यज्ञाधिकारः/सप्तचत्वारिंशोऽध्यायः

विकिस्रोतः तः
← षड्चत्वारिंशोऽध्यायः यज्ञाधिकारः
सप्तचत्वारिंशोऽध्यायः
[[लेखकः :|]]
अष्टचत्वारिंशोऽध्यायः →

यज्ञाधिकारः।
------------
अथसप्तचत्वारिंशोऽध्यायः
--------------------------
उत्सवप्रायश्चित्तम्
-------------------------
अथोत्सवस्य वक्ष्यामि प्रायश्चित्तं तपोधनाः
अज्ञआनादर्थलोभाद्वा मोहाद्वा यत्प्रमादतः 1
ततद्दोषं मुद्दिश्य प्रायश्चित्तं प्रवक्ष्यते
ग्रामादिषूत्सवं कुर्यात्पूर्यं रुत्रोत्सवं भवेत् 2
पश्चाच्चैवोत्सवं विष्णोः कुर्याद्ग्रामाभिवृद्धये
रुद्रोत्सवे कृते विष्णोरुत्सवेऽत्वकृते सते 3
व्यादिदुर्बिक्षचोराद्यै स्तद्ग्रामस्य च नाशनम्
तद्दोषशमनार्थाय प्रायश्चित्त ञ्च कारयेत् 4
महाशान्ति ञ्च कृत्वाऽन्ते विष्णोरुत्सवमाचरेत्
कालोत्सवे व्यतीते तु पूर्वोक्तं होममाचरेत् 5
कलशैः पञ्चविंशद्भिः स्नापयेद्देवमव्ययम्
महाहविः प्रभूतं वा देवेशाय निवेदयेत् 6
उत्सवोक्तविधानेन पश्चादुत्सव माचरेत्
एकवर्षे व्यतीते तु पञ्चाग्नीं त्साधयेत्क्रमात् 7
आघारं पूर्ववद्धुत्वा वैष्णव ञ्च सुहूयते
ब्राह्मं रौद्र ञ्च हुत्वा तु विष्णुसूक्त समन्वितम् 8
पुरुषसूक्त ञ्च हुत्वा तु होमे होमे प्रतिप्रति
(सप्तत्येकोत्तर ञ्चेव।ग।) सर्वदैवत्यमन्त्रैश्च सभ्याग्नौ जुहुया त्ततः 9
देवस्य स्नपनं कुर्याच्छताष्टकलशैः क्रमात्
महाहविर्नि वेद्यैव महाभूतबलिं ददेत् 10
पश्चाद्विष्णूत्सवं कुर्याद्राजराष्ट्र विवर्धनम्
आचार्यस्यर्त्विगादीनां पूर्वोक्तां दक्षिणां ददेत् 11
द्वितीये द्विगुणं कुर्यात्र्त्यब्दे हीने विशेषतः
पञ्चाग्नीं त्साधयेत्पशअचादाघारं पूर्ववच्चरेत् 12
प्राच्या न्तु विष्णुसूक्त न्तु पुरुषसूक्त न्तु दक्षिणे
एकाक्षरादीनपरि दुर्गासूक्तं तथो त्तरे 13
सभ्ये तु सर्वदैवत्यं हुत्वा शान्तिं तथा चरेत्
देवस्य स्नपनं कृत्वा सहस्रेणाष्टभिस्ततः 14
महाहविः प्रबूतं वा देवेशाय निवेदयेत्
मुखवास ञ्च दत्वा तु महाभूतबलिं ददेत् 15
ब्राह्मणान् भोजये त्तत्र ऋत्विग्भ्यो दक्षिणां ददेत्
एवं कृत्वा प्रयत्नेन विष्णोरुत्सव माचरेत् 16


नवाहं वाऽथ सप्ताहमेकाहं त्रिविधं स्मृतम्
नवाहस्य तु पूर्वोक्तं सप्ताहस्य तथैव च 17
एकाहेतूत्सवे हीने महाशान्तिः सुहूयते
वैष्णवं विष्णुसूक्त ञ्च नरसूक्तं यजे त्ततः 18
शताष्टकलशैः स्नाप्य प्रभूत ञ्च निवेदयेत्
ऋत्विग्भ्यो दक्षिणां दत्वा पुनरुत्स माचरेत् 19
घोषयुत्वोत्सवे हीने सभ्यादीं त्साधयेत्क्रमात्
महाशान्ति ञ्च हुत्वा पूर्वोक्तं होममाचरेत् 20
स्नपनं देवदेवस्य शताष्टसलशैश्चरेत्
महाहविर्नि वेद्यैन दक्षिणा च प्रदीयते 21
तद्ग्रामदेवताना ञ्च बलिं द्विगुणमाचरेत्
महाभूतबलिं दद्यान्मध्यरात्रौ विशेषतः 22
घोषणं पूर्ववत्कृत्वा चोत्सवं सम्यगाचरेत्
घोषणेन विहीनो यद्युत्सवः क्रियते हरेः 23
हुत्वा तु वैष्णवं ध्वाजं प्रत्येक न्तु शताष्टकम्
कलशैः पञ्चविंशद्भिः स्नापयेद्देवमव्ययम् 24
महाहविर्नि वेद्यैव महाभूतबलिं ददेत्
घोषणं पूर्ववत्क्रृत्वा चोत्सवं सम्यगाचरेत् 25
ध्वजारोहे कृते पश्चाद्घोषणं चेत्पुनर्यदि
वैष्णवं ध्वजदेवत्यं चक्रादीना ञ्च हूयते 26
इन्द्रीदीना ञ्च हुत्वा तु देवस्य स्नपन ञ्चरेत्
तद्ध्वजं संव्यपोह्यैव ध्वजमन्यं प्रकल्पयेत् 27
घोषणं पूर्ववत्कृत्वा ध्वजारोहण माचरेत्
उत्सवे घोषणे भेर्याः पतनादिसमुद्भवे 28
चर्मभेदे च तत्काले यष्ट्यादौ पतिते तथा
वादकाना ञ्च पतने हुत्वा वाद्याधि दैवतम् 29
नान्दीश ञ्चैव हुत्वा तु शैषिक ञ्च सुहूयते
भेरीमन्यां प्रकल्प्यैव पूर्वोक्तं घोषणं चरेत् 30
ध्वजे च पतिते भिन्ने तत्काले शान्तिमाचरेत्
ध्वजदैव ञ्च हुत्वा तु चक्रादीनां हुहूयते 31
इन्द्रादीना ञ्च हुत्वा तु वैष्णवेन समन्वितम्
गुरुडस्नपनं कुर्याद्धविर्भिः सन्निवेदयेत् 32
तद्ध्वजं विसृजेद्विद्वान् ध्वजमन्यं प्रकल्पयेत्
पूर्वोक्तविधिना कृत्वा ध्वजारोहण माचरेत् 33
ध्वजे समुच्छ्रिते भिन्ने पतिते दण्डगे तथा
तद्दण्डं तद्ध्वजं त्यक्त्वा ध्वजमन्यं प्रगृह्य च 34
दण्ड ञ्चान्य ञ्च सङ्गृह्य सुदृडं स्थाप्य यत्नतः
हुत्वा तु वैष्णवं ध्वाजं प्रत्येक न्तु शताष्टकम् 35


देवस्य स्नपनं कृत्वा गरुडं स्नापयेद्बुधः
पूर्वोक्तविधिना कृत्वा ध्वजारोहण माचरेत् 36
ध्वजे पूजाविहीने तु उत्सवादिदिनादधः
वैष्णवं ध्वजदैवत्यं शतमष्टोत्तरं यजेत् 37
कलशैः पञ्चविंशद्भिः स्नापयेद्गुरुडं बुधः
ध्वजदेवं सुपूज्यैव प्रभूत ञ्च निवेदयेत् 38
एवं कृत्वा प्रयत्नेन नित्यपूजां समाचरेत्
पूजायाश्चोक्तमार्गेण नित्यं रात्रौ बलिं क्षिपेत् 39
हीने बलावथैकस्मिं त्सर्वदेवाहुतीर्य जेत्
पश्चाद्रादत्रौ बलिं कुर्याद्द्विगुणं बलिमाचरेत् 40
एवं संवर्धयित्वा तु बलिं सम्यक्समाचरेत्
तद्घोषणदिने चैव हीने नित्यबलौ तथा 41
सर्वदेवाऽहुतीर्हुत्वा विष्णुसूक्तं स वैष्णवम्
देवस्य स्नपनं कुर्याच्छताष्टकलशैः पुनः 42
पूर्वोक्तेन विधानेन घोषणादि तथा चरेत्
नवाहं वाऽथ सप्ताह ( पञ्चाहं त्रिविधोत्सवःघ।) द्विधा चोत्सव उच्यते 43
( उत्सवस्यादिरात्रौ तु अङ्कुरार्पण माचरेत्।) तयोरुत्सवयोरादौ रात्रौ तीर्थाङ्कुरार्पणम्
अन्येषां चोत्सवाना न्तु चोत्सवादिदिनं विना 44
तीर्थस्योक्तदिनात्पूर्वं नवमे वाऽङ्कुरार्पणम्
अङ्कुरार्पणहीने तु ब्राह्मं सौम्य समन्वितम् 45
पङ्क्तीशं शैषिकं हुत्वा चक्र ञ्चैव सुहूयते
जयादिनामसंयुक्तं वैष्णव ञ्चैव हूयते 46
पूर्वोक्तदिनहीने तु सद्यः पुष्पाङ्कुरं भवेत्
एक कालेत्सवे हीने वैष्णव ञ्च सुहूयते 47
नरसूक्त समायुक्तं देवानामाहूतीर्यजेत्
ब्राह्मं रौद्र ञ्च हुत्वा तु दीनादीना ञ्च संयुतम् 48
इन्द्रादीना ञ्च हुत्वा तु चक्रादीनां सुहूयते
प्रातरुत्सवमारभ्य पश्चात्सद्य उत्सवं चरेत् 49
साये चोत्सवहीने तु वैष्णव ञ्च सुहूयते
कलशैः प़ञ्चविंशद्भिः स्नापयेद्देवमव्ययम् 50
अपरेऽथ दिने कुर्यादुत्सवं द्विगुणं भवेत्
दिनेनैकेन हीने तु महाशान्तिं यजे त्ततः 51
सभ्ये च सर्वदैवत्यं हुत्वा चैव यथाविदि
स्नपयेत्पञ्चविंशद्भिः प्रभूत ञ्च निवेदयेत् 52
मुखवास ञ्च दत्वा तु पुनरुत्सवमाचरेत्
दिनद्वयोत्सवे हीने शेषं सर्वं समाचरेत् 53
हीनोत्सवस्य शान्ति ञ्च पूर्वोक्तविधिना चरेत्
उत्सव ञ्च पुनः कृत्वा घोषणादि तथा भवेत् 54


पर्याप्ते चोत्सवे यत्र तीर्थे चैव विहीनके
हीनोत्सवस्य शान्ति ञ्च पूर्वोक्तविधिना चरेत् 55
घोषणाद्युत्सवं कुर्यात्पश्चात्तीर्थं समाचरेत्
बलिहीनेत्सवं कुर्याद्वैष्णव ञ्च सुहूयते 56
बलिरक्षकदैवत्यं दिनदैवत्यमेव च
बलिं प्रक्षिप्य तत्काले पुनरुत्सव माचरेत् 57
बलौ भूतबलौ चैव भूम्या ञ्च पतिते यदि
बलिरक्षखमन्त्र ञ्च चक्रादीनां सुहूयते 58
तद्बलिं वसृजेद्विद्वान् बलिमन्यं प्रकल्पयेत्
पूर्ववत्बलिमापाद्य सहचक्रादिना नयेत् 59
उत्सवार्थ न्तु यद्बिम्बं तद्बिम्बे चोत्सवं चरेत्
(बिम्बऽन्ये चोत्सवं कुर्याद्धुनेदुत्सनशान्तिकम् 60
कृत्वा शान्तिं विधानेन पुनरुत्सव माचरेत्
उत्सव ञ्चैव तत्सर्वमौत्सवे तु समाचरेत्) 61
अन्यालयस्योत्सवार्थ मालयस्य बहिर्गते
तदुत्सवे विहीनेऽपि कश्चिद्दैवगतेऽपि वा 62
तदालयगते चैव क्षिप्रं शान्ति ञ्च कारयेत्
तद्दिनाधिपमन्त्र ञ्च चक्रादीनां सुहूयते 63
इन्द्रादीना ञ्च हुत्वा तु ब्राह्मं रौद्र समन्वितम्
विष्णुसूक्त ञ्च हुत्वा तु वैष्णव ञ्च सुहूयते 64
श्री भूमिभ्यामृषिभ्या ञ्च व्याहृत्यन्तं प्रति प्रति
देवस्य स्नपनं कुर्याच्चत्वारिंशद्बिरष्टकैः 65
बलिं प्रक्षिप्य तत्काले पुनरुत्सव माचरेत्
चक्रादीनां तथा कुर्या ( बलि ञ्चैव तथा चरेत्।ग।) द्बलिबेरस्य वै तथा 66
अन्यालयस्योत्सवार्थं कौतुक ञ्च न चालयेत्
उत्सव ञ्चैव मुद्दिश्य त्रिसन्दिषु निवेदयेत् 67
अहीनं चोत्सवं कुर्याद्दिनोत्सव विधानतः
शान्तिं कुर्या त्तथा पश्चात्पुनरुत्सव माचरेत् 68
(रथाङ्गशिभिकायां वा देवमारोपयेद्धरिम्ट
याने रथे गतं देवं गुरुडं होममाचरेत् ? 69
वैष्णव ञ्चैव हुत्वा तु ब्राह्मं रौद्रं सुहूयते।
पूर्वोक्तेन विधानेन पुनरुत्सव माचरेत् ) 70
अन्येषां क्रूरदेवानां यानछत्रादिचामरैः
वस्त्रीभरणपुष्पैर्वा देवेशं नैव चार्चयेत् 71
अर्चयेच्चेत्तदज्ञानाद्देवस्य स्नपन ञ्चरेति
भूमौ च पतिते याने भिन्ने पूर्ववदाचरेत् 72
यानाच्च पतिते बिम्बे वैष्णव ञ्च सुहूयताम्
तद्दिनाधिमन्त्र ञ्च जुहूयाच्च शताष्टकैः 73


कलशैः स्नापयेद्देवं वारिणा चाभिषेचयेत्
भूमौ च पतिते बिम्बे स्नपयेच्च शताष्टकैः 74
कलशैः स्नापयेद्देवं वारिणा चाभिषेचयेत्
वैष्णवं विष्णुसूक्त ञ्च श्री भूसूक्त ञ्च हूयते 75
ब्राह्मणान् भोजये त्तत्र सर्वदेवाहुतीर्यजेत्
अन्नदान ञ्च कृत्वा तु पुनरुत्सवमाचरेत् 76
पीठप्रभापद्मशङ्ख चक्रभूषायुधानि च
शिरश्चक्र ञ्च वन्त्र ञ्च उपाङ्गानि प्रचक्षथे 77
उपाङ्गे च विहीने च योजयित्वा यथाविदि
स्नपनं पूर्ववत्कृत्वा पुनरुत्ववमाचरेत् 78
सौवर्णं राजतं बिम्बं हीनाङ्गंन त्यजेद्बुधः
पुनर्बिम्ब ञ्च तु तत्तद्द्रव्येण कारयेत् 79
तत्तद्द्रव्याधिकं कुर्याद्द्रहीन ञ्च चाचरेत्
स्थापनं पूर्ववत्कृत्वा पश्चादुत्सव माचरेत् 80
चक्रवीशामितान ञ्च बिम्ब ञ्चैव तथा चरेत्
शैलजं दारव ञ्चैव औत्सवं नैव कारयेत् 81
कारयेच्चेत्तदज्ञाना दाभिचारिक मुच्यते
एतद्दोषन्य शान्त्यर्थं प्रायश्चित्त ञ्च कारयेत् 82
पौण्डरीकाग्निमादा (धा) य वैष्णवं जुहुयाच्छतम्
पुरुषसूक्त ञ्च हुत्वा तु विष्णुसूक्त ञ्च वैष्णवम् 83
प्रभूतं बलिमाहृत्य तद्ग्रामे तु बलिं ददेत्
देवस्य स्नपनं कुर्यात्प्रभूत ञ्च निवेदयेत् 84
बिम्बे चैवाग्निना स्पृष्णे वस्त्राभरणयानके
तत्सर्वं विसृजेद्विद्विन् बिम्बस्य स्नपनं चरेत् 85
स्नपयेद्देवदेवेशं पुनर्गन्धोक्त कैरपि
वैष्णवं ब्राह्मसंयुक्तं रौद्र ञ्चैव सुहूयते 86
देवीभ्या ञ्च मुनिभ्या ञ्च चक्रादीना ञ्च हूयते
इन्द्रादीना ञ्च हुत्वा तु पायसादि निवेदयेत् 87
ब्राह्मणान् भोजयित्वाऽत्र पुनरुत्सवमाचरेत्
चक्रादीना ञ्च तेषां वै तत्त न्मन्त्रं तथा भवेत् 88
आचार्य मृतौ तेन विना चेदुत्सवः कृतः
हीनोत्सवस्य शान्ति ञ्च कृत्वाऽथोत्समाचरेत् 89
तस्य शिष्यं समादाय आचार्यत्ये नियोजयेत्
यजमानमृतौ चैव शान्तिं कृत्वोत्सवं तथा 90
राजानं यजमान न्तु सञ्चित्योत्सवमाचरेत्
नृपाणा ञ्च मृतौ चैव बन्धुवर्गमृतौ तथा 91
हीने सत्युत्सवे कुर्याद्दीनोत्सव विधानतः
सूतकप्रेतकादौ च कर्त्रादीनां समागमे 92


पूजयेन्न हि तद्द्रव्यैर्देवब्राह्मणवर्जितैः
तद्द्रव्यवर्जनेनैव उत्सव ञ्चैव समाचरेत् 93
हीने चैवोत्सवे शान्तिं पुनरुत्सव माचरेत्
आचार्यस्य तथाऽऽशौचे चोत्सवे च विहीनके 94
आचार्यस्य नियोगेन तस्य शिष्यः समाचरेत्
पूर्वोक्तशान्तिकं कुर्यात्पुनरुत्सव माचरेत् 95
विष्णोरुत्सवकाले तु अन्यदेवोत्सवे यदि
वैष्णव ञ्चैव रौद्र ञ्च एकाहं यत्र कारयेत् 96
(तत्सङ्करे च निर्दोषमग्रे रुद्रोत्सवं चरेत्
पश्चाद्विष्णूत्सवं कुर्यात्सर्वसंवत्समन्वितम् 97
तद्दोषमनार्थाय विष्णोरुत्समन्ततः?
विष्णोरुत्सवकाले च भद्रकाल्या तु लङ्गिते 98
सुरा मांसश्च रुथिरं भद्रकालीबलिर्बवेत्
देवार्थ ञ्च बलिं कुर्यान्न पैशाचबलिं क्षिपेत् 99
घोषणाद्यवरोहान्तं दिनमेक ञ्च सङ्करे
मोहादज्ञानतो वाऽपि सङ्करे चेद्विनश्यति 100
तद्दोषमनार्थाय प्रायश्चित्त ञ्च कारयेत्
सन्धौ सन्धौ च शोधित्वा गोमयेनोपलिप्य च 101
पुण्याहं वाचये त्तत्र वास्तुहोम ञ्च कारयेत्
वैष्णव ञ्चैव हुत्वा तु ब्राह्मं रौद्र समन्वितम् 102
शान्ति ञ्च हुत्वा तु चक्रादीनां सुहूयते
दिनाधिपत्यमन्त्र ञ्च हुत्वा चैव यथाविधि 103
देवस्य स्नपनं कुर्याच्छतमष्टोत्तरं भवेत्
चक्रादीन् स्नपनं कृत्वा हविर्भिः सन्निवेदयेत् 104
पायसादि निवेद्यैव पश्चादुत्सव माचरेत्
दुर्गालक्ष्म्योः सरस्वत्या उत्सवः क्रियते यदि 105
तत्सङ्करे तु निर्दोषो निष्कृति ञ्चैव माचरेत्
भद्रकाली च शास्ता च सङ्करे) 106
सङ्करे चादिमूर्तेस्तु शान्ति ञ्चैव तथा चरेत्
चण्डालगेयं नृत्त ञ्च देवार्थं नैव चाचरेत् 107
मोहादज्ञानतो वाऽपि कारयेच्चेद्विनश्यति
तद्दोषमानार्थाय क्षिप्रं शान्त ञ्च कारयेत् 108
ग्रामे वा चाऽलये वापि भूमिशुद्धि ञ्च कारयेत्
वास्तुहोम ञ्च हुत्वा तु पुण्याहं वाचयेत्क्रमात् 109
देवस्य स्नपनं कुर्याच्छ ताष्टकलशैः पुनः
चक्रादिस्नपनं कुर्यात्पुण्याहं वाचये त्ततः 110
ब्राह्मणान् भोजये त्तत्र वेदस्याध्यनं चरेत्
अस्पृश्यैः स्पर्शने चैव देवस्य स्नपनं भवेत् 111


वैष्णव ञ्चैव हुत्वा तु पौरुष ञ्च सुहूयते
वैष्णवं ब्राह्मसंयुक्तं रौद्र ञ्चैव सुहूयते 112
छत्रपिञ्चवितानादौ प्रमादाद्येन केनचित्
दहने( पतिते ।अ।क।) पतने चैव तत्राऽग्नेयं सवैष्णवम् 113
चामराणा ञ्च पतने भिन्ने चै वाग्निदूषिते
मायासंह्लादिनीमन्त्रं वैष्णव ञ्च हुनेत्क्रमात् 114
नर्तके गायके चैव देवदासीषु चैव हि
पतिते चाग्निना दग्धे भर्त्सने हननेऽपि च 115
तत्राऽग्नेय ञ्च हुत्वा तु वैष्णव जुहुयात्क्रमात्‍
'श्रिये जा' तेति हुत्वा तु ( वैष्णवम् ।ख।) शैषिक ञ्च सुहूयते 116
वादित्रवादकान ञ्च पतने भिन्नदाहयोः
ऋत्विजा ञ्चैव पतने मुनीनां होममाचरेत् 117
यजमानगुरुक्षोभे ऋषीणां होममाचरेत्
वैष्णव ञ्चैव हुत्वा तु शैषिक ञ्च सुहूयते 118
विग्रहे रक्तसंस्रावे दग्दे चैव मृते जने
ग्रामे चैवाऽलये चापि भूमिशुद्धि ञ्च कारयेत् 119
वास्तु होम ञ्च हुत्वा तु पुण्याहं वाचये त्ततः
वैष्णव ञ्चैव हुत्वा तु चक्रादीनां सुहूयते 120
देवस्य स्नपनं कृत्वा पश्चादुत्सवमाचरेत्
रजः स्वलादौ देवानामुत्सवे समुपागते 121
ग्रामे वा चालये वाऽपि भूमिशुद्धि ञ्च कारयेत्
वास्तुहोम ञ्च हुत्वा तु पुण्याहं वाचये त्ततः 122
वैष्णव ञ्चैव हुत्वा तु चक्रादीनां सुहूयते
इन्द्रादीना ञ्च हुत्वा तु देवस्य स्नपनं भवेत् 123
वेदाध्याय ञ्च कृत्वा तु पश्चादुत्सव माचरेत्
गेयं नृत्य ञ्च वाद्य ञ्च धूपदीपौ तथैव च 124
पञ्चद्रव्यमिति प्राहुस्तद्विना स्यान्न चोत्सवः
मोहादज्ञानतो वाऽपि कारयेदुत्सवं यदि 125
अभिचारिकमुत्युक्तं शान्तिस्तत्रैव हूयते
देवस्य स्नपनं कृत्वा पश्चादुत्सव माचरेत् 126
अग्निपूजाविहीन न्तु कारयेदुत्सवं यदि
अग्निपूजा ञ्च कृत्वा तु पश्चादुत्सवमाचरेत् 127
प्रतिसरबन्धने हीने प्रभाते ? प्रमादतः
वैष्णव ञ्चैव हुत्वा तु सौमदैवत्यमेव च 128
प्रतिसरं बन्धये त्तत्र शेषं पूर्ववदाचरेत्
शयने तत्र हीने तु वैष्णव ञ्च सुहूयते 129
श्री भूसूक्तं ततो हुत्वा शैषिक ञ्च सुहूयते
पूर्ववद्विधिना कृत्वा शयनं सम्यगाचरेत् 130


पञ्चशयनस्य चालाभे प्रत्येकं वस्त्रमास्तरेत्
मूर्धोपधाने हीने तु हुत्वा नागाधि दैवतम् 131
यद्दिने तीर्थमुद्दिष्ट मन्यस्मिन्यदि सम्भवेत्
हीनोत्सवविधानेन तद्दिने तीर्थमाचरेत् 132
कर्त्राचार्यविनाशे तु उत्सवे निष्फलो बवेत्
देवस्य स्नपन कृत्वा शान्तिहोमः सुहूयते। 133
एकाहादधिके चैव एकाहे चोत्सवे यदि
निर्दोषं तत्र कर्तव्यं तद्दिने तीर्थमाचरेत् 134
तैलाभ्यञ्जनहीने तु चूर्णस्नानविहीनके
चूर्णस्नान ञ्च कृत्वा तु हीने चूर्णोत्सवेऽपि वा 135
वैष्णव ञ्चैव हुत्वा तु ब्राह्मं रौद्र समन्वितम्
चक्रीदीनां तथा हुत्वा पश्चादुत्सकव माचरेत् 136
दिवैव तीर्थः कर्तव्यो रात्रौ तीर्थं न चाचरेत्
रात्रौ तु तीर्थकाले तु दिवा तीर्थं न कारयेत् 137
मोहादज्ञानतो वाऽपि विपरीतं भवेद्यदि
ब्राह्मं रौद्र ञ्च हुत्वा तु विष्णुसूक्त ञ्च वैष्णवम् 138
तद्दिनाधिपमन्त्र ञ्च चक्रादीना ञ्च हुयते
पुण्याहं वाचये त्तत्र देवेशं सम्प्रणम्य च 139
दिवा तीर्थविहीने तु तद्दिने वा समाचरेत्
तस्मात्सर्वप्रयत्नेन तत्काले तीर्थमाचरेत् 140
तीर्थान्तस्नपने हीने बलिहीनेऽव रोहणे
एकाहमुत्सवं कुर्यात्स्नापयेच्च शताष्टकैः 141
महाभूतबलिं तद्यात्प्रभूत ञ्च निवेदयेत्
सप्तरात्रविहीने तु ध्वजस्याप्यवरोहणे 142
एकामुत्सवं कुर्यात्स्नापयेच्च शताष्टकैः
पायसादि निवेद्यैव विप्राणां भोजयेच्छतम् 143
सर्वदेवाहुतूर्हु त्वा महाभूतबलिं ददेत्
ध्वजपूजा ञ्च कृत्वा तु ध्वजं तमवरोह येत् 144
उत्सवे मन्त्रहीने च द्रव्यहीने तथैव च
अभिचारिकमुत्युक्तं सर्वशान्ति ञ्च कारयेत् 145
तस्मात्तर्वप्रयत्नेन द्रव्यसम्पन्न माचरेत्
मन्त्रवत् पूजितं द्रव्यमाचार्या यैव सन्ददेत् 146
आचार्यस्यार्हमुद्दिष्टं शिश्यस्य तु न दापयेत्
निष्पलं कर्तृनाशः स्यात्तद्देशं सन्त्यजेद्धरिः 147
इति श्री वैखानसे (उत्तरतन्त्रे) भृगु प्रोक्तायां संहितायां
यज्ञाधिकारे उत्सव प्रायश्चित्त विधिर्नाम
( एकोनपञ्चाशोऽध्यायः।ग।) सप्तचत्वारिंशोऽध्यायः।