यज्ञाधिकारः/षड्चत्वारिंशोऽध्यायः

विकिस्रोतः तः
← पञ्चचत्वारिंशोऽध्यायः यज्ञाधिकारः
षड्चत्वारिंशोऽध्यायः
[[लेखकः :|]]
सप्तचत्वारिंशोऽध्यायः →


यज्ञाधिकारः।
-------------
अथ षट्चत्वारिंशोऽध्यायः
-------------------------
नित्यार्चनप्रायश्चितम्।
-------------------------
अथ नित्यार्चनाया ञ्च प्रायश्चित्तं वदाम्यहम्
शान्त्यर्थमपि सर्वेषां भुक्तिमुक्तिफलप्रदम्। 1
प्रातरर्कोदयात्पूर्यं मध्याह्नेऽस्तमये च वै
कवाटोद्घाटने हीने शीघ्रमुद्घाटये त्ततः 2
अभिवन्द्य तथा शान्तिं नित्याग्नौ वैष्णवं तथा
तत्तद्द्वाराधि देवत्यं श्री भूसूक्तं हुनेत्सुधीः 3
निर्माल्यसोधने हीने ( मार्जिने।ग।) मार्जनोल्लेपने तथा
वैष्णवं वारुणं सूक्तं विष्वक्सेनं हुनेत्क्रमात् 4
नित्यस्नानविहीने तु वैष्णवं वारुणं तथा
अभ्युक्षण ञ्च वा कुर्या द्बिम्बशुद्ध्यर्थमेव च 5
कौतुकं चार्चयेन्मोहात्पुष्पन्यासं विना चरेत्
वैष्णवं विष्णुसूक्त ञ्च गायत्रीं जुहुयाद्बुधः 6
पुष्पन्यास ञ्च कृत्वैव पूजयेत्र्तिषु सन्धिसु
अन्यथा चेद्विनाशः स्यात्पूजकस्य विशेषतः 7
धात्रादिपरिवाराणां तथा नैवार्चयेद्यदि
तत्न्मन्त्र ञ्च हुत्वाऽन्ते विधिनैन समर्चयेत् 8
प्रातः कालार्चने हीने मध्याह्ने द्विगुणं तथा
प्रातर्मध्याह्नेयोर्नीने साये त्रिगुण मर्चयेत् 9
द्व्यहे तु द्विगुणं पश्चात्र्त्यहे तु त्रिगुणं बुधः
एवं तद्द्वादशाहान्तं वर्दयेच्छान्ति संयुतम् 10
अतीते द्वादशाहे तु सभ्याग्ने च विशेषतः
वैष्णवं विष्णुसूक्त ञ्च श्री भूसूक्त समन्वितम् 11
हुत्वा च पार्षदैः सार्धं स्नापयेत्स्नपनोक्तवत्
ध्रुवबेरं समभ्यर्च्य 'शन्नो दे' वीति मन्त्रतः 12
देवात्सर्वां मभ्यर्च्य हविः सम्यङ्नि वेदयेत्
मासहीनं यजि भवेम्नश्चाग्रे सलक्षमम् 13
सभ्याग्नि ञ्च समादाय सप्ताहं शान्तिमाचरेत्
शताष्टकलशैर्देवं संस्नाप्याभ्यर्च्य मन्त्रवित् 14
प्रभूत ञ्च निवैद्यैव 'क्षम" स्वेत्यभिवादयेत्
एवं मासे प्रकुर्वीत द्विमासे द्विगुणं तथा 15
त्रिमासे त्रिगुणं प्रोक्तं वर्दयेद्वत्सरान्तकम्
पुनः प्रतिष्ठामब्दान्ते प्रतिष्टोक्त विधानतः 16


अक्ष्युन्मेषाधिवासौ द्वौ हित्वा सर्वं समाचरेत्
हविर्निवेदने हीने क्षी भूसूक्त समन्वितम् 17
वैष्णवं पौरुषं हुत्वा द्विगुण ञ्च निवेदयेत्
एवं संवर्दयेद्थीमान् षण्मासान्तं विशेषतः 18
षण्मासान्ते जनाः सर्वे नाशं यान्ति क्रमाद्ध्रुवम्
मूर्तिहोमविहीने तु मूर्तिमन्त्रं सवैष्णवम् 19
हुत्वाऽन्ते द्विगुणं दीमान् पावक ञ्च सुरक्षयेत्
अशक्तो यदि नित्याग्निरक्षणे पू-जकस्सदा 20
आत्मन्यारोप्य तात्काले लौकिकेऽप्यवरोपयेत्
अवरोप्य तथा हुत्वा रात्रिहोमवसानके 21
आत्मन्यारोपयेदर्वाग्यथा कौतुकवत्सुधीः
सोपदंशं हविः पक्वं प्रातरर्कोदयात्पुनः 22
निवेदित न्तु सोष्णं चेत्तधैवास्तमयात्पुनः
(शैलादिसम्भवे ? ग।) केशादिदुष्टे यन्मोहात्तेम्बूले च निवेदिते। 23
विसृज्यान्यत् समादाय शान्तिं हुत्वा निवेदयेत्
नित्योत्सवविधानेन प्रायश्चित्तं मया पुरा 24
निरुक्ते विस्तृतं विश्वमाचरेन्मतिमां स्तथा
स्नपन ञ्च तथा प्रोक्तं नित्यं नैमित्तिकं क्रमात् 25
काम्य ञ्चेति द्विजादीनां रक्षणाय भवन्ति वै
विषुवाद्यानि नित्यानि ग्रहणाद्यं निमित्तवत् 26
काम्यान्यन्यानि शिष्टानि क्रमात्स्युर्वेदपारगाः
तत्तत्स्नपनहीने तु वैष्णवं वारुणं तथा 27
विष्णुसूक्त ञ्च हुत्वाऽन्ते तत्तत्स्नपन माचरेत्
आलयस्योत्तरे वाऽग्रे स्वपनागार मुत्तमम् 28
ईशान्ये मध्यमं प्रोक्तमधमं याम्यवारुणे
नाचरेदन्यकोणेषु मोहाच्चेदाभि चारिकम् 29
तस्माच्छान्तिं तथा हुत्वा यथोक्ते सम्यगाचरेत्
सन्ध्याकाले तु सम्प्र्तापे स्नपनादौ विशेषतः 30
नमित्तिकं समाप्यैव पश्चान्नित्यं समाचरेत्
स्वपनात्पूर्यरात्रौ तु विना चेच्छयनादिकम् 31
वैष्णवं नरसूक्त ञ्च श्रू सूक्तं हुनेत्क्रमात्
पूर्वमेव तु तत्काले केवलं कौतुकं बुधः 32
(बिम्बस्य ।ग।) सम्बद्य स्नपनं पश्चात्कारयेद्विधिवद्बुधः
कौतुकेऽप्येकबेरे तु तत्कालात्पूर्व एव तु 33
रक्षाबन्ध ञ्च कृत्वैव सद्यः स्नपनमाचरेत्
कृतेऽङ्कुरार्पणे पश्चान्नातरेत्स्नपनं यदि 34
तथा शान्ति ञ्च हुत्वाऽन्ते स्नपनं सम्यगाचरेत्
कौतुके तु ध्रुवार्चायां स्नापने तु विशेषतः 35


(घ।आदर्शेऽधिकः पाठः।) (अङ्कुरानर्पणं नैवकारयेदिति केचन
श्वभ्रे प्रमाणहीने च पङ्क्तिपालि ? विशेषतः) 36
पङ्क्तीशं वैष्णवं हुत्वा विधिना सम्यगाचरेत्
मृदादिद्रव्यहीने तु अधिके च विपर्यये 37
गव्यादिद्वादशद्रव्यहीने शान्तिं तथा हुनेत्
साधिते कलशे भिन्ने प्रमादात्तद्व्यपोह्य च 38
अन्यदादाय सम्पूज्य क्रमेणैव समर्चयेत्
द्रव्येषु साधितेष्वेव कृमिकीटादि सम्भवे 39
व्यपोह्यान्यत्समादाय शान्तिं हुत्वा समाचरेत्
यथोक्तस्त्रालाभे तु अष्टौ चत्वार एव वा 40
सम्भृत्य स्नपनं पश्चाद्विधिनैव समाचरेत्
तैलाभ्यङ्गं यदि स्याच्चेत्स्नपनादौ तु मोहतः 41
वृधा स्यात्स्नपनं विध्धितत्कर्म त्वासुरं भवेत्
तस्मात्संस्नाप्य शुद्धोदैः 'क्षम' स्वेत्यभिपूज्य च 42
महाशान्तिं तथा हुत्वा ततः स्नपनमाचरेत्
देव्यौ तत्स्नपने कालेस्नपनं सहचेद्यदि 43
वृधा भवति तत्स्नानं राष्ट्रस्य कलहप्रदम्
स्नापने स्नपने देव्यौ ( काले तु स्नपने।ग।) कलशस्नापने भुधः 44
नाचरेद्यदिचेन्मोहाद्बाध्यन्ते व्याधिभिर्जनाः
तस्माच्छान्ति ञ्च हुत्वैव 'क्षम' स्वेत्यभिवन्द्य च 45
देवदेव ञ्च संस्नाप्य प्रभूत ञ्च निवेदयेत्
सहपीठे प्रतिष्ठा चेत्स्नपनान्ते तु पूर्ववत् 46
शुद्धोदैर्देवदेव्यौ च स्नापयेत्कलशं विना
अत्राप्यनुक्तं यत्सर्वं विस्तृतं तत्परा खिले 47
तथा चरेत्क्रियामार्गं प्रायश्चित्तं विचक्षणः
इति श्री वैखानसे भगवचछास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञआधिकारे ( स्नपनप्रायश्चित्तविधिर्नाम द्विचत्वारिंशोध्यायः।ग।) अर्चना प्रायश्चित्तविधिर्नाम
षट्चत्वारिंशोऽध्यायः