यज्ञाधिकारः/पञ्चविंशोऽध्यायः
← चतुर्विंशोऽध्यायः | यज्ञाधिकारः पञ्चविंशोऽध्यायः [[लेखकः :|]] |
षड्विंशोऽध्यायः → |
अथ पञ्चविंशो ऽध्यायः
अथ ऊर्ध्वं प्रवक्ष्यामि यागाशाल विधिक्रमम्
आलयात्पूरतो वाऽपि दक्षिणे वा मनोरमे। 1
मण्डपं वाऽथ कूटं वा कृत्वा वासाधिकारवत्
चतुर्द्वारसमायुक्तं दर्शनीय ञ्च कारयेत्। 2
प्रापा चेत्किष्कुहस्तेन नन्दधातुरसेन वा
विस्तारयाम संयुक्तं चतुरश्रं समं स्थालम्। 3
कृत्वा च दर्भरज्ज्वा वा मौञ्ज्या वा तदृजुं समम्
बिल्वकीलां त्सुवंस्थाप्य दशरज्जुं प्रसारयेत्। 4
प्रागन्ताश्चेत्तरान्ताश्च रज्जुरण्ठद्वयान्विते
कीलान् कीले समाबद्ध्य अचलं सुदृडं क्रमात्। 5
प्रसार्य पूर्वं प्रागन्ताः पश्चात्तदुपरि क्रमात्
उदगन्तास्तथा मध्ये तेनैव गणयेत्पदान् 6
चतुश्शूले चतुष्टट्के वसुसन्धौ यथा क्रमम्
स्थापयेत्क्रमशः स्तम्भान् क्रमुकाद्यैर्मनोरमैः 7
दशतालमर्कतालं वा स्तम्भानामुन्नतिर्भवेत्
प्रागन्ताश्चोत्तरान्ताश्च सन्न्यसेत्पट्टिकाः क्रमात्। 8
ना?Rळिकारदलै रन्ध्रान् सञ्छाद्य प्रागुदङ्मुखम्
वर्षवारणकूट ञ्च (रक्षार्थ ञ्चैव कारयेत्।ग।) विना केचिद्वदन्ति च 9
(वर्षवारणकूट ञ्च द्वितालके। समाचरेत्।) कारयेच्चेत्पलालैस्तमच्छिद्रं (छादयेत् ।ख।) कारयेत्क्रमात्
मध्ये नवपदं ब्राह्मं शयन स्थानमीरितम्। 10
बिम्बाध्यर्धप्रमाणं वा भित्तिमानमथापि वा
प्रागादि परितो भागान् पदान् द्वाराय सन्न्यसेत्। 11
ब्रह्मंशा त्त त्तृतीयांशे सभ्यं श्रामणकाग्निवत्
कारयेत्तत्पदात्पूर्वं कुण्डमावाहनीयकम् 12
औपासनाग्निवद्धीमा नाग्नेय्यां मध्यमे पदे
पौण्डरीकाग्निकुण्डं तद्द्वादशाङ्गुल मुच्छ्रयम्। 13
अष्टादशभिरध्यर्धै रङ्गुलीभिर्भ्रमीकृते
वृत्तं तदूर्ध्ववेदिःस्यादेकैकं भागमुन्नतम्। 14
ऊर्ध्वमध्यमविस्ता रमाश्रमाङ्गुलमेव च
षडङ्गुलवीशालं तदधोवेद्यास्तु लक्षणम्। 15
दलैः षोडशभिर्युक्तं कृत्वा निम्नं दशाङ्गुलम्
तस्मात्प्रतीच्यां भागांशे पदे ( पूर्वोक्तवत्।ग।अ।ख।) सूत्कोक्तवत्सुधीः। 16
अन्वाहार्यं तथा कुर्यात्तस्माज्जाति पदे पुनः
चतुस्तालमायामं तालोत्सेधं समस्थलम्। 17
कृत्वा सम्भारवेदिः स्यादुदीच्यामाश्रमे पदे
कृत्वाऽथ गार्हपद्यं तत्सूक्रोक्तविधिना भुधः। 18
तस्माज्जातिपदे साक्षा त्कुम्भार्चायै प्रकल्पयेत्
तस्मात्प्राच्यां युगांशे तु चावसथ्यं स लक्षणम्। 19
कृत्वा सूत्रोक्तवद्धीमानै शान्ये श्वभ्रमाचरेत्
बहिर्गते पदे धीमा नष्टाविंशत्पदेषु तत्। 20
देवानां पार्षदां स्थानं शिष्टाः सञ्चारणाय वै
तोरणं पूर्णकुम्ब ञ्च दीपाङ्कुर समायुतम्। 21
द्वारे द्वारे विभूष्यैव वितानाद्यैर्वि भूषयेत्
दर्भमाला समायुक्तं बालध्वज समायुतम्। 22
पुष्पमालादिभिश्चान्यै र्भूषयेद्धर्शनीयकम्
गोमयेनोपलिप्यैव सर्वतः समलङ्कृतम्। 23
(रूपवर्णैः।) पञ्चवर्णैरलङकृत्य तण्डुलानवकीर्य च
सर्वेषां परिवाराणां तत्तदालय सन्निधौ। 24
कुण्डमौपासनं पश्चाच्छायनं हौत्रशंसनम्
वृणीयुरथ वा विष्णोः काले वै हौत्रशंसने। 25
आवाह्यान्तेऽथ वा सर्वपरिवारां त्समाह्वयेत्
पञ्चाग्नीन् पौण्डरीकेण सार्ध ञ्चे दुत्तमं विधुः। 26
गार्हपत्य तथा प्राच्या मन्वाहार्यमतः परम्
औपासनाग्निकुण्ड ञ्च मध्यमं तेषु चेद्बुधः 27
प्रधानं गार्हपत्यं स्या त्सभ्यवद्धौत्रशंसने
सभ्यमेकाग्निगुण्ड ञ्चे दधमं परिचक्षथे 28
पौण्डरीकाग्निना सार्धं यज्ञे चास्य हरेः प्रभोः
सह चेत्प ञ्च बेराणां प्रतिष्ठाऽत्र विशेषतः। 29
सहैकवेद्यां कुम्भ ञ्च ( कुर्यादेवम्।ख।) कुर्यादद्ध्याने (नं) तथै व
अन्यथा चेद्विवश्यन्ति प्रादुर्भाव ञ्च लौकिकम् 30
यदि स्वाद्विधिव ( धीमान्।क। ) पृथगेव समाचरेत्
स्नात्वा पदार्थिनः सर्वे सायं सन्ध्यामुपास्य च 31
यागशालं प्रविश्यैव दक्षिणे चोत्तरामुखः
आचार्यमभिवाद्यैव ब्रह्मसन समन्वितम् 32
( अधाय, ) आस्थाय चोर्ध्वपुण्ड्रं तत्प्राणायाम ञ्च धारयेत्
गायत्रीं सशिस्का ञ्च तत्सव्याहृतिकां क्रमात् 33
पठेत्र्ति रायतप्राणः प्राणायामः स कथ्यते
द्विजश्चेद्यजमानस्त त्कृत्तैवं गुरुसन्निधौ। 34
भूसुरानुज्ञयाऽन्ये तु वृणीयुस्तु पदार्थिनः
आचार्येण तथा धीमान् पूर्वाह्णे तु विशेषतः 35
यञ्जीत कर्मण्यध्वर्यून् पश्चात्कर्म समाचरभेत्
अधिवासगतं देवं सयह्ने सम्प्रणम्य च 36
( सन्ध्यामुपास्य।) समुत्थाप्य तत्तीरे स्थापयेत्क्रमात्
शुद्धोदैरभिषिच्यैव वस्त्राद्यैरपि भूषयेत् 37
याने वाऽथ रथे वाऽथ समारोप्य स लक्षणम्
ग्रामं प्रदक्षिणं कृत्वा यागशालं प्रविश्य च 38
पश्चिमेऽल कृते पीठे स्थापये त्प्राङ्मुखं प्रभुम्
प्रणम्यैव तथा धीमान् पश्चात्कर्म समारभेत्। 39
अथाङ्कुरार्पणादूर्ध्वं स्नात्वा स्नानविधानतः
वैष्णवं नरसूक्त ञ्च चतुर्वेदादि मन्त्रकम्। 40
( यथाकामम्।ग।) यथाक्रमं जपित्वाऽन्ते ब्रह्मयज्ञ मथाचरेत्
त्रिरात्रमुपवासं वा पादकृच्छ्रमथापि वा 41
एकाहमुपवासं वा सर्वपापपनुत्तये
चरित्तैवं गुरुर्धीमान् कर्मान्तं यावदेव च 42
गुरोन्तस्य विशेषेण यावत्कर्म समाप्यते
तावदङ्कुरमारभ्य द्विधाशौचं न लिप्यते। 43
तथैव ऋत्विजां वापि यजमानस्य तस्य च
यावत्कर्मावसानान्तं नास्ति तावदघं तयोः 44
प्रतिष्ठोक्तदिनात्पूर्वं कारयेद्द्विजभोजनम्
अष्टोत्तरशतं मुख्यं तदर्धं मध्यमं भवेत्। 45
अधमं सप्तविंशच्च यथाशक्ति यथाबलम्
तद्भोजनान्ते धर्मात्मा साधयेत्पावकं बुधः 46
मथितं लोकिकं वाऽथ समाहृत्य च पावकम्
पश्चद्रात्रौ विशेषेण वास्तुहोमं समारभेत्। 47
आलयस्योत्तरे वाऽथ शालायाश्चोत्तरे ऽथ वा
कुण्डं श्रामणं कल्प्य आघारं पूर्ववच्चरेत्। 48
'वस्तोष्प तेति मन्त्रौ द्वौ भूमियज्ञद्वयं क्वचितम्
पश्चाद्भूम्याश्च दैवत्यं व्याह्यत्यन्त ञ्च हूयते। 49
अहमग्नेति मन्त्रेण उल्कयाग्निं प्रगृह्य च
'दहनादशुन्धः शु' धेति पर्यग्निं करायेद्बुधः। 50
विश्वतश्च विशेषेण पुण्याहमपि वाचयेत्
पश्चादग्निं परिस्तीर्य वारुणान्त ञ्च वैष्णवम्। 51
सहव्याहृतिभिर्हुत्वा अन्तहोमन्तथा चरेत्
ततस्तद्गार्हपत्याग्नौ ( सूत्रोक्त।ग।) पूर्वोक्तविधिना बुधः। 52
हुताशनं प्रितिष्टाप्य वर्धयेद्गुरुणालयम्(दनलं गुरुः)
गुरुणा वर्धयित्वाऽन्ते समाहूताश्च ऋत्विजः 53
प्रणायुर्गार्हपत्याद्यां स्तदाश्रयण मन्त्रवत्
यमेन्द्रयक्षराजिषु ? मध्येऽग्नो दिक्षु वै कृते 54
'जातवेदोऽग्न आयाहि, अयन्ते, मयि, चैव हि
'घृतप्रतीक' इत्येतैर्मन्त्रैरग्निं निधापयेत् 55
पश्चिमादनलान्मन्त्री गृहीत्वा स्थणिडिले क्रमात्
प्रणीय सर्वहोमानामाघारादौ विशेषतः 56
वक्ष्यामि होममाणामाघिदेवान् द्विजोत्तमाः
वसुधा सिकतस्येन्दुः स्थण्डिलेषु बर्हिष्वथ 57
मुनयो वरुणो वारि वायुर्विहरणे तथा
वेदाश्चाग्रे तु कूर्चन्य हरिर्ग्रन्धौ हरस्तथा। 58
चतुर्णां परिस्तराणामधिपः क्रमशो हरिः
परिधीनामुत्तरान्तं दक्षिणापश्चिमादिकम्। 59
गन्धर्वेन्द्रजलेशेशाः करके पाञ्चभौतिकम्
(पर्णस्य ?ग।) तर्पणस्याऽनलो ? ज्ञेय ऊर्ध्वयोरग्निवेदसौ। 60
ईशेन्दौ वर्षिष्ठाभ्यां त्रयो ( मूर्तिः ?) मूर्ध्नि पवित्रयोः
दध्याज्यस्थाल्योर्भूमिर्जुह्वाश्च श्रीरुदाहृता। 61
स्रुवस्य चाधिपोऽथर्वा पात्रेऽन्ये वासुकिः स्मृतः
प्रणिध्योर्ब्रह्मसोमौ च दक्षिणोत्तरयोरपि। 62
आज्यस्याग्निश्चरोरीशः सर्वेदेवास्तथा क्रमात्
अन्येषां होमद्रव्याणामधिपः स पितामहः। 63
समिधामेकविंशानां देवास्सर्वे इति स्मृताः
पलाशबिल्पन्यग्रोधः शमी चौदुम्बरः क्रमात् 64
अश्वत्थः खादिरश्चेति समिधः सप्तकीर्तिताः
( अग्निः श्रीर्यमथर्वेषां सोमार्के वेधसाधिपान्।) अग्निः श्रीः समया येषां सौम्यार्कौ वेधसाधिपौ 65
द्विरेखासहिते कुण्डे ऊर्ध्वाधो विधिवेदसौ
प्रजापतिरथाग्न्यादौ सभ्यादिष्वधतो ? वसून्। 66
गर्तेन्दुः षण्मुखो रेखाहोमकार्ये विशेषतः
बुद्ध्वाऽधि दैवतं मन्त्री तत्तत्कर्मणी कारयेत्। 67
यदि स्यादन्यथा नाशः कर्म कर्ता च नश्यति
इति श्री वैखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे यागशाला विधिर्नाम
( चतुर्विंशोऽध्यायः) प़ञ्चविंशोऽध्यायः