यज्ञाधिकारः/प्रथमोऽध्यायः

विकिस्रोतः तः
यज्ञाधिकारः
प्रथमोऽध्यायः
[[लेखकः :|]]
द्वितीयोऽध्यायः →


श्रियै नमः।
श्री रामचन्द्रायनमः।
श्री मद्विखनसमहागुरवे नमः
श्री मद्भ्यो भृगुमरीच्यत्रिकश्यपेभ्योनमः।
श्री वैखानसभगवच्छास्त्रे
भगवद्भृगु महर्षि प्रणीतः

यज्ञाधिकारः
------------
अथ प्रथमोऽध्यायः
********
श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम्
तस्मै समस्तवेदार्थ विदे विखनसे नमः (शुक्लाम्बरधरं विष्णु शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये।ग।)
ऋषि प्रश्नोत्तरम्।
भृगुं मुनिवरं श्रेष्ठं (नरलोक।ग।) नानालोकनिवासिनः
कुशासने समासीनं नारायण परायणम्। 1
समासाद्य प्रणम्यैव भगव (द्भक्ति) त्सक्तचेतसः
केन मार्गेण कैर्मन्त्रैः कं देवं नियतेन्द्रियाः 2
(कसर्चयन्तः।अ।) समर्चयन्तः परमं पदं गच्छेयुरव्यमम्
ऋषे तत्सर्वमाख्याहि परमं वदतं वर। 3
..... ...... ..... ..... ....
अर्चन प्रशंसा
भृगुरुवाचः-
युष्माभिश्चोदितं सर्वं साधु वक्ष्याम्यशेषतः
शृणुध्वं मनसा देवं स्मृत्वा नारायणं परम्। 4
श्रुत्यनुकूलमार्गेण चतुर्वेदोद्भवैस्तथा
मन्त्रैस्समस्तलोकेश मर्चयेद्धरि मव्ययम्। 5
तेनैव भक्त्या वैकुण्ठं सहसा स्वयमेव च
लभते तत्पदं नास्ति न दैवं केशवात्परम्। 6
तं विष्णुं पूजयेन्नित्यं सर्वसाधनं (साधकम्।ग।ःःतथान्ये ग।) साधनम्
सर्वमुक्तिप्रदं नित्यं सर्वकाम फलप्रदम्। 7
ग्रामग्राहारयोस्सम्य गर्चनं तन्निवासिनाम्
सर्वसिद्धिप्रदं नित्यं पुत्र पौत्र विवर्धनम् 8
सामान्यमग्निहोत्रं स्यादनग्नीनं तपोधनाः
साग्निनामपिशान्त्यर्थं ः ः द्वितीयं सर्वसिद्धिदम्।। 9
अर्चनद्वै विध्यम्
तदर्चनं द्विधा प्रोक्त मूर्त ञ्च समूर्तकम्
अग्नौ हुतममूर्तंस्या त्समूर्तं बेरपूजनम्। 10


अमूर्तं यजमानस्य ह्यभावे च विनश्यति
अच्छिन्नं शाश्वतं नित्यं प्रतिमाराधनं परम्। 11
सूत्रे विखनसा प्रोक्त मग्न्याधानादिकं तथा
(आद्याघारप्रहृत्यन्तम्, अग्न्याघार प्रभृत्यर्तम्।ग।)अग्न्याघार प्रभृत्यन्तं स्विष्टाकार ञ्च सर्वतः। 12
तथा चरेद्यथामार्गं प्रतिमाराधनेऽपि च
प्रतिमा।क।ःःसाकं मन्तर क्रियाभिश्च,क।) आलयाराधनामार्गं प्रवक्ष्यामि यथाक्रमम्। 13
भूपरीक्षां समारभ्य निष्कृत्यन्तं स शिल्पकम्
ः ः कृत्स्नं मन्त्रक्रियासार्थ मृजु व्यक्तं तपोधनाः।
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे ऋषि प्रश्नविधिर्नाम
प्रथमोऽध्यायः
--------------