यज्ञाधिकारः/चतुर्थोऽध्यायः

विकिस्रोतः तः
← तृतीयोऽध्यायः यज्ञाधिकारः
चतुर्थोऽध्यायः
[[लेखकः :|]]
पञ्चमोऽध्यायः →

यज्ञाधिकारः।
अथ चतुर्थोऽध्यायः
-----------
शङ्कुस्थापनम्।
शङ्कुप्रतिष्ठामार्ग ञ्च प्रवक्ष्यामि तफोधनाः
(प्रासादनिर्मिते ग।)प्रासादनिर्मितिस्थाने समं कृत्वा (भुवखः स्थालम्।) भुव स्तलम्। 1
(गोचरामाकृतिवद्धीमान्।) गोचर्ममात्र तत्रैव गोमयेनोपलेपयेत्
प्रगन्तं चोत्तरान्त ञ्च मध्ये सूत्रं प्रसारयेत्। 2
तन्मध्ये शङ्कुसंस्थानं याज्ञिकैस्तरुभिस्तथा
 (मूल बेरं तथा कुर्यात्) शङ्कुं कुर्याद्विधानेन तस्योत्तुङ्गं वितस्थिना। 3
वितस्त्या मूलनाहं स्यादग्रनाहं नवाङ्गुलम्‍
क्रमात्कृशमवक्रं स्याच्छंगोर्लक्षणमेव च। 4
तन्मध्ये मण्डलं कुर्या च्छङ्कोर्द्विगुण मानतः
स्थापयेदुदयात्पूर्वे शङ्खनाद समायुतम्। 5
तस्मिन्नधिपमादित्य मिन्द्रादीन् परितोऽर्चयेत्
रेखागतायां छायायां पश्चिमे बिन्धु मर्पयेत्। 6
तथाऽपराह्ने रेखायां प्राग्गते बिन्दुमर्पयेत्‍
तत् षण्णवतिकं भगं कृत्तैकांशं तदङ्गुलम्। 7
मेषे च (मिधुने सिंहे) वृषभे शून्यं तुलामासे द्वियङ्गुलम्
कर्कटे वृश्चिके मीने तेनैव चतुरङ्गुलम्। 8
चापे कुम्भे षडङ्गुल्यं मकरेऽष्टाङ्गुलं क्रमात्
अङ्गुलीर्मासि मास्युक्ताः त्रिंशद्भागं विभज्य च 9
(गतधत्तस्य।)गतर्क्षाणास्तु युक्त्या तैरंशं नीत्वाव शेषितम् +
(तद्बिन्दोः।) तद्बिन्द्वोरुत्तरे याम्ये नीत्वा बन्धुं समर्पयेत्। 10
सूत्रं प्रासारये (बिन्दोः।)द्विद्वान् मध्ये प्रागन्तमेव च
(दक्षिणोत्तरयोः)दक्षिणोत्तरतो बिन्दुं मत्सवद्भ्रमयोद्बुधः। 11
तत्पुच्छाननयोर्मध्ये सूत्रं पश्चात्प्रसार्य च
एवं दिशो विनिश्चित्य मूलस्थान ञ्च (निश्चयेत्।)कल्पयेत्।12
निर्मिते ऽत्र विमानस्य उत्सेधार्धं समं तथा
जनान्तं वा शिलान्तं वा खानयेदुचितं सुधीः। 13
विस्तारायामसीनान्ते तत्खात्वा सुदृढाय च
पञ्चहस्तं चतुर्हस्तं त्रिहस्तं वाऽधिकं क्रमात्। 14
वालुकैर्विश्वतः पूर्व तोयेन सह मिश्रितम्
 (दृधीकृत्य गजैर्वाऽथ) दृढीकृत्वातिवृक्ष्यैर्वा हस्तिपादेन वा बुधः। 15
(ददर्शयादेक्रमशः।) दशहन्ते तु क्रमशस्तत्खातं पञ्चधा चरेत्
त्रिभागावनते विद्वान् शिला वा चेष्टकाऽथवा। 16
यद्द्रव्येण कृतं धाम तद्द्रव्येण च वालुकै(ग। आदर्शेऽत्र पञ्चमाध्याय समाप्तिर्दृश्यते इतः प्रभृति पञ्चमोऽध्याय 23 श्लोकपर्यन्तं गलितः ग्रन्थः।)
शनैः शनै स्तत्सुदृढं कृत्वा तत्र विचक्षणः


युग्मायुग्म विभागेन निश्चित्यैव च पूर्वतः
तेनोक्तविधिना विद्वानिष्टकां प्रथमां न्यसेत्। 18
विमानमेक द्रव्येण कृतं चेदुत्तमं विदुः
उपरीष्टाद्वृतेस्तत्र इष्टकाभिः कृत नतु यत्। 19
(कन्यसम्) मध्यमं तलभेदेषु तरुणाच्छादिते सति
कनिष्टं तद्विजानीयन्मिश्रमेतैः कृतं बुधाः। 20
विमानार्थ शिलालक्षणादि।
शिलाभेदं प्रवक्ष्यामि विमानार्थं द्विचोत्तमः
श्वेतं कृष्ण ञ्च रक्त ञ्च मिश्र ञ्चैव चतुर्विधम्। 21
भूगतं गिरजं (वाऽथ।ख।) चैव वारिजं वाऽथ (वा।ख।) चाहरेत्
वारिजाद्गिरिचं श्रेष्ठं गिरिचाद्बूमीजं तथा। 22
एकया शिलया धाम कृतं चेदुत्तमं प्रभोः
शिलाभ्यां यत्कृतं मध्यं त्रिभिरिष्टकया सह। 23
कनिष्ठं तद्विजानीयान्मिश्रं वाऽमिश्रमेव वा
कारयेल्लक्षणोपेतं मतिमान् शास्त्रवित्तमः। 24
शिलायां परिकर्तव्या इष्टका इष्टकोपरि
नाचरेस्तच्छिलाभिस्त द्विपरीतं न कारयेत्। 25
श्वेतजोपरि कर्तव्यै कृष्टजं रक्तमिश्रजौ
रक्तजोपरि मिश्रं वा श्वेतं वा कारयेद्बुधः। 26
कृष्णजोपरि श्वेतं स्याद्रक्तमिश्रौ च वर्जयेत्।
नाचरेत्स्वप्राधानौ तौ रक्तमिश्रौ विचक्षणः 27
प्रसिद्धभवने विष्णोः श्वेतजं कृष्टमेव वा
कृष्णजोपरि श्वेतं स्यादिष्टकोर्ध्वे शिलां विना। 28
आचरेद्भवनेऽन्ये तु प्रासादादिषु सर्वशः
वर्गान्तमेकद्रव्येण कारयेत्सङ्करं विना। 29
(उपानादौ च गळे तु।)उपानादिषु गण्येषु द्विद्रव्येण न कारयेत्
कृतं चेदाभिचारं स्यान्निश्रं तत्मान्न कारयेत्। 30
एवं बुद्ध्वा गुरुर्धीमान् यजमानबलान्वितः
सार्थं तद्यजमाने निश्चित्यापि सशिल्पिना। 31
शुभोदये दिने शुद्धे सन्न्यस्यैव तदिष्टकाः
आरभेद्भवनं मन्त्री हस्तेनोक्तेन (वास्तुवित।ग।) शास्त्रवित्। 32
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्त्यायां
संहितायां यज्ञाधिकारे
चतुर्थोऽध्यायः