सामग्री पर जाएँ

यज्ञाधिकारः/पञ्चचत्वारिंशोऽध्यायः

विकिस्रोतः तः
← चतुश्चत्वारिंशोऽध्यायः यज्ञाधिकारः
पञ्चचत्वारिंशोऽध्यायः
[[लेखकः :|]]
षड्चत्वारिंशोऽध्यायः →



यज्ञाधिकारः।
-------------------
अथ पञ्चचत्वारिंशोऽध्यायः।
--------------------------
प्रतिष्ठाप्रायश्चित्तविधिः।
--------------------------

अत ऊर्ध्वं प्रवक्ष्यामि प्रतिष्ठानिष्कृतिं बुधाः
अस्याधानस्य देवस्य शान्त्यर्थं दोषकर्मणाम् 1
अस्य चाग्नेः समूर्तस्य नित्यनैमित्तिकादिषु
कारयेद्विधिना धीमानङ्कुरार्पण पूर्वकम् 2
अङ्कुरार्पणहीन (चेच्छून्यम्।ग।) चेदन्यत् भवति कर्म च
तस्माच्छान्ति ञ्च हुत्वैव कुर्यादङ्कुर पूर्वकम् 3
कृत्वैव पीठसङ्घातपूर्वं चैवाक्षिमोचनम्
रत्नानामप्यलाभे तु सुवर्णं वा विनिक्षिपेत् 4
अक्षिमोचनकाले तु क्रियाहीने विपर्यये
गवादिद्रव्यहीने तु शान्तिं हुत्वैव चाचरेत् 5
गव्याधिवासने हीने हीने क्षीराधिवासने
तत्तद्दैवत्यमन्त्र ञ्च शतसो जुहुयात्पुनः 6
घटमापूर्य तद्द्रव्यैः समभ्यर्च्याभिषिच्य च
( ततस्त्रियहवेकाहं पञ्चाहमधि वासयेत्।) ततस्तं कुम्भमेकाहमहा वाऽ.़प्यधिवासयेत् 7
यज्ञालये च वेद्यादावन्यदेशेऽधिके सति( वैष्णवं भूमिदैवत्यं विष्णुसूक्तं यजेत्तथः
यथाविदि कृत्वा सम्भारानप्यसङ्कुलान्
सम्भृत्य विधिना धीमान् तत्तन्मन्त्रान् प्रकल्प्य च
तस्मात्तद्दक्षिणाग्नौ तु 'जातवे' देति मन्त्रतः
पश्चादाहवनीये तु पश्चिमे सामवेदतः?
'आयन्ते' आवसत्थ्ये तत्पश्चिमेन्यात्क्रमात्सुधीः
तत्पश्चिमाग्नेः सभ्ये तु 'मयि गृह्मामि मन्त्रतः
'घृतप्रतीक' इत्युक्त्वा अब्जाग्नौ पश्चिमात् ततः
अङ्गं न्यस्य ? तथाऽऽघारं हुत्वाऽन्ते वैष्णवं यजेत्
विपरीतं यदि स्यात्तत् क्रुद्धो भूयान्नावालये
अग्नेयं वैष्णवं हुत्वा तत्तदग्न्यधि दैवतम्
आज्यस्थाल्यां चरौ वाऽपि कृमिकीटादि सम्भवे
तद्व्यपोह्यान्यमादाय प्राजापत्यं हुनेत्क्रमात्
अनुगतेऽ ग्नौ ततः पश्चाद्गुरुरग्निं प्रणम्य च
'आयन्ते येनि' रित्युक्त्वा आत्मन्यारोपणं तथा
लौकिकाग्निं समादाय प्रज्वाल्य हृदया त्तथा


लौकिकाग्निं समादाय प्रज्वाल्य हृदया त्तथा
अवरोप्यैव तन्मन्त्रात् विच्छिन्नं वैष्णवं युजेत्
अत्राप्यनुक्तं यत्सर्वं विमृष्टं तन्मया खिले
तथा चरेद्रुरुर्धीमान् प्रायश्चित्तं हुनेत्क्रमात्
ग।आदर्शेऽधिकः पाठः।)
प्रमाणहीने कुम्भे च स्पुटितादियुतेऽपि च 8
धान्ये वस्त्रे च रत्नादौ हीने चेन्नरमेद्धरिः
तस्माद्यथोक्तं सङ्कल्प्य नरसूक्तं स वैष्णवम् 9
श्री भूसूक्तं महाशान्तिमन्त्रं हुत्वा तथाऽऽचरेत्
तथैव साधितं कुम्भं भिन्नं चेत्तु प्रमादतः 10
अन्यं कुम्भं समादाय सादयेत्पूर्ववद्गुरुः
अस्पृश्यैर्यदि च स्पृष्टे बिम्बे तु स्वपनं चरेत्। 11
होमद्रव्ये तु संस्पृष्टे बिम्बे तु स्नपनं चरेत्
सप्तभिः कलशैः पश्चा त्स्नायेत्कौतुकादिकान् 12
विपर्यासे च हीने च तथा शान्तिं समाचरेत्
शय्यास्थानविपर्यासे चाण्डजादि विपर्यये 13
धान्यानामप्यलाभे तु उपधान विपर्यये
वैष्णवं तत्तद्दैवत्यं श्री बूसूक्त समन्वितम् 14
व्याहृत्यन्त ञ्च सभ्याग्नौ हुत्वाऽन्ते विधिना चरेत्
हौत्रशंसनकाले तु विपरीतेऽथ सङ्कुले 15
निर्वापे चाहुतीना ञ्च शान्ति हुत्वा तथा चरेत्
शयनाद्देवदेव्योश्च मोहादुद्थापने सकृत् 16
श्री भूसूक्त ञ्चतुः कृत्वा शाययेत्पूर्ववत्सुधीः
तथैवाध्ययने हीने परिषद्देवतार्चने 17
नृत्तगीयादिहीने च तत्तन्मन्त्रं क्रमाद्धुनेत्
प़्चप्रतिष्ठाकाले तु स्नापन औत्सवे ऽपि च 18
अङ्कुरार्पणमारभ्य अशौचन( भवेद्गुरो) लभेद्गुरुः
आत्मीयाघं पराघ ञ्च न लभेत्सर्वकर्मसु 19
गुरोश्च ऋत्विजां वाऽपि यावत्कर्मावसानकम्
यदि स्यादन्ते चाषुः दोषो नास्ति न संशयः 20
तदाहुः स्मृतिकाराश्च सम्भाराहणादिकम्?
स्थापकानां गुरोश्चापि ऋत्विजा ञ्च विशेषतः 21
भर्त्सनं हननाद्य ञ्च सम्भवद्यदि नाशकृत्
वैष्णवं विष्णुसूक्त ञ्च पौरुषं सूक्तमेव च 22
ब्राह्मं सारस्वतं हुत्वा अभिवन्दायनु मानयेत्
अल्पदक्षिणको यागः कर्तारं हन्त्यसंशयः 23
यागस्य दक्षिणा जीव स्तस्मात्सम्यग्ददेद्बुधः
रत्नन्यासविहीने तु पूजावेद्यां विशेषतः 24


सुवर्णं वा विनिक्षिप्य वैष्णव ञ्चापि हूयते
नित्याग्निस्थापने हीने सभ्याग्नौ च विशेषतः 25
प्रायश्चित्तं महाशान्तिं कृत्वा मथितमाहरेत्
अघारान्ते तधा शान्तिं वैष्णवं व्याहृतिं तथा 26
हुत्वाऽन्ते च सुसंरक्ष्य नित्यहोमं समाचरेत्
कुम्भाद्ध्रुवे समावाह्य कौतुकादिषु तत्क्रमात् 27
ध्रुवादावाह्य मन्त्रज्ञः पूजयेन्नाप्यनर्थदः
कौतुके स्थापने पश्चादौत्सवे तद्ध्रुवात्क्रमात् 28
आवाहये त्तथा मन्त्री बलिबेरे तथा चरेत्
समभ्यर्च्य तथा मन्त्री स्तुत्वा भक्त्या जनार्धनम् 29
परिवारांस्तथाऽऽ वाह्य कुम्भान्मन्त्री तथाऽर्चयेत्
इति श्री वैखानसे भगच्चास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे प्रतिष्ठाप्रायश्चित्त विधर्नाम़
(भवेद्गुरोः) पञ्चचत्वारिंशोऽध्यायः।