यज्ञाधिकारः/षड्विंशोऽध्यायः

विकिस्रोतः तः
← पञ्चविंशोऽध्यायः यज्ञाधिकारः
षड्विंशोऽध्यायः
[[लेखकः :|]]
सप्तविंशोऽध्यायः →


श्री वैखानसभगवच्छास्त्रे, भार्गवे
अथषड्विंशोऽध्यायः
-------------------------------
आघारविशेषः

अथाघारविशेष ञ्च प्रवक्ष्यामि तपोधनाः
प्रणीधी द्वे निधायैव उत्तरप्रणिधौ जले। 1
अग्न्यादिपरिषद्देवां त्समावाह्य ततः परम्
गार्हपत्ये गार्हपत्य यज्ञं( यज्ञदैवमित्यपि ।ग।) यज्ञाधि दैवतम्। 2
ओं भूः पुरुष ञ्चेति अच्युत ञ्चेति च क्रमात्
अन्वाहार्यकमित्युक्त्वा अन्याहार्ये तथैव तम्। 3
यज्ञदैवतविश्वेति ओं भुवः पुरुषं क्रमात्
सत्य ञ्चेति समावाह्य जुष्टाकारं तथा यजेत् 4
आहवनीयमित्युक्त्वा यज्ञदैवतमित्यपि
ओं सुवः पुरुष ञ्चेति पुरुषमावाह्य दैवतम्। 5
पश्चात्तथाऽवसथ्याग्निं यज्ञदैवतमित्यपि
ओं महः पुरुषं पश्चादनिरुद्धमपि क्रमात्। 6
सभ्याग्निं यज्ञदैव ञ्च ओं जनः पुरुषं तथा
विष्णु ञ्चेति तथा सभ्ये समावाह्य यथाक्रमम्। 7
अब्जाग्नौ पौण्डरीकं तद्यज्ञदैवतमित्यपि
ओं तपः पुरुषं पश्चाद्वासुदेवमतःपरम्। 8
........... ............ ............. ...........
ओं सत्यं पुरुष ञ्चेति नारायणमिति ब्रुवन्
समावाह्य च निर्वाप्य तदाज्यं जुहुयातक्रमात्। 9
अथ ( होमाधिदेवस्य।ग।) देवाय होमस्य पावकस्य महात्मनः
ध्यानं वक्ष्ये यथापूर्वं यथाशक्ति यथाविधि। 10
अथ किंशुकपुष्पाभं शकपिञ्चाम्बरान्वितम्
सर्वाभरण संयुक्तं ज्वालामाला समाकुलम्। 11
एव न्तुं माहिषास्येन तं तथा जातवेदसम्
द्विशीर्ष ञ्च चतुःशृङ्गं द्विश्रोत्र ञ्च द्विनासिकम्। 12
चतुर्णेत्रं सप्तहस्त मेकायतनचेतसम्
त्रिपादं मेखलोपेतं दण्डकृष्णाजिनान्वितम् 13
अत्यन्तसूक्ष्मबिसिनी समयज्ञोपवीतिनम्
स्वाहास्वधाभ्यामासीन मासने दर्भसंस्तरे 14
कपिध्वजं ( वृषारूढम्।) मेषारूढं सर्वदेवगणावृतम्
कुण्डमध्ये तथाऽऽसीनं ब्रह्मासन सुखोचितम् 15
( सप्चजिह्वाल ? ग।) सप्तहस्त न्तु जटिलं पश्चिमां दिशमास्थितम्


हस्ते तु दक्षिणे शक्तिं वरदं स्रुक्स्रुवीनपि 16
वामे जुहूमुपजुहूं गदां बिभ्रन्तमादरात्
एवं ध्यात्वा ततो जिह्वालक्षणं वच्मि शक्तितः 17
हिरण्या कनका रक्ता कृष्णा चापि वसुप्रभा
अतिरक्ता तथा चैव बहुरूपेति सप्तधा 18
हिरण्या श्यामरक्ता च कृष्णपीताऽति रक्तकम् ( का)
शङ्खाभवर्णा स्थानानि ईशेन्द्राग्नियमा अपि 19
वारुणं मारुतं मध्ये जिह्वानं नियतः क्रमात्
अग्निर्वैश्वानरश्चापि हुताशो हुतवर्चसः 20
जातवेदाः कृष्णवर्त्मा देवस्येत्यादयोऽभिदाः ?( अधिपाःग।)
(नामस्थान ञ्च वर्ण ञ्च देवाना ञ्च यथाक्रमम्।) पूजाना ञ्चैव स्थान ञ्च देवाना ञ्च यथाक्रमात् 21
ध्यात्वा समाधियुक्तस्तु तत्र तत्र हुनेत्सुधीः
( समिदाज्य नर्षपोदैः) समिधामृषयस्सर्वे लाजापूपतिलोदनैः 22
अपूपसमिधोरीशो लाजस्य च रविर्भवेत्
आज्यसर्षपयोरग्निः पितरस्तिल दैवतम् 23
चरोः समस्त(नामस्थान ञ्च वर्ण ञ्च दवाना ञ्च यथाक्रमम्।) जन्तुनामपि निर्माणकर्मणि
विधाता दैवतं साक्षा( दत्र कर्तामनन्यथा ?) द्द्विदण्डः कर्तुमञ्जसा 24
कर्णे यदि हुते व्याधिर्नासिकायं महद्भयम्
चक्षुष्यन्धो भवेत्किन्तु मस्तके सर्वनाशनम् 25
अन्यैः कराद्यैर्धारिद्र्यं तस्मातन्यैर्विचार्य च
शरोऽङ्गारेण संमन्त्र्य जिह्वाग्रेजुहूयात्सुधीः 26
इध्म होमे तु तिष्टन्तमासीनं चरुणो हुते (भवेत्)
समिधाज्यहुतो देवं शयानं शान्ततेजसम्। 27
सुखासीनं तिलापूपहोमादिषु च केवलम्
एवं ध्यायन् घृतादीनि होमयेद्विधिवद्भुधः 28
आग्नियं सौरदैवत्य मनामिकाङ्गुष्टयोर्गतम्(गतः)
आचार्यः समिदाधानं कुर्यादग्नौ विधानतः 29
वासवं मारुतं हित्वा ( स्रुवमध्ये घृताबलिम्।) स्रुवमध्ये घृतानिलम् ?
चतुरङ्गुलमादाय ( धाराम्।ग।) ध्यायन्नग्नौ विनिक्षिपेत् 30
तिलसर्षयोर्होमे विहायेन्द्राङ्गुलिं बुधः
(भुक्तमात्रकम्।) शुक्तिमात्रक्रमेणैव हुनेदन्नमथाक्षवत्(उक्त।यत्तु।) 31
लाजं मुष्टिप्रमाणेन स्मारं स्मारमथाधिपम्
जिह्वायां तत्र तत्रैव स्वाहान्तं जुहुयात्सुधीः 32
अदिते अनुमन्यस्व इति पूर्वं कथं भवेत्
स्वस्थाग्नेन्मुखार्थाय कृतः शास्त्रेषु निश्चयः। 33
अदिते अन्वमग्गस्था इति होमे हुते सति
अग्नेः स्वास्थ्यविधानाय कृतमन्ते विसर्जयेत्। 34
जिह्वायां ( यत्रज्वाल् तत्र जिह्वा।) विहितं यत्तु तदुच्छिष्टमिहोद्यते


तत्र किं स्यान्न ? (देवाश्च ।) दोषाय वदन्तिब्रह्मवादिनः 35
अग्निं वदन्ति देवानामाननं श्रुतयः सुखम्
'अग्निं दूतं वृणीमह ' इत्याद्या बहुशोऽभवन् 36
यत्र यत्र च काष्ठानि तत्र कर्णं विदुर्भुधाः
धूमः स्वल्पतरो यत्र निसिकामसि तद्विदुः 37
मन्दप्रज्वलनं यत्र तत्र नेत्रं प्रचक्षथे
अङ्गारपुञ्जमग्नेस्तु शिरश्शंसन्ति पण्डिताः। 38
महाप्रज्वलनं यत्र मुखं तत्र विशिष्यते
( यत्रज्वाला तत्र जिह्वा।) ज्वालाजिह्वाशतयुतं ध्यायन्नेवं हुनेत्सुधीः 39
वसन्तीं श्यामकौशेयां दृतकाञ्चनशोभिनीम्
लक्ष्मीमिवापरां देवीं स्वाहं ध्यायूत मन्त्रवित्। 40
नवदूर्वादलश्यामां रक्तवौशे वासिनीम्
सुखबोगासनासीनां स्वधामेवं विभावयेत् 41
आचार्यः शिष्यमाहूय पूर्वह्णे तु विशेषतः
प्रधानकुम्भपूजार्थं (गृह्यतामित्यपां वदेत्।ग।) गृह्णीयात्तत्पदे स्थलम्। 42
ततः स पुण्यतीर्थेषु नद्यादिषु विशेषतः
सर्ववाद्यसमायुक्तं सर्वालङ्कार संयुतम्। 43
गत्वा चोदङ्मुखो भूत्वा शिरसा धारयन् घटम्
'धारासु सप्त' इत्युक्त्वा अर्चनोक्तं जलं हरेत् 44
गृहीत्वा पूर्वविच्छिष्यः सन्न्यसेदुत्तरामुखः
सम्भारवेद्यां मध्ये तु कुशेनोत्पूय मन्त्रतः 45
एलाचन्दनगन्धादीनं स्तस्मिं त्सन्न्यस्य बुद्धिमान्
तं पिधाय शरावेण समाच्छाद्य वस्त्रतः 46
सम्भारानथ चाहृत्य परितः सन्न्यसेत्क्रमात्
स्नात्वाऽऽचार्यः प्रसन्नात्मा सूत्रोक्तविधिना बुधः 47
श्वेतवस्त्रोत्तरीयाभ्यां हेमपुष्पादिभूषणैः
(अङ्गुलीयोपवीताद्यैः।)अङ्गुलीयपवित्राद्यैः श्वेतगन्धानुलेपनैः 48
विभूष्याचम्य तत्पश्चात्प्राणायाम ञ्च धारयेत्
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां संहितायां
यज्ञाधिकारे (आघारादि कुम्भ जलाहरणान्त विधिर्नाम पञ्चविंशोऽध्ययः।)षड्विंशोऽध्यायः
सौवर्णं राजतं वाऽथ ताम्रं मृण्मयमेव वा