य पूर्वोक्त ञ्चात्र पूजयेत् 37
श्वभ्रादादाय कर्मान्ते कौतुकं यदि मन्त्रतः
जीवस्थाने सुसंस्थाप्य पूजयेद थवा बुधः 38
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे सामान्यस्नपन विधिर्नाम
( कलशाभिषेकं विधिर्नाम पञ्चत्रिंशोऽध्यायः।ग।) षट्त्रिंशोऽध्यायः।