यज्ञाधिकारः/अष्टचत्वारिंशोऽध्यायः

विकिस्रोतः तः
← सप्तचत्वारिंशोऽध्यायः यज्ञाधिकारः
अष्टचत्वारिंशोऽध्यायः
[[लेखकः :|]]
नवचत्वारिंशोऽध्यायः →


यज्ञाधिकारः।
--------------
अथाष्टचत्वारिंशोऽध्यायः
----------------------
बालालयनिष्कृतिः।
-----------------------------
अथ ऊर्थ्वं प्रवक्ष्यामि बालागारस्य निष्कृतिम्
बालागारे यथामार्गमर्च्यमाने विचक्षणाः 1
द्वादशाब्दासानान्तात्परं वै बालधामनि
न रमेद्भगवान् पश्चाद्दुर्बलात्कर्तुरत्र वै 2
तद्ग्रामं यजमान ञ्च राजन ञ्च प्रजा अपि
हुत्वैव च हरिर्भानोर्मण्डलं प्रति गच्छति 3
तस्माद्यथोक्तकाले तु मूलागारं सलक्षणम्
कृत्वैव विधिना दीमान् स्थापयेत्तं प्रयत्नतः 4
यथोक्तकाले देवस्य मूलागारसमं भवेत्
महाशान्ति ञ्च सप्ताहं हुत्वाऽन्ते मन्त्रवित्तमः 5
पुनर्बालालयं कृत्वा ऐन्द्रे तस्माद्विशेषतः
द्वादशाब्दावसानान्तं पूजये त्तत्र पूर्ववत् 6
यद्वा तदालये धीमानब्दमब्दं प्रतिप्रति
शान्तिं हुत्वैव सप्ताहं 'क्षम'स्वेत्यत्र चार्चयेत् 7
आदिकाले चु धर्मात्मा स्वबल ञ्च विचार्य च
श्रीघ्रं कर्तुमशस्तश्चेत्कूटा गारेऽर्चये त्तथा 8
कालेन यावता पूर्णं तद्विमानमनिन्दितम्
तावत्कालं न दोषःस्यात्कूटागारे तु पूजने। 9
तस्मात्तु शिल्पशास्त्राक्तशिलयेष्टकयाऽथ वा
कारयित्वैव देवेश मर्चयेत्सर्वशान्तये 10
कूटागारप्रतिष्ठायां सर्वं जङ्गमामाचरेत्
इष्टकागर्भमूले च आद्येष्टकयैव शास्त्रवित् 11
मूर्देष्टकार्हं यत्रापि तत्रार्हं प्रथमेष्टका
ध्रुवबेर ञ्च यत्रार्हं भूमौ गर्भ ञ्च सन्न्यसेत्। 12
अन्यथा चेद्विनाशः स्यात्कर्तुर्भर्तुश्च तत्र च
यदि चेत्तां व्यपोह्यैव महाशान्ति ञ्च कारयेत् 13
इष्टकाभिः शिलाभिर्वा प्राकारादीन्विचक्षणः
जङ्गमेनैव गर्भ ञ्च कल्पयेत्पुर्ववत्सूधीः 14
जीवस्थाने च देवेशं विना रत्नं विचक्षणः
स्थापयेच्चरराशौ वा यथैव तरुणाऽलये 15
बहुभूमियुतं चेत्त द्बालागारोक्तवत् खिले
सङ्कल्प्य पूजयेन्नित्य माद्यन्तौ विग्रहौ विना 16


अनुक्तलोहैः संयोज्य कौतुकादींश्च मोहतः
कृत्वा संस्थापितं चेत्तद्भवत्येवाऽभि चारिकम् 17
तद्दोषशमनार्थाय महाशान्तिं तथा बुधः
हुत्वा सलक्षणं बेरं कृत्वा संस्थापयेद्बुधः 18
स्थानासनशयानानां कोतुकं स्थानकाऽसनम्
कारयेच्छयनं नैव विपरीते त्वनर्तकृत् 19
निर्दोषे प्यर्च्यमाने तु कौतुकादौ विशेषतः
लोहगौरवसंवेशं नाचरेदिति शासनम् 20
मधूच्छिष्टक्रियाहीने वैष्णवं ब्राह्मसंयुतम्
शान्तिं हुत्वा तथा धामान् लोहसंस्कारकेऽपि वा 21
अन्याऽलयार्चितं बिम्ब मज्ञानादालये तथा
स्थापितं चेद्विनाशः स्यात्तस्माच्छान्तिं समाचरेत् 22
अपहायैव तद्बेरं शीघ्रं पूर्वालयेबुधः
तथैव स्थापनं कृत्वा विधिनैव समर्चयेत् 23
ग्रामादीनां विनाशे च नाशे देवालयस्य च
तत्तद्बेरं समाहृत्य चालयेऽन्ये मनोरमे 24
यावत्तत्रार्चनं युक्तं यथालाभं समर्चयेत्
यदि चेत्तद्ध्रुवं पश्चात्सम्पिधायैव रक्षयेत्। 25
शत्रुभिश्चैव नद्याद्यैर्बाधितं यदि चाऽलयम्
आदाय मन्दिरे बेरं शक्तियुक्त ञ्च हेतुना 26
देशे मनोरमे धीमानालयं कल्प्य पूर्ववत्
ध्रुव ञ्च कौतुकं तद्वत्कारमे द्विधिचोदितम् 27
शून्याऽलयं समुद्दिश्य कल्प्यते चान्यदालयम्
दुर्बलो यजमानश्चेल्लाखवेन समाचरेत् 28
अनेकावरणैर्युक्तं बहुभूमि समायुतम्
नष्टं तद्यदि चेत्पश्चाद्गौणमार्गेण चाऽचरेत् 29
तथैव कल्पनं मुख्यं गौणं चान्यद्विशेषतः
अर्चनार्थाय देवस्य भक्तितः शक्ति तश्चरेत् 30
तेनैव सन्ति नो दोषा महूर्तमलमर्चनम्
प्रधानदेवे नष्टे तु न्यानं तत्र न दोषकृत् 31
अनष्टे न्यूनता नष्टं नष्टे न्यूनं न दोषकृत्
उभयोरपि कर्ता तदात्मान ञ्च न वञ्चयेत् 32
बहुस्थलविमानं चेद्दौर्बल्याच्छिथिले गुरुः
कूटागार ञ्च वा कल्प्य संरक्षेत्पूजये त्तथा। 33
अथ वा चैकभूमि ञ्च दौर्बल्येऽपि च कल्पयेत्
स्थानानशयानं वा ध्रुवं संस्थाप्य पूर्ववत् 34
कोतुकं चादिभूमेस्तु जीवस्थाने सलक्षणम्
संस्थाप्य पूजयेदन्ये लौकिकान्मुखमण्डपे 36


संस्थाप्य पूजयेन्नित्यं हविषा सार्थमत्र वै
स्नपनोत्सवाद्यानन्यांश्च प्रादानेन द्विधा चरेत् ? 36
आदाय स्थूपिशूलान्तं मूर्देष्ट कान्यासं मन्त्रवित्
संस्थाप्य द्वितीये विमाने कारयेच्चेन्न दोषकृत् 37
आद्येष्टका ञ्च गर्भ ञ्च द्वार स्तम्बं च सर्वशः
दुष्टं चेदुपयुक्ताश्च शिला अन्यास्त थैव च 38
यत्र प्रतिष्टितो देवस्तत्र सर्वं समाहृतम्
शिलाद्यानन्यतो नेष्ट ? यदिच्छे (धिचे) द्विधिना भवेत् 39
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायायं संहितायां
यज्ञाधिकारे तरुणालयनिष्कृतिर्नाम
अष्ट चत्वारिंशो ऽध्यायः।