यज्ञाधिकारः/द्वितीयोऽध्यायः

विकिस्रोतः तः
← प्रथमोऽध्यायः यज्ञाधिकारः
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

अथ द्वितीयोऽध्यायः
-------------------
अत ऊर्ध्वं प्रवक्ष्यामि भूपरीक्षा विधिक्रमम्
आरम्भकालात्पूर्वस्मिन् यजमानो गुरुं वरेत् ? 1
वैखानसं तपश्शीलं नित्यहोम परायणम्
पारं पर्यागतं शिष्टं दोषैरन्यैर्वि वर्जितम्। 2
विप्रं तं वरयित्वा तु याचयेत्सं प्रपूज्य च
शास्त्रज्ञं (फल, ग।) बन्धुसम्पन्न माहूय स्थपतिं पुनः। 3
( भूपरीक्षायामुक्तकालः भूपरिक्षाक्रमः।)
मासेषु चैत्रकं (हित्वा?) नैव शेषमासे शुभे दिने
ग्रामस्य यजमानस्य चानुकूले शुभोदये। 4
वैष्णवीं भूमिमासाद्य शुद्धिं कृत्वा यथाशुभम्
पूर्वेद्युरेव शर्वर्या मङ्कुरार्पणम् मारभेत् 5
ब्राह्मणो यजमानश्चेत्तद्गृहे वाङ्कुरार्पणम्
अन्यश्चे तत्र वा कुर्यात्तत्र चेत्सद्य एव तु। 6
भूमिं महुर्तेक स्याचार्यः प्रोङ्मुखो वाप्युदङ्मुखः
असयित्वाऽथ हस्ताभ्यां भूसूक्तेनाभिमर्श येत्। 7
द्वितालयत (विस्तारमवगाढं) विस्तारावगाढं चतुरश्रकम्
खनित्वा पांसुमुद्धृत्य प्रक्षिपेत्तां मृदं गुरुः। 8
अधिके चेन्महोवृद्धिं हीने हीनं समे समम्
(तद्विधानैः सु,) विद्यादथान्यैस्संलक्ष्य निमित्तै (सु। )र्वा समारभेत्। 9
ग्रामे चेत्त - त्सभास्थाने परीक्ष्यैव च कर्षयेत्
ग्रामार्थं कर्षयेत्पूर्वं (निमित्ते।) निर्मिते वास्तुमध्यमे। 10
पश्चादालय (मुद्दिश्य।) माविश्य भूपरीक्षां विनाऽत्र तु
कल्पयेद्विधिना पश्चाद्गवादीन् (निवेदयेत्।) सन्निवेशयेत्। 11
निश्चित्य विधिना वास्तु पदानि परिकल्पयेत्
कारयित्वा ऽधिवाना (मन्त्रान् त्समभ्यर्च्य।आ--मन्त्री समभ्यर्च्य।ग।) मन्त्रैस्समभ्यर्च्य बलिं ददेत्। 12
वास्तुविन्यासः
( सहस्राधधिकेः पञ्चमूर्तिं प्रकल्पयेत्।) ग्रामे ब्रह्मभागं विभज्य च
चतुर्धा जपनांशे तु पञ्चमूर्ती स्समर्चयेत्। 13
तदंशे पूजकगृहं दक्षिणे चोत्तरेऽथ वा
पश्चिमे वा विदिग्देशे कल्पयेत्त त्समीपतः। 14
 (सभास्थानं।ख।क।) स्वपनं च तथै शान्यां गोष्ठागार ञ्च पावके
नैर् ऋत्यामापणस्थानं कारयेत्तान् यथाविधि। 15
सहस्रविप्रान्न्यूनेषु ग्रामेष्वपि च मध्यमे
शतं शतद्वयाद्येषु चैममूर्ति मथार्चयेत्। 16
आसनं स्थानकं वाऽथ (शयानां।) शयनं ? भोगमेव च
कल्पयेद्ग्रामवृद्ध्यर्थं रामकृष्णौ तु वा पुनः 17


उत्तरे मध्यवीथ्यां तद्वारुणे हरिमन्दिरम्
स्थानकं वा सनं चाथ दक्षिणे वा यथोचतम्। 18
(हर ञ्च ग्रामस्यैशान्ये।ग।) हरस्य धाम वैशान्ये बाह्ये तत्प्रङ्मुखं चरेत्
 (स्वांसे भवनमर्कस्य।)स्थाने ऽग्नेर्गेहम्कस्य पश्चिमाभिमुखं तथा। 19
सौम्ये तत्प्राङ्मुखां दुर्गां पैशाचे षण्मुखं (तथा)यमे
विघ्नेशस्य तु वायव्यां मातृकोष्टं गुहस्य च 20
कन्यादृष्टी रवेरदृष्टिर्विघ्नेशस्य गुहस्य च
ग्रमास्य सुखदा स्यात्तद्धरदृष्ठिरनर्थदा। 21
सर्वाभिवृद्धिदं विष्णोर्ग्रामादिषु वेशेषतःट
सा दृष्टि(साम्यदृष्टित्वात्) स्सौम्यरूपत्वात्थथा स्यात्पृष्ठमेव च 22
तथैव पञ्चबेरांश्च वास्तुबाह्ये समर्चयेत्
ध्रुवार्च ञ्च विशेषेण दिशासु विदिशासु च 23
भोगं चेत्थ्पापयेद्विद्वान् पैशाचे मध्यमं विना
ग्रमप्रेक्षं तथा बाह्ये योगविरौ ध्रुवार्चनम्। 24
भोगं चेत्तद्ध्रुवार्चं वै वास्तुन्येन प्रकल्पयेत्
(गिरिपारश्वे।क।) वारिपार्श्वे वनेऽन्यत्र ध्रुवं वाऽथ ध्रुवार्चनम्। 25
यथोक्तं स्थापयेद्विद्वान् प्राङ्मुखं वा यथोचितम्
नगरादौ मध्ये विष्णुं नार्चयेदन्यदिक्षि च 26
अर्चयेत्पश्चिमे विष्णुं श्री भूमिसहितं शुभम्। 23 4
इति श्री वैखानसे भगवच्छास्त्रे उत्तरतन्त्रे भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे भूपरीक्षादि विधिर्नाम
द्वितीयोऽध्यायः।
------------------