यज्ञाधिकारः/पञ्चदशोऽध्यायः

विकिस्रोतः तः
← चतुर्दशोऽध्यायः यज्ञाधिकारः
पञ्चदशोऽध्यायः
[[लेखकः :|]]
षोडशोऽध्यायः →


अथ पञ्चदशोऽध्यायः
-------------------
स्थानकादिभेधः।

अथा तः स्थानकादीनां भेदं वक्ष्ये यथाक्रमम्
श्यामलाङ्गं चतुर्भाहुं शङ्खचक्रधरं प्रभुम्। 1
अभयं दक्षिणं हस्तं वरदं स्वगत न्तु वा
वाम ञ्च सिंहकर्णं वा कट्यालम्बितमेव वा 2
एकचानुसमासीनं दक्षिणे च भृगुं तथा
मार्कण्डेयं तथा वामे भूमिपुण्यार्चित न्तु वा। 3
सकळं चाभसकं वाऽथ भूमिपुण्यौ च पूजकौ
सकळं तत्तद्द्रव्येण वर्जेन्यां सुलेखयेत्। 4
दक्षिणे भित्तिपार्श्वे तु हेमभं चोत्तरामुखम्
ब्रह्मण ञ्च चतुर्भाहुक्षमालां कमण्डलुम् 5
अभय न्तु करं पूर्वं वामं कट्यवलम्बितम्
श्वेताभं शङ्करं वामे चतुर्भाहुं जटाधरम्। 6
मृग ञ्च परशुं चान्यमभयं कट्यवलम्बितम्।
दक्षिणाभिमुखं प्रोक्तं कारयेदुत्तमं बुधः। 7
मुनिभ्यां नैव (हस्ताभ्याम्।ग।)मद्यं स्यादधमे तु विशेषतः
मुनिभ्यां शङ्खचक्राभ्यामाचरेन्नैव सर्वदा। 8
तथा (हरिम्।)हीने द्वितीये च ब्रह्मशो च तथैव च
सर्णाभां दक्षिणे लक्ष्मीं दक्षिणं चरणं स्थितम्। 9
वाम ञ्च कुञ्चितं कॢञ्चित्कमलं (वामधारिणीम्।) दक्षिणे करे
(प्रसारि दक्षिणं हस्तम्।)वामं प्रासारितं हस्त किञ्चिद्देवनिरीक्षणाम्। 10
श्यामाभामुत्तरे पौष्णीत्पलं दक्षिणे करे
धृतिं प्रसारितं वामपादं वै चोत्तरे स्थिताम्। 11
अन्य तत्कुञ्चितं किञ्चिद्विस्मयोत्पुल्ललोचनाम्
कारयेद्विपरीत ञ्च दक्षिणोत्तरयोरपि। 12
कुड्यकौतुकयोर्मध्ये दक्षिणे च भृगुं तथा
एकजान्वा समासीनं वाममुत्कुटिकं तथा। 13
वामहस्तं सपद्म ञ्च ऊरुन्यस्तं तथाऽन्यकम्
उत्कुटिकं दक्षिमं पाद (पुराणं वामके तथा।)पुरा वाम तथाऽन्यके 14
एवमेवासयित्वा तौ पूजकौ सञ्जलीपुटौ
ब्रह्मेशयोस्तथा प्राच्यामाभास वैऽथ कारयेत्। 15
मायासंह्लादिनीभ्यां चोपरि भित्त्यूर्धपार्श्वयोः
तुम्बुरुं नारद ञ्चैव किन्नरं मिथुनं तथा। 16
यक्षविद्याधर ञ्चैव सनक ञ्च सनातनम्


आदित्य ञ्चैव चन्द्रं च सार्धं तचोत्तमं विधुः 17
तुम्बुरं नारद ञ्चैव किन्नरं मिधुनं तथा(विद्याधर ञ्च सनकं सनातनसनन्दनौ, आदित्य ञ्चैव चन्द्रं ञ्चसार्धचोत्रोत्तमं विदुः।)
हीनं तन्मध्यमं प्रोक्तं सनागीदीन्विनाऽधमम्। 18
तृतीये विरस्थाने तु सस्याभं हरिम्ययम्
ब्रह्मेशाभ्यां मुनिभ्या ञ्च किष्किन्धं सुन्दरं तथा। 19
(नक ञ्चैव ।) सनकाभ्या ञ्च संयुक्तमुत्तमं स्थानके बुधाः
किष्किन्धादिचतुर्भिश्च हीनं तन्मध्यमं विधुः 20
चान्द्राक्राभ्यां मुनिभ्या ञ्च हीने विरे च कन्यसम्
विरहस्थानकं देवं द्विभुजं धूम्रमम्बरम्। 21
श्यामल ञ्चैव शुक्लाङ्गमूर्ध्वदृष्टिं तमोगुणम्
विमलाक्ष ञ्चैव ब्रह्मादिपदे पौशाचके तथा। 22
स्थानकं विरहं देव (आदृतौ ?)मार्द्रादौ स्थापयेन्निशि
योगसने तुश्वेताङ्गं पीतवस्त्रं चतुर्भुजम्। 23
श्वेतपद्मासनीसीनं ब्रह्मसन समन्वितम्
जटामौलिकरौ पश्चात्पल्लव(o)न्यस्तमन्ययोः। 24
शङ्खचक्रौ विना श्वेता ? सोत्तरीयोपवीतकम्
कुण्डलाङ्गद हारभ्यामुन्मीलोन्मीललोचनौ? (नम्।) 25
एवं योगसने देवं धात्राद्यैरष्टदैवतैः
सार्धं योगे तु तच्छ्रेष्ठं मध्यमं पूजकौ विना। 26
चन्द्रादिभिश्चतुर्भिन्तु विना योगा सनेऽधमम्
सिंहासने समासीनं श्यामलाङ्गं चतुर्भुजम्। 27
शङ्खचक्रधरं पूर्वमभयं वरदन्तु वा
वामं तत्सिंहकर्णं वा कृत्वा देवस्य पार्श्वयोः। 28
श्री देवीं दक्षिणे पार्श्वेकारयेच्चोत्तरे महीम्
प्रसार्य दक्षिणं पादं वामपाद ञ्च कुञ्चितम्। 29
पद्मं तद्दक्षिणे हस्ते ऊरुन्यस्त न्तु वामतः
दक्षिणं पादमाकु़ञ्च्य वामपादं प्रसार्य च 30
उत्पलं दक्षिणे हस्ते तथा वामे महीमपि
तथैव भित्तिपार्श्वे तु ब्रह्मणं शङ्करं तथा। 31
आसीनौ कारयेद्विद्वान् पूर्ववत्पूजका वृषी
मायासंह्लादिनीभ्य ञ्च व्याजनीभ्यां तथैव च 32
तथा च चन्द्रसूर्याभ्यां गन्धर्वाभ्यां विशेषतः
तुम्बुरुं नारद ञ्चैव कल्पकद्रुम संयुतम्। 33
भोगासने विशेषेण उत्तमं तदुदाहृतम्
तथैव देवदेवेशं स्थाने वै पूजकावृषी, 34
तथा सीनौ धृतिं पौष्णीं पाजनार्थं सु कल्पयेत्
ब्रह्मणं शङ्करादींश्च मन्वन्तं ? पूजकावृषी। 35
सनकाद्यष्टभिर्देवैस्सार्धं वीरासन गुरुः


ब्रह्मादिसनकान्ताष्षडन्तर ञ्चैव कन्यसम् 36
देव्योस्तत्तद्विशेषेण वीरासन विधिक्रमम्
तथा पैशाचमध्ये तु बेरं तद्वीरमासनम् 37
कल्पयित्वाव तं देवं स्थापयेद्रि पुरूर्ध्वधृक्।
ब्रह्मादि पार्षदां त्सर्वान् गर्भगेहनिवासिनः 38
आभासं कारयेत्कुड्ये चित्रार्धं वेति केचन
यद्द्रव्येण कृतं मूलं तद्द्रव्यैर्गर्भवासिनः 39
शक्तश्चेत्कारयेत्तेन नाचरेदितरेण च
स्थानसङ्कटनाशार्थं बलिर्थं वा विशेषतः 40
विध्युक्तं तदश्क्यात्वाभास ञ्चैव कारयेत्
-------------
सिंहासनस्य चोत्सेधं प्रवक्ष्यामि पृथक् शृणु। 41
गर्भद्वारसमोत्सेधं (नव,ग।)भानुभागं विभज्य च
रसांशमुत्तमं प्रोक्तं भूतांशं मध्यमं विधुः 42
कनिष्टमाश्रमांशं स्यात्कारयेत्तद्यथोचितम्
गर्भे तदायुतं सर्वं लक्षणं ? विस्तृतम् मया 43
मानाऽदिकारे यत्प्रोक्तं तथा सिंहासनं चरेत्
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(स्थानकादियोगभेदविधिर्नाम)पञ्चदशोऽध्यायः