यज्ञाधिकारः/पञ्चमोऽध्यायः

विकिस्रोतः तः
← चतुर्थोऽध्यायः यज्ञाधिकारः
पञ्चमोऽध्यायः
[[लेखकः :|]]
षष्ठोऽध्यायः →


अथ पञ्चमोऽध्यायः
बालावयविधिः
अत ऊर्ध्वं प्रवक्ष्यामि बालालय विधक्रमम्
प्रथमावरणे वाऽथ द्वितीयावरणेऽथ वा। 1
मूलस्थानस्य चैशान्यामैन्द्रे सौम्ये विशेषतः
वायव्यां पश्चिमे वाऽथ कल्पयेत्तरुणाऽलयम्। 2
पञ्चहस्तं समारभ्य द्विद्विहस्त विवर्धनात्
त्रिधा नवकारान्तं स्याद्बालाहारस्य चायतम्। 3
चतुस्तालं त्रितालं वा विशालं कुड्यमूलतः
शिष्टमन्तर्विशालं स्या (तुङ्गं पञ्चकरान्वितम्।ग।) त्पञ्च सप्तकरान्तकम्। 4
समं त्रिपादमर्धं वा मुखमण्डपमिष्य ते
यथा मूललयद्वारं तथा स्यात्तरुणालये। 5
मृद्भिर्वाऽथ्ष्टकाभिर्वा (कुर्वन् न।क।ख।कुड्यं नैव शिलाबुधः।ग।) कुड्यं सशिलया बुधः
प्रथमेष्ट का ञ्च गर्भ ञ्च द्वर संस्थापन क्रियाम्। 6
विनैव बालागारे तु कारयेद्विधिचोदितम्
द्वारस्तम्भं कवाट ञ्च रक्षार्थं तरुणालये। 7
मन्त्रेण स्थापयेत्रत्नान् विनैव च (तुलादि) तलादि षु
लुपोपरि तृणाच्छन्नं लोष्टाच्छादनमेव वा 8
बहुभूमिविमानं चेत्तलभेदक्रमाद्बुधः
अन्तरं धातुभाग ञ्च विभजेन्मध्यमे सुधीः। 9
आदिभूमि ञ्च सङ्कल्प्य देवमानुषमध्यमे
द्वितलाय तथा धीमान् पैशाचे त्रितलाय च 10
द्वितलं मानुषे युग्मं पञ्चमूर्तेर्विशेषतः
पैशाचे परितो मध्ये पुरुषादीन् ? स्थापयेद्बुधः 11
(द्वादशत्रयोदश श्लोकौ।ग।आदर्शे न विद्येते।)एकैकं तद्द्वितालोच्चं पञ्चमूर्तेर्विशेषतः
ब्रह्मे चैकपदं धीमानुन्नत न्तु समाचरेत्। 12
सौवर्णं राजतं वाऽथ ताम्रं वाऽथ स्वशक्तितः
दारवप्रितिमां वाऽथ कृत्वा संस्थापयेद्बुधः। 13
अन्यालयेऽर्चितं शून्यं सम्प्राप्त ञ्च पुनस्तथा
याचितं तद्वितुर्धीमानाचरेत्त्वरयाऽन्वितः 14
अथ वा तद्गृहार्चां वा स्थापयेद्बालधामन्
(इदंश्लोकार्धं।ग।आदर्शेनास्ति।)मूलस्थापनकाले तु गृहार्चां (याचितम्। आ।) याचितां त्यजेत्। 15
मूलस्थापनकाले तु प्रतिमामालयाय च
कृत्त्वैव स्थापयेद्धीमानथ वा हारकं चरेत् 16
ग्रामस्य यजमानस्य चानुकूले शुभे दिने
तस्मात्तु दिवसात्पूर्व मङ्गुरार्पण माचरेत्। 17
कृत्वाऽक्षिमोचनं पश्चात् (पञ्चगव्ये।क।) क्षीरे गन्ये जले तथा
अधिवास्य यागशालायां पुनः स्तुत्वा विभूषयेत्। 18


मध्यमे शयनस्थानं पञ्चाग्नीन् परिकल्पयेत्।
पर्यग्निपञ्चगव्याभ्यां(पार्श्वतः अ।) विश्वतः शोधयेत्क्रमात्। 19
द्रोणद्वयंसुसंपूर्णं खण्डस्पुटित वर्जितम्
प्रक्षिप्याऽयुध चिह्नादीन् कुम्भं संसाधयेद्गुरुः। 20
धान्यपीठे सुसन्न्यस्य प्रितिष्टोक्तक्रमेण वै
ध्यायन् कुम्भे समावाह्य स्नपनं सम्यगाचरेत्। 21
शय्यावेद्यां तथा ऽऽस्तीर्य अण्डचादीन् यथाक्रमम्
अरोप्योपरि देवेशं कुम्बेन सहशाययेत् 22
पुण्याहं वाचयेत्तत्र बध्नीयात्कौतुकं तथा
'यद्वैष्टवं ' समुच्चार्य प्राक्छिरश्शाययेद्धरिम्। 23
(अ.ग।आदर्शः पुनरारभते।)उत्तराच्छादनं कृत्वा हौत्रं सम्यक् प्रशंस्य च
मूर्त्यावाहनहोमादीन् प्रतिष्टोक्तवदाचरेत् 24
रात्रिशेषं व्यपोह्यैव स्नात्वा स्नानविधानतः
(शालां प्रभाते संवेश्य।ग। ) यागस्थानं प्रविश्यैव उद्धरेद्धरि मव्ययम्। 25
आचार्यदक्षिणां दत्वा चरराशौ शुभोदये
कुम्भं बिम्बं समादाय तोयधारा पुरस्सरम्। 26
धामप्रदक्षिणां कृत्वा 'प्रतद्विष्णु 'रिति ब्रुवन्
संस्थाप्य वेद्यां देवेशं देवीभ्यां स्वपनोत्सवे 27
आत्मसूक्तं जपित्वा तु विष्णुसूक्तादिकं जपेत्
कुम्भस्थां शक्तिमादाय ध्यायन् विष्ण्विदिमूर्तिभिः। 28
कुम्भस्थां मूर्थ्नि चावाह्य (देव्यादि।अ।देव्यो च पर्षदस्तथा।ग।) देव्यादीन् परिषद्गणान्
(आवाह्य स्नपने चान्ये बलिबिम्बे च कौतुकात्।)आवाह्य चोत्सवेऽर्चायां बलिबिम्ये च कौतुकात्। 29
दीपाद्दीपमिवावाह्य समभ्यर्च्य यथाक्रमम्
पुण्याहं वाचयेत्त तत्र पायसादीन् निवेदयेत्। 30
आवाहनविसर्गौ च (नैवान्यते।) विनैव विधिपूर्वकम्
नित्ये नैमित्तिके धीमान् विधिनैव समर्चयेत्। 31
बालालये ध्रुवार्चां चेत्कर्तुमिच्छेत्स जङ्गमम्।
तथा बालालयां कृत्वा कर्भगेहे समस्थले। 32
 (आधानक।आ।ख।)आधारार्थं शिलां नैव इष्टकाभिर्दृढी कृते
तले विनाऽथ रत्नादीन् स्थापयेज्जङ्गमं तथा। 33
 (तत्प्राणोभूमिना।ग।)तत्प्राणभूम्या संयोगं जङ्गमत्वात्सशैलकम्
(तद्धामनि।ग।) तत्र थादीन् समं ? धीमान् स्थापयेत्कौतुकोक्तवम्। 34
पश्चात्यथोक्ते स्थाने तद्धाम कृत्वा सलक्षणम्
स्थूपिशूलावसानान्तं समाप्तं कारयेद्बुधः। 35
(श्लोकद्वयं।ग। आदर्शेनास्ति।) यथा सकौतुकं बेरं बालस्थानात्प्रवेशनम्
मूलस्थाने यथाप्रोक्तं ध्रुवार्च ञ्च तथा च रेत्। 36
पूर्वं मुहूर्ते रत्नानि विन्यस्यैव ध्रुवार्चनम्
तस्मिन्नुपरि संस्थाप्य अष्टबन्दं समाचरेत्। 37


स्थपतिर्नैव ? गुरुणा बृहत्कायां भवेद्यदि
कुम्बं विनाऽथ यन्त्रेण नीत्वा बेरं यदोचितम्। 38
संस्थाप्य शुद्धिं कृत्वाऽत्रकुम्भं तत्प्रमुखे नयेत्
तथा वाह्य समभ्यर्चे द्विशेषोऽन्यानि पूर्ववत्
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे)भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे (बाबालयविधिर्नाम चतुर्थोऽध्यायः।ग।)
पञ्चमोऽध्यायः